Shanti Parva, Adhyaya 99, Verse 1
के लोका युध्यमानानां शूराणामनिवर्तिनाम्
भवन्ति निधनं प्राप्य तन्मे ब्रूहि पितामह
Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.
के लोका युध्यमानानां शूराणामनिवर्तिनाम्
भवन्ति निधनं प्राप्य तन्मे ब्रूहि पितामह
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
अम्बरीषस्य संवादमिन्द्रस्य च युधिष्ठिर
अम्बरीषो हि नाभागः स्वर्गं गत्वा सुदुर्लभम्
ददर्श सुरलोकस्थं शक्रेण सचिवं सह
सर्वतेजोमयं दिव्यं विमानवरमास्थितम्
उपर्युपरि गच्छन्तं स्वं वै सेनापतिं प्रभुम्
स दृष्ट्वोपरि गच्छन्तं सेनापतिमुदारधीः
ऋद्धिं दृष्ट्वा सुदेवस्य विस्मितः प्राह वासवम्
सागरान्तां महीं कृत्स्नामनुशिष्य यथाविधि
चातुर्वर्ण्ये यथाशास्त्रं प्रवृत्तो धर्मकाम्यया
ब्रह्मचर्येण घोरेण आचार्यकुलसेवया
वेदानधीत्य धर्मेण राजशास्त्रं च केवलम्
अतिथीनन्नपानेन पितॄंश्च स्वधया तथा
ऋषीन्स्वाध्यायदीक्षाभिर्देवान्यज्ञैरनुत्तमैः
क्षत्रधर्मे स्थितो भूत्वा यथाशास्त्रं यथाविधि
उदीक्षमाणः पृतनां जयामि युधि वासव
देवराज सुदेवोऽयं मम सेनापतिः पुरा
आसीद्योधः प्रशान्तात्मा सोऽयं कस्मादतीव माम्
नानेन क्रतुभिर्मुख्यैरिष्टं नैव द्विजातयः
तर्पिता विधिवच्छक्र सोऽयं कस्मादतीव माम्
एतस्य विततस्तात सुदेवस्य बभूव ह
संग्रामयज्ञः सुमहान्यश्चान्यो युध्यते नरः
संनद्धो दीक्षितः सर्वो योधः प्राप्य चमूमुखम्
युद्धयज्ञाधिकारस्थो भवतीति विनिश्चयः
कानि यज्ञे हवींष्यत्र किमाज्यं का च दक्षिणा
ऋत्विजश्चात्र के प्रोक्तास्तन्मे ब्रूहि शतक्रतो
ऋत्विजः कुञ्जरास्तत्र वाजिनोऽध्वर्यवस्तथा
हवींषि परमांसानि रुधिरं त्वाज्यमेव च
सृगालगृध्रकाकोलाः सदस्यास्तत्र सत्रिणः
आज्यशेषं पिबन्त्येते हविः प्राश्नन्ति चाध्वरे
प्रासतोमरसंघाताः खड्गशक्तिपरश्वधाः
ज्वलन्तो निशिताः पीताः स्रुचस्तस्याथ सत्रिणः
चापवेगायतस्तीक्ष्णः परकायावदारणः
ऋजुः सुनिशितः पीतः सायकोऽस्य स्रुवो महान्
द्वीपिचर्मावनद्धश्च नागदन्तकृतत्सरुः
हस्तिहस्तगतः खड्गः स्फ्यो भवेत्तस्य संयुगे
ज्वलितैर्निशितैः पीतैः प्रासशक्तिपरश्वधैः
शैक्यायसमयैस्तीक्ष्णैरभिघातो भवेद्वसु
आवेगाद्यत्तु रुधिरं संग्रामे स्यन्दते भुवि
सास्य पूर्णाहुतिर्होत्रे समृद्धा सर्वकामधुक्
छिन्धि भिन्धीति यस्यैतच्छ्रूयते वाहिनीमुखे
सामानि सामगास्तस्य गायन्ति यमसादने
हविर्धानं तु तस्याहुः परेषां वाहिनीमुखम्
कुञ्जराणां हयानां च वर्मिणां च समुच्चयः
अग्निः श्येनचितो नाम तस्य यज्ञे विधीयते
उत्तिष्ठति कबन्धोऽत्र सहस्रे निहते तु यः
स यूपस्तस्य शूरस्य खादिरोऽष्टाश्रिरुच्यते
इडोपहूतं क्रोशन्ति कुञ्जरा अङ्कुशेरिताः
व्याघुष्टतलनादेन वषट्कारेण पार्थिव
उद्गाता तत्र संग्रामे त्रिसामा दुन्दुभिः स्मृतः
ब्रह्मस्वे ह्रियमाणे यः प्रियां युद्धे तनुं त्यजेत्
आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः
भर्तुरर्थे तु यः शूरो विक्रमेद्वाहिनीमुखे
भयान्न च निवर्तेत तस्य लोका यथा मम
नीलचन्द्राकृतैः खड्गैर्बाहुभिः परिघोपमैः
यस्य वेदिरुपस्तीर्णा तस्य लोका यथा मम
यस्तु नावेक्षते कंचित्सहायं विजये स्थितः
विगाह्य वाहिनीमध्यं तस्य लोका यथा मम
यस्य तोमरसंघाटा भेरीमण्डूककच्छपा
वीरास्थिशर्करा दुर्गा मांसशोणितकर्दमा