Shanti Parva, Adhyaya 95, Verse 1
अयुद्धेनैव विजयं वर्धयेद्वसुधाधिपः
जघन्यमाहुर्विजयं यो युद्धेन नराधिप
Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.
अयुद्धेनैव विजयं वर्धयेद्वसुधाधिपः
जघन्यमाहुर्विजयं यो युद्धेन नराधिप
न चाप्यलब्धं लिप्सेत मूले नातिदृढे सति
न हि दुर्बलमूलस्य राज्ञो लाभो विधीयते
यस्य स्फीतो जनपदः संपन्नः प्रियराजकः
संतुष्टपुष्टसचिवो दृढमूलः स पार्थिवः
यस्य योधाः सुसंतुष्टाः सान्त्विताः सूपधास्थिताः
अल्पेनापि स दण्डेन महीं जयति भूमिपः
पौरजानपदा यस्य स्वनुरक्ताः सुपूजिताः
सधना धान्यवन्तश्च दृढमूलः स पार्थिवः
प्रभावकालावधिकौ यदा मन्येत चात्मनः
तदा लिप्सेत मेधावी परभूमिं धनान्युत
भोगेष्वदयमानस्य भूतेषु च दयावतः
वर्धते त्वरमाणस्य विषयो रक्षितात्मनः
तक्षत्यात्मानमेवैष वनं परशुना यथा
यः सम्यग्वर्तमानेषु स्वेषु मिथ्या प्रवर्तते
न वै द्विषन्तः क्षीयन्ते राज्ञो नित्यमपि घ्नतः
क्रोधं नियन्तुं यो वेद तस्य द्वेष्टा न विद्यते
यदार्यजनविद्विष्टं कर्म तन्नाचरेद्बुधः
यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत्
नैनमन्येऽवजानन्ति नात्मना परितप्यते
कृत्यशेषेण यो राजा सुखान्यनुबुभूषति
इदंवृत्तं मनुष्येषु वर्तते यो महीपतिः
उभौ लोकौ विनिर्जित्य विजये संप्रतिष्ठते
इत्युक्तो वामदेवेन सर्वं तत्कृतवान्नृपः
तथा कुर्वंस्त्वमप्येतौ लोकौ जेता न संशयः