Mahabharata

Shanti Parva, Adhyaya 96

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 96, Verse 1

अथ यो विजिगीषेत क्षत्रियः क्षत्रियं युधि

कस्तस्य धर्म्यो विजय एतत्पृष्टो ब्रवीहि मे

Mahabharata

Shanti Parva, Adhyaya 96, Verse 2

ससहायोऽसहायो वा राष्ट्रमागम्य भूमिपः

ब्रूयादहं वो राजेति रक्षिष्यामि च वः सदा

Mahabharata

Shanti Parva, Adhyaya 96, Verse 3

मम धर्म्यं बलिं दत्त किं वा मां प्रतिपत्स्यथ

ते चेत्तमागतं तत्र वृणुयुः कुशलं भवेत्

Mahabharata

Shanti Parva, Adhyaya 96, Verse 4

ते चेदक्षत्रियाः सन्तो विरुध्येयुः कथंचन

सर्वोपायैर्नियन्तव्या विकर्मस्था नराधिप

Mahabharata

Shanti Parva, Adhyaya 96, Verse 5

अशक्तं क्षत्रियं मत्वा शस्त्रं गृह्णात्यथापरः

त्राणायाप्यसमर्थं तं मन्यमानमतीव च

Mahabharata

Shanti Parva, Adhyaya 96, Verse 6

अथ यः क्षत्रियो राजा क्षत्रियं प्रत्युपाव्रजेत्

कथं स प्रतियोद्धव्यस्तन्मे ब्रूहि पितामह

Mahabharata

Shanti Parva, Adhyaya 96, Verse 7

नासंनद्धो नाकवचो योद्धव्यः क्षत्रियो रणे

एक एकेन वाच्यश्च विसृजस्व क्षिपामि च

Mahabharata

Shanti Parva, Adhyaya 96, Verse 8

स चेत्संनद्ध आगच्छेत्संनद्धव्यं ततो भवेत्

स चेत्ससैन्य आगच्छेत्ससैन्यस्तमथाह्वयेत्

Mahabharata

Shanti Parva, Adhyaya 96, Verse 9

स चेन्निकृत्या युध्येत निकृत्या तं प्रयोधयेत्

अथ चेद्धर्मतो युध्येद्धर्मेणैव निवारयेत्

Mahabharata

Shanti Parva, Adhyaya 96, Verse 10

नाश्वेन रथिनं यायादुदियाद्रथिनं रथी

व्यसने न प्रहर्तव्यं न भीताय जिताय च

Mahabharata

Shanti Parva, Adhyaya 96, Verse 11

नेषुर्लिप्तो न कर्णी स्यादसतामेतदायुधम्

जयार्थमेव योद्धव्यं न क्रुध्येदजिघांसतः

Mahabharata

Shanti Parva, Adhyaya 96, Verse 12

साधूनां तु मिथोभेदात्साधुश्चेद्व्यसनी भवेत्

सव्रणो नाभिहन्तव्यो नानपत्यः कथंचन

Mahabharata

Shanti Parva, Adhyaya 96, Verse 13

भग्नशस्त्रो विपन्नाश्वश्छिन्नज्यो हतवाहनः

चिकित्स्यः स्यात्स्वविषये प्राप्यो वा स्वगृहान्भवेत्

निर्व्रणोऽपि च मोक्तव्य एष धर्मः सनातनः

Mahabharata

Shanti Parva, Adhyaya 96, Verse 14

तस्माद्धर्मेण योद्धव्यं मनुः स्वायंभुवोऽब्रवीत्

सत्सु नित्यं सतां धर्मस्तमास्थाय न नाशयेत्

Mahabharata

Shanti Parva, Adhyaya 96, Verse 15

यो वै जयत्यधर्मेण क्षत्रियो वर्धमानकः

आत्मानमात्मना हन्ति पापो निकृतिजीवनः

Mahabharata

Shanti Parva, Adhyaya 96, Verse 16

कर्म चैतदसाधूनामसाधुं साधुना जयेत्

धर्मेण निधनं श्रेयो न जयः पापकर्मणा

Mahabharata

Shanti Parva, Adhyaya 96, Verse 17

नाधर्मश्चरितो राजन्सद्यः फलति गौरिव

मूलान्यस्य प्रशाखाश्च दहन्समनुगच्छति

Mahabharata

Shanti Parva, Adhyaya 96, Verse 18

पापेन कर्मणा वित्तं लब्ध्वा पापः प्रहृष्यति

स वर्धमानः स्तेयेन पापः पापे प्रसज्जति

Mahabharata

Shanti Parva, Adhyaya 96, Verse 19

न धर्मोऽस्तीति मन्वानः शुचीनवहसन्निव

अश्रद्दधानभावाच्च विनाशमुपगच्छति

Mahabharata

Shanti Parva, Adhyaya 96, Verse 20

स बद्धो वारुणैः पाशैरमर्त्य इव मन्यते

महादृतिरिवाध्मातः स्वकृतेन विवर्धते

Mahabharata

Shanti Parva, Adhyaya 96, Verse 21

ततः समूलो ह्रियते नदीकूलादिव द्रुमः

अथैनमभिनिन्दन्ति भिन्नं कुम्भमिवाश्मनि

तस्माद्धर्मेण विजयं कामं लिप्सेत भूमिपः