Mahabharata

Shanti Parva, Adhyaya 90

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 90, Verse 1

वनस्पतीन्भक्ष्यफलान्न छिन्द्युर्विषये तव

ब्राह्मणानां मूलफलं धर्म्यमाहुर्मनीषिणः

Mahabharata

Shanti Parva, Adhyaya 90, Verse 2

ब्राह्मणेभ्योऽतिरिक्तं च भुञ्जीरन्नितरे जनाः

न ब्राह्मणोपरोधेन हरेदन्यः कथंचन

Mahabharata

Shanti Parva, Adhyaya 90, Verse 3

विप्रश्चेत्त्यागमातिष्ठेदाख्यायावृत्तिकर्शितः

परिकल्प्यास्य वृत्तिः स्यात्सदारस्य नराधिप

Mahabharata

Shanti Parva, Adhyaya 90, Verse 4

स चेन्नोपनिवर्तेत वाच्यो ब्राह्मणसंसदि

कस्मिन्निदानीं मर्यादामयं लोकः करिष्यति

Mahabharata

Shanti Parva, Adhyaya 90, Verse 5

असंशयं निवर्तेत न चेद्वक्ष्यत्यतः परम्

पूर्वं परोक्षं कर्तव्यमेतत्कौन्तेय शासनम्

Mahabharata

Shanti Parva, Adhyaya 90, Verse 6

आहुरेतज्जना ब्रह्मन्न चैतच्छ्रद्दधाम्यहम्

निमन्त्र्यश्च भवेद्भोगैरवृत्त्या चेत्तदाचरेत्

Mahabharata

Shanti Parva, Adhyaya 90, Verse 7

कृषिगोरक्ष्यवाणिज्यं लोकानामिह जीवनम्

ऊर्ध्वं चैव त्रयी विद्या सा भूतान्भावयत्युत

Mahabharata

Shanti Parva, Adhyaya 90, Verse 8

तस्यां प्रयतमानायां ये स्युस्तत्परिपन्थिनः

दस्यवस्तद्वधायेह ब्रह्मा क्षत्रमथासृजत्

Mahabharata

Shanti Parva, Adhyaya 90, Verse 9

शत्रूञ्जहि प्रजा रक्ष यजस्व क्रतुभिर्नृप

युध्यस्व समरे वीरो भूत्वा कौरवनन्दन

Mahabharata

Shanti Parva, Adhyaya 90, Verse 10

संरक्ष्यान्पालयेद्राजा यः स राजार्यकृत्तमः

ये केचित्तान्न रक्षन्ति तैरर्थो नास्ति कश्चन

Mahabharata

Shanti Parva, Adhyaya 90, Verse 11

सदैव राज्ञा बोद्धव्यं सर्वलोकाद्युधिष्ठिर

तस्माद्धेतोर्हि भुञ्जीत मनुष्यानेव मानवः

Mahabharata

Shanti Parva, Adhyaya 90, Verse 12

अन्तरेभ्यः परान्रक्षन्परेभ्यः पुनरन्तरान्

परान्परेभ्यः स्वान्स्वेभ्यः सर्वान्पालय नित्यदा

Mahabharata

Shanti Parva, Adhyaya 90, Verse 13

आत्मानं सर्वतो रक्षन्राजा रक्षेत मेदिनीम्

आत्ममूलमिदं सर्वमाहुर्हि विदुषो जनाः

Mahabharata

Shanti Parva, Adhyaya 90, Verse 14

किं छिद्रं कोऽनुषङ्गो मे किं वास्त्यविनिपातितम्

कुतो मामास्रवेद्दोष इति नित्यं विचिन्तयेत्

Mahabharata

Shanti Parva, Adhyaya 90, Verse 15

गुप्तैश्चारैरनुमतैः पृथिवीमनुचारयेत्

सुनीतं यदि मे वृत्तं प्रशंसन्ति न वा पुनः

कच्चिद्रोचेज्जनपदे कच्चिद्राष्ट्रे च मे यशः

Mahabharata

Shanti Parva, Adhyaya 90, Verse 16

धर्मज्ञानां धृतिमतां संग्रामेष्वपलायिनाम्

राष्ट्रं च येऽनुजीवन्ति ये च राज्ञोऽनुजीविनः

Mahabharata

Shanti Parva, Adhyaya 90, Verse 17

अमात्यानां च सर्वेषां मध्यस्थानां च सर्वशः

ये च त्वाभिप्रशंसेयुर्निन्देयुरथ वा पुनः

सर्वान्सुपरिणीतांस्तान्कारयेत युधिष्ठिर

Mahabharata

Shanti Parva, Adhyaya 90, Verse 18

एकान्तेन हि सर्वेषां न शक्यं तात रोचितुम्

मित्रामित्रमथो मध्यं सर्वभूतेषु भारत

Mahabharata

Shanti Parva, Adhyaya 90, Verse 19

तुल्यबाहुबलानां च गुणैरपि निषेविनाम्

कथं स्यादधिकः कश्चित्स तु भुञ्जीत मानवान्

Mahabharata

Shanti Parva, Adhyaya 90, Verse 20

ये चरा ह्यचरानद्युरदंष्ट्रान्दंष्ट्रिणस्तथा

आशीविषा इव क्रुद्धा भुजगा भुजगानिव

Mahabharata

Shanti Parva, Adhyaya 90, Verse 21

एतेभ्यश्चाप्रमत्तः स्यात्सदा यत्तो युधिष्ठिर

भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः

Mahabharata

Shanti Parva, Adhyaya 90, Verse 22

कच्चित्ते वणिजो राष्ट्रे नोद्विजन्ते करार्दिताः

क्रीणन्तो बहु वाल्पेन कान्तारकृतनिश्रमाः

Mahabharata

Shanti Parva, Adhyaya 90, Verse 23

कच्चित्कृषिकरा राष्ट्रं न जहत्यतिपीडिताः

ये वहन्ति धुरं राज्ञां संभरन्तीतरानपि

Mahabharata

Shanti Parva, Adhyaya 90, Verse 24

इतो दत्तेन जीवन्ति देवाः पितृगणास्तथा

मनुष्योरगरक्षांसि वयांसि पशवस्तथा

Mahabharata

Shanti Parva, Adhyaya 90, Verse 25

एषा ते राष्ट्रवृत्तिश्च राष्ट्रगुप्तिश्च भारत

एतमेवार्थमाश्रित्य भूयो वक्ष्यामि पाण्डव