Mahabharata

Shanti Parva, Adhyaya 91

Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 91, Verse 1

यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्मवित्तमः

मान्धात्रे यौवनाश्वाय प्रीतिमानभ्यभाषत

Mahabharata

Shanti Parva, Adhyaya 91, Verse 2

स यथानुशशासैनमुतथ्यो ब्रह्मवित्तमः

तत्ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर

Mahabharata

Shanti Parva, Adhyaya 91, Verse 3

धर्माय राजा भवति न कामकरणाय तु

मान्धातरेवं जानीहि राजा लोकस्य रक्षिता

Mahabharata

Shanti Parva, Adhyaya 91, Verse 4

राजा चरति वै धर्मं देवत्वायैव गच्छति

न चेद्धर्मं स चरति नरकायैव गच्छति

Mahabharata

Shanti Parva, Adhyaya 91, Verse 5

धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति

तं राजा साधु यः शास्ति स राजा पृथिवीपतिः

Mahabharata

Shanti Parva, Adhyaya 91, Verse 6

राजा परमधर्मात्मा लक्ष्मीवान्पाप उच्यते

देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते

Mahabharata

Shanti Parva, Adhyaya 91, Verse 7

अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते

तदेव मङ्गलं सर्वं लोकः समनुवर्तते

Mahabharata

Shanti Parva, Adhyaya 91, Verse 8

उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान्

भयमाहुर्दिवारात्रं यदा पापो न वार्यते

Mahabharata

Shanti Parva, Adhyaya 91, Verse 9

न वेदाननुवर्तन्ति व्रतवन्तो द्विजातयः

न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते

Mahabharata

Shanti Parva, Adhyaya 91, Verse 10

वध्यानामिव सर्वेषां मनो भवति विह्वलम्

मनुष्याणां महाराज यदा पापो न वार्यते

Mahabharata

Shanti Parva, Adhyaya 91, Verse 11

उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम्

असृजन्सुमहद्भूतमयं धर्मो भविष्यति

Mahabharata

Shanti Parva, Adhyaya 91, Verse 12

यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते

यस्मिन्विलीयते धर्मस्तं देवा वृषलं विदुः

Mahabharata

Shanti Parva, Adhyaya 91, Verse 13

वृषो हि भगवान्धर्मो यस्तस्य कुरुते ह्यलम्

वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत्

Mahabharata

Shanti Parva, Adhyaya 91, Verse 14

धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा

तस्मिन्ह्रसति हीयन्ते तस्माद्धर्मं प्रवर्धयेत्

Mahabharata

Shanti Parva, Adhyaya 91, Verse 15

धनात्स्रवति धर्मो हि धारणाद्वेति निश्चयः

अकार्याणां मनुष्येन्द्र स सीमान्तकरः स्मृतः

Mahabharata

Shanti Parva, Adhyaya 91, Verse 16

प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयंभुवा

तस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रहकारणात्

Mahabharata

Shanti Parva, Adhyaya 91, Verse 17

तस्माद्धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतः

स राजा यः प्रजाः शास्ति साधुकृत्पुरुषर्षभः

Mahabharata

Shanti Parva, Adhyaya 91, Verse 18

कामक्रोधावनादृत्य धर्ममेवानुपालयेत्

धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम

Mahabharata

Shanti Parva, Adhyaya 91, Verse 19

धर्मस्य ब्राह्मणा योनिस्तस्मात्तान्पूजयेत्सदा

ब्राह्मणानां च मान्धातः कामान्कुर्यादमत्सरी

Mahabharata

Shanti Parva, Adhyaya 91, Verse 20

तेषां ह्यकामकरणाद्राज्ञः संजायते भयम्

मित्राणि च न वर्धन्ते तथामित्रीभवन्त्यपि

Mahabharata

Shanti Parva, Adhyaya 91, Verse 21

ब्राह्मणान्वै तदासूयाद्यदा वैरोचनो बलिः

अथास्माच्छ्रीरपाक्रामद्यास्मिन्नासीत्प्रतापिनी

Mahabharata

Shanti Parva, Adhyaya 91, Verse 22

ततस्तस्मादपक्रम्य सागच्छत्पाकशासनम्

अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरंदरे

Mahabharata

Shanti Parva, Adhyaya 91, Verse 23

एतत्फलमसूयाया अभिमानस्य चाभिभो

तस्माद्बुध्यस्व मान्धातर्मा त्वा जह्यात्प्रतापिनी

Mahabharata

Shanti Parva, Adhyaya 91, Verse 24

दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः

तेन देवासुरा राजन्नीताः सुबहुशो वशम्

Mahabharata

Shanti Parva, Adhyaya 91, Verse 25

राजर्षयश्च बहवस्तस्माद्बुध्यस्व पार्थिव

राजा भवति तं जित्वा दासस्तेन पराजितः

Mahabharata

Shanti Parva, Adhyaya 91, Verse 26

स यथा दर्पसहितमधर्मं नानुसेवसे

तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि

Mahabharata

Shanti Parva, Adhyaya 91, Verse 27

मत्तात्प्रमत्तात्पोगण्डादुन्मत्ताच्च विशेषतः

तदभ्यासादुपावर्तादहितानां च सेवनात्

Mahabharata

Shanti Parva, Adhyaya 91, Verse 28

निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः

पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात्

Mahabharata

Shanti Parva, Adhyaya 91, Verse 29

एतेभ्यो नित्ययत्तः स्यान्नक्तंचर्यां च वर्जयेत्

अत्यायं चातिमानं च दम्भं क्रोधं च वर्जयेत्

Mahabharata

Shanti Parva, Adhyaya 91, Verse 30

अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च

परभार्यासु कन्यासु नाचरेन्मैथुनं नृपः