Mahabharata

Shanti Parva, Adhyaya 95

Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 95, Verse 1

अयुद्धेनैव विजयं वर्धयेद्वसुधाधिपः

जघन्यमाहुर्विजयं यो युद्धेन नराधिप

Mahabharata

Shanti Parva, Adhyaya 95, Verse 2

न चाप्यलब्धं लिप्सेत मूले नातिदृढे सति

न हि दुर्बलमूलस्य राज्ञो लाभो विधीयते

Mahabharata

Shanti Parva, Adhyaya 95, Verse 3

यस्य स्फीतो जनपदः संपन्नः प्रियराजकः

संतुष्टपुष्टसचिवो दृढमूलः स पार्थिवः

Mahabharata

Shanti Parva, Adhyaya 95, Verse 4

यस्य योधाः सुसंतुष्टाः सान्त्विताः सूपधास्थिताः

अल्पेनापि स दण्डेन महीं जयति भूमिपः

Mahabharata

Shanti Parva, Adhyaya 95, Verse 5

पौरजानपदा यस्य स्वनुरक्ताः सुपूजिताः

सधना धान्यवन्तश्च दृढमूलः स पार्थिवः

Mahabharata

Shanti Parva, Adhyaya 95, Verse 6

प्रभावकालावधिकौ यदा मन्येत चात्मनः

तदा लिप्सेत मेधावी परभूमिं धनान्युत

Mahabharata

Shanti Parva, Adhyaya 95, Verse 7

भोगेष्वदयमानस्य भूतेषु च दयावतः

वर्धते त्वरमाणस्य विषयो रक्षितात्मनः

Mahabharata

Shanti Parva, Adhyaya 95, Verse 8

तक्षत्यात्मानमेवैष वनं परशुना यथा

यः सम्यग्वर्तमानेषु स्वेषु मिथ्या प्रवर्तते

Mahabharata

Shanti Parva, Adhyaya 95, Verse 9

न वै द्विषन्तः क्षीयन्ते राज्ञो नित्यमपि घ्नतः

क्रोधं नियन्तुं यो वेद तस्य द्वेष्टा न विद्यते

Mahabharata

Shanti Parva, Adhyaya 95, Verse 10

यदार्यजनविद्विष्टं कर्म तन्नाचरेद्बुधः

यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत्

Mahabharata

Shanti Parva, Adhyaya 95, Verse 11

नैनमन्येऽवजानन्ति नात्मना परितप्यते

कृत्यशेषेण यो राजा सुखान्यनुबुभूषति

Mahabharata

Shanti Parva, Adhyaya 95, Verse 12

इदंवृत्तं मनुष्येषु वर्तते यो महीपतिः

उभौ लोकौ विनिर्जित्य विजये संप्रतिष्ठते

Mahabharata

Shanti Parva, Adhyaya 95, Verse 13

इत्युक्तो वामदेवेन सर्वं तत्कृतवान्नृपः

तथा कुर्वंस्त्वमप्येतौ लोकौ जेता न संशयः