Shanti Parva, Adhyaya 92, Verse 1
कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः
संपद्यदैषा भवति सा बिभर्ति सुखं प्रजाः
Containing 56 sacred Sanskrit shlokas with multi-author commentaries and translations.
कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः
संपद्यदैषा भवति सा बिभर्ति सुखं प्रजाः
यो न जानाति निर्हन्तुं वस्त्राणां रजको मलम्
रक्तानि वा शोधयितुं यथा नास्ति तथैव सः
एवमेव द्विजेन्द्राणां क्षत्रियाणां विशामपि
शूद्राश्चतुर्णां वर्णानां नानाकर्मस्ववस्थिताः
कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिश्च राजनि
ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु
तेषां यः क्षत्रियो वेद वस्त्राणामिव शोधनम्
शीलदोषान्विनिर्हन्तुं स पिता स प्रजापतिः
कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ
राजवृत्तानि सर्वाणि राजैव युगमुच्यते
चातुर्वर्ण्यं तथा वेदाश्चातुराश्रम्यमेव च
सर्वं प्रमुह्यते ह्येतद्यदा राजा प्रमाद्यति
राजैव कर्ता भूतानां राजैव च विनाशकः
धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः
राज्ञो भार्याश्च पुत्राश्च बान्धवाः सुहृदस्तथा
समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति
हस्तिनोऽश्वाश्च गावश्चाप्युष्ट्राश्वतरगर्दभाः
अधर्मवृत्ते नृपतौ सर्वे सीदन्ति पार्थिव
दुर्बलार्थं बलं सृष्टं धात्रा मान्धातरुच्यते
अबलं तन्महद्भूतं यस्मिन्सर्वं प्रतिष्ठितम्
यच्च भूतं स भजते भूता ये च तदन्वयाः
अधर्मस्थे हि नृपतौ सर्वे सीदन्ति पार्थिव
दुर्बलस्य हि यच्चक्षुर्मुनेराशीविषस्य च
अविषह्यतमं मन्ये मा स्म दुर्बलमासदः
दुर्बलांस्तात बुध्येथा नित्यमेवाविमानितान्
मा त्वां दुर्बलचक्षूंषि प्रदहेयुः सबान्धवम्
न हि दुर्बलदग्धस्य कुले किंचित्प्ररोहति
आमूलं निर्दहत्येव मा स्म दुर्बलमासदः
अबलं वै बलाच्छ्रेयो यच्चातिबलवद्बलम्
बलस्याबलदग्धस्य न किंचिदवशिष्यते
विमानितो हतोत्क्रुष्टस्त्रातारं चेन्न विन्दति
अमानुषकृतस्तत्र दण्डो हन्ति नराधिपम्
मा स्म तात बले स्थेया बाधिष्ठा मापि दुर्बलम्
मा त्वा दुर्बलचक्षूंषि धक्ष्यन्त्यग्निरिवाश्रयम्
यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम्
तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशासताम्
यदि नात्मनि पुत्रेषु न चेत्पौत्रेषु नप्तृषु
न हि पापं कृतं कर्म सद्यः फलति गौरिव
यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति
महान्दैवकृतस्तत्र दण्डः पतति दारुणः
युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव
अभीक्ष्णं भिक्षुदोषेण राजानं घ्नन्ति तादृशाः
राज्ञो यदा जनपदे बहवो राजपूरुषाः
अनयेनोपवर्तन्ते तद्राज्ञः किल्बिषं महत्
यदा युक्ता नयन्त्यर्थान्कामादर्थवशेन वा
कृपणं याचमानानां तद्राज्ञो वैशसं महत्
महावृक्षो जायते वर्धते च; तं चैव भूतानि समाश्रयन्ति
यदा वृक्षश्छिद्यते दह्यते वा; तदाश्रया अनिकेता भवन्ति
यदा राष्ट्रे धर्ममग्र्यं चरन्ति; संस्कारं वा राजगुणं ब्रुवाणाः
तैरेवाधर्मश्चरितो धर्ममोहा;त्तूर्णं जह्यात्सुकृतं दुष्कृतं च
यत्र पापा ज्ञायमानाश्चरन्ति; सतां कलिर्विन्दति तत्र राज्ञः
यदा राजा शास्ति नरान्नशिष्या;न्न तद्राज्यं वर्धते भूमिपाल
यश्चामात्यं मानयित्वा यथार्हं; मन्त्रे च युद्धे च नृपो नियुञ्ज्यात्
प्रवर्धते तस्य राष्ट्रं नृपस्य; भुङ्क्ते महीं चाप्यखिलां चिराय
अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम्
समीक्ष्य पूजयन्राजा धर्मं प्राप्नोत्यनुत्तमम्
संविभज्य यदा भुङ्क्ते न चान्यानवमन्यते
निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते