Mahabharata

Shanti Parva, Adhyaya 94

Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 94, Verse 1

यत्राधर्मं प्रणयते दुर्बले बलवत्तरः

तां वृत्तिमुपजीवन्ति ये भवन्ति तदन्वयाः

Mahabharata

Shanti Parva, Adhyaya 94, Verse 2

राजानमनुवर्तन्ते तं पापाभिप्रवर्तकम्

अविनीतमनुष्यं तत्क्षिप्रं राष्ट्रं विनश्यति

Mahabharata

Shanti Parva, Adhyaya 94, Verse 3

यद्वृत्तिमुपजीवन्ति प्रकृतिस्थस्य मानवाः

तदेव विषमस्थस्य स्वजनोऽपि न मृष्यते

Mahabharata

Shanti Parva, Adhyaya 94, Verse 4

साहसप्रकृतिर्यत्र कुरुते किंचिदुल्बणम्

अशास्त्रलक्षणो राजा क्षिप्रमेव विनश्यति

Mahabharata

Shanti Parva, Adhyaya 94, Verse 5

योऽत्यन्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते

जितानामजितानां च क्षत्रधर्मादपैति सः

Mahabharata

Shanti Parva, Adhyaya 94, Verse 6

द्विषन्तं कृतकर्माणं गृहीत्वा नृपती रणे

यो न मानयते द्वेषात्क्षत्रधर्मादपैति सः

Mahabharata

Shanti Parva, Adhyaya 94, Verse 7

शक्तः स्यात्सुमुखो राजा कुर्यात्कारुण्यमापदि

प्रियो भवति भूतानां न च विभ्रश्यते श्रियः

Mahabharata

Shanti Parva, Adhyaya 94, Verse 8

अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत्

नचिरेण प्रियः स स्याद्योऽप्रियः प्रियमाचरेत्

Mahabharata

Shanti Parva, Adhyaya 94, Verse 9

मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः

न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत्

Mahabharata

Shanti Parva, Adhyaya 94, Verse 10

नापत्रपेत प्रश्नेषु नाभिभव्यां गिरं सृजेत्

न त्वरेत न चासूयेत्तथा संगृह्यते परः

Mahabharata

Shanti Parva, Adhyaya 94, Verse 11

प्रिये नातिभृशं हृष्येदप्रिये न च संज्वरेत्

न मुह्येदर्थकृच्छ्रेषु प्रजाहितमनुस्मरन्

Mahabharata

Shanti Parva, Adhyaya 94, Verse 12

यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः

तस्य कर्माणि सिध्यन्ति न च संत्यज्यते श्रिया

Mahabharata

Shanti Parva, Adhyaya 94, Verse 13

निवृत्तं प्रतिकूलेभ्यो वर्तमानमनुप्रिये

भक्तं भजेत नृपतिस्तद्वै वृत्तं सतामिह

Mahabharata

Shanti Parva, Adhyaya 94, Verse 14

अप्रकीर्णेन्द्रियं प्राज्ञमत्यन्तानुगतं शुचिम्

शक्तं चैवानुरक्तं च युञ्ज्यान्महति कर्मणि

Mahabharata

Shanti Parva, Adhyaya 94, Verse 15

एवमेव गुणैर्युक्तो यो न रज्यति भूमिपम्

भर्तुरर्थेष्वसूयन्तं न तं युञ्जीत कर्मणि

Mahabharata

Shanti Parva, Adhyaya 94, Verse 16

मूढमैन्द्रियकं लुब्धमनार्यचरितं शठम्

अनतीतोपधं हिंस्रं दुर्बुद्धिमबहुश्रुतम्

Mahabharata

Shanti Parva, Adhyaya 94, Verse 17

त्यक्तोपात्तं मद्यरतं द्यूतस्त्रीमृगयापरम्

कार्ये महति यो युञ्ज्याद्धीयते स नृपः श्रियः

Mahabharata

Shanti Parva, Adhyaya 94, Verse 18

रक्षितात्मा तु यो राजा रक्ष्यान्यश्चानुरक्षति

प्रजाश्च तस्य वर्धन्ते ध्रुवं च महदश्नुते

Mahabharata

Shanti Parva, Adhyaya 94, Verse 19

ये केचिद्भूमिपतयस्तान्सर्वानन्ववेक्षयेत्

सुहृद्भिरनभिख्यातैस्तेन राजा न रिष्यते

Mahabharata

Shanti Parva, Adhyaya 94, Verse 20

अपकृत्य बलस्थस्य दूरस्थोऽस्मीति नाश्वसेत्

श्येनानुचरितैर्ह्येते निपतन्ति प्रमाद्यतः

Mahabharata

Shanti Parva, Adhyaya 94, Verse 21

दृढमूलस्त्वदुष्टात्मा विदित्वा बलमात्मनः

अबलानभियुञ्जीत न तु ये बलवत्तराः

Mahabharata

Shanti Parva, Adhyaya 94, Verse 22

विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयन्

आहवे निधनं कुर्याद्राजा धर्मपरायणः

Mahabharata

Shanti Parva, Adhyaya 94, Verse 23

मरणान्तमिदं सर्वं नेह किंचिदनामयम्

तस्माद्धर्मे स्थितो राजा प्रजा धर्मेण पालयेत्

Mahabharata

Shanti Parva, Adhyaya 94, Verse 24

रक्षाधिकरणं युद्धं तथा धर्मानुशासनम्

मन्त्रचिन्त्यं सुखं काले पञ्चभिर्वर्धते मही

Mahabharata

Shanti Parva, Adhyaya 94, Verse 25

एतानि यस्य गुप्तानि स राजा राजसत्तम

सततं वर्तमानोऽत्र राजा भुङ्क्ते महीमिमाम्

Mahabharata

Shanti Parva, Adhyaya 94, Verse 26

नैतान्येकेन शक्यानि सातत्येनान्ववेक्षितुम्

एतेष्वाप्तान्प्रतिष्ठाप्य राजा भुङ्क्ते महीं चिरम्

Mahabharata

Shanti Parva, Adhyaya 94, Verse 27

दातारं संविभक्तारं मार्दवोपगतं शुचिम्

असंत्यक्तमनुष्यं च तं जनाः कुर्वते प्रियम्

Mahabharata

Shanti Parva, Adhyaya 94, Verse 28

यस्तु निःश्रेयसं ज्ञात्वा ज्ञानं तत्प्रतिपद्यते

आत्मनो मतमुत्सृज्य तं लोकोऽनुविधीयते

Mahabharata

Shanti Parva, Adhyaya 94, Verse 29

योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते

शृणोति प्रतिकूलानि विमना नचिरादिव

Mahabharata

Shanti Parva, Adhyaya 94, Verse 30

अग्राम्यचरितां बुद्धिमत्यन्तं यो न बुध्यते

जितानामजितानां च क्षत्रधर्मादपैति सः