Shanti Parva, Adhyaya 93, Verse 1
कथं धर्मे स्थातुमिच्छन्राजा वर्तेत धार्मिकः
पृच्छामि त्वा कुरुश्रेष्ठ तन्मे ब्रूहि पितामह
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
कथं धर्मे स्थातुमिच्छन्राजा वर्तेत धार्मिकः
पृच्छामि त्वा कुरुश्रेष्ठ तन्मे ब्रूहि पितामह
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता
राजा वसुमना नाम कौसल्यो बलवाञ्शुचिः
महर्षिं परिपप्रच्छ वामदेवं यशस्विनम्
धर्मार्थसहितं वाक्यं भगवन्ननुशाधि माम्
येन वृत्तेन वै तिष्ठन्न च्यवेयं स्वधर्मतः
तमब्रवीद्वामदेवस्तपस्वी जपतां वरः
हेमवर्णमुपासीनं ययातिमिव नाहुषम्
धर्ममेवानुवर्तस्व न धर्माद्विद्यते परम्
धर्मे स्थिता हि राजानो जयन्ति पृथिवीमिमाम्
अर्थसिद्धेः परं धर्मं मन्यते यो महीपतिः
ऋतां च कुरुते बुद्धिं स धर्मेण विरोचते
अधर्मदर्शी यो राजा बलादेव प्रवर्तते
क्षिप्रमेवापयातोऽस्मादुभौ प्रथममध्यमौ
असत्पापिष्ठसचिवो वध्यो लोकस्य धर्महा
सहैव परिवारेण क्षिप्रमेवावसीदति
अर्थानामननुष्ठाता कामचारी विकत्थनः
अपि सर्वां महीं लब्ध्वा क्षिप्रमेव विनश्यति
अथाददानः कल्याणमनसूयुर्जितेन्द्रियः
वर्धते मतिमान्राजा स्रोतोभिरिव सागरः
न पूर्णोऽस्मीति मन्येत धर्मतः कामतोऽर्थतः
बुद्धितो मित्रतश्चापि सततं वसुधाधिपः
एतेष्वेव हि सर्वेषु लोकयात्रा प्रतिष्ठिता
एतानि शृण्वँल्लभते यशः कीर्तिं श्रियः प्रजाः
एवं यो धर्मसंरम्भी धर्मार्थपरिचिन्तकः
अर्थान्समीक्ष्यारभते स ध्रुवं महदश्नुते
अदाता ह्यनतिस्नेहो दण्डेनावर्तयन्प्रजाः
साहसप्रकृती राजा क्षिप्रमेव विनश्यति
अथ पापं कृतं बुद्ध्या न च पश्यत्यबुद्धिमान्
अकीर्त्यापि समायुक्तो मृतो नरकमश्नुते
अथ मानयितुर्दातुः शुक्लस्य रसवेदिनः
व्यसनं स्वमिवोत्पन्नं विजिघांसन्ति मानवाः
यस्य नास्ति गुरुर्धर्मे न चान्याननुपृच्छति
सुखतन्त्रोऽर्थलाभेषु न चिरं महदश्नुते
गुरुप्रधानो धर्मेषु स्वयमर्थान्ववेक्षिता
धर्मप्रधानो लोकेषु सुचिरं महदश्नुते