Adi Parva, Adhyaya 209, Verse 1
ततो वयं प्रव्यथिताः सर्वा भरतसत्तम
आयाम शरणं विप्रं तं तपोधनमच्युतम्
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो वयं प्रव्यथिताः सर्वा भरतसत्तम
आयाम शरणं विप्रं तं तपोधनमच्युतम्
रूपेण वयसा चैव कन्दर्पेण च दर्पिताः
अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज
एष एव वधोऽस्माकं सुपर्याप्तस्तपोधन
यद्वयं संशितात्मानं प्रलोब्धुं त्वामिहागताः
अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचिन्तकाः
तस्माद्धर्मेण धर्मज्ञ नास्मान्हिंसितुमर्हसि
सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते
सत्यो भवतु कल्याण एष वादो मनीषिणाम्
शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम्
शरणं त्वां प्रपन्नाः स्म तस्मात्त्वं क्षन्तुमर्हसि
एवमुक्तस्तु धर्मात्मा ब्राह्मणः शुभकर्मकृत्
प्रसादं कृतवान्वीर रविसोमसमप्रभः
शतं सहस्रं विश्वं च सर्वमक्षयवाचकम्
परिमाणं शतं त्वेतन्नैतदक्षयवाचकम्
यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ्जले
उत्कर्षति जलात्कश्चित्स्थलं पुरुषसत्तमः
तदा यूयं पुनः सर्वाः स्वरूपं प्रतिपत्स्यथ
अनृतं नोक्तपूर्वं मे हसतापि कदाचन
तानि सर्वाणि तीर्थानि इतः प्रभृति चैव ह
नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः
पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम्
ततोऽभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम्
अचिन्तयामोपसृत्य तस्माद्देशात्सुदुःखिताः
क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम्
समागच्छेम यो नस्तद्रूपमापादयेत्पुनः
ता वयं चिन्तयित्वैवं मुहूर्तादिव भारत
दृष्टवत्यो महाभागं देवर्षिमुत नारदम्
सर्वा हृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम्
अभिवाद्य च तं पार्थ स्थिताः स्म व्यथिताननाः
स नोऽपृच्छद्दुःखमूलमुक्तवत्यो वयं च तत्
श्रुत्वा तच्च यथावृत्तमिदं वचनमब्रवीत्
दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै
पुण्यानि रमणीयानि तानि गच्छत माचिरम्
तत्राशु पुरुषव्याघ्रः पाण्डवो वो धनंजयः
मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः
तस्य सर्वा वयं वीर श्रुत्वा वाक्यमिहागताः
तदिदं सत्यमेवाद्य मोक्षिताहं त्वयानघ
एतास्तु मम वै सख्यश्चतस्रोऽन्या जले स्थिताः
कुरु कर्म शुभं वीर एताः सर्वा विमोक्षय
ततस्ताः पाण्डवश्रेष्ठः सर्वा एव विशां पते
तस्माच्छापाददीनात्मा मोक्षयामास वीर्यवान्
उत्थाय च जलात्तस्मात्प्रतिलभ्य वपुः स्वकम्
तास्तदाप्सरसो राजन्नदृश्यन्त यथा पुरा
तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः
चित्राङ्गदां पुनर्द्रष्टुं मणलूरपुरं ययौ
तस्यामजनयत्पुत्रं राजानं बभ्रुवाहनम्
तं दृष्ट्वा पाण्डवो राजन्गोकर्णमभितोऽगमत्