Shanti Parva, Adhyaya 89, Verse 1
यदा राजा समर्थोऽपि कोशार्थी स्यान्महामते
कथं प्रवर्तेत तदा तन्मे ब्रूहि पितामह
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
यदा राजा समर्थोऽपि कोशार्थी स्यान्महामते
कथं प्रवर्तेत तदा तन्मे ब्रूहि पितामह
यथादेशं यथाकालमपि चैव यथाबलम्
अनुशिष्यात्प्रजा राजा धर्मार्थी तद्धिते रतः
यथा तासां च मन्येत श्रेय आत्मन एव च
तथा धर्म्याणि सर्वाणि राजा राष्ट्रे प्रवर्तयेत्
मधुदोहं दुहेद्राष्ट्रं भ्रमरान्न विपातयेत्
वत्सापेक्षी दुहेच्चैव स्तनांश्च न विकुट्टयेत्
जलौकावत्पिबेद्राष्ट्रं मृदुनैव नराधिप
व्याघ्रीव च हरेत्पुत्रमदष्ट्वा मा पतेदिति
अल्पेनाल्पेन देयेन वर्धमानं प्रदापयेत्
ततो भूयस्ततो भूयः कामं वृद्धिं समाचरेत्
दमयन्निव दम्यानां शश्वद्भारं प्रवर्धयेत्
मृदुपूर्वं प्रयत्नेन पाशानभ्यवहारयेत्
सकृत्पाशावकीर्णास्ते न भविष्यन्ति दुर्दमाः
उचितेनैव भोक्तव्यास्ते भविष्यन्ति यत्नतः
तस्मात्सर्वसमारम्भो दुर्लभः पुरुषव्रजः
यथामुख्यान्सान्त्वयित्वा भोक्तव्य इतरो जनः
ततस्तान्भेदयित्वाथ परस्परविवक्षितान्
भुञ्जीत सान्त्वयित्वैव यथासुखमयत्नतः
न चास्थाने न चाकाले करानेभ्योऽनुपातयेत्
आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि
उपायान्प्रब्रवीम्येतान्न मे माया विवक्षिता
अनुपायेन दमयन्प्रकोपयति वाजिनः
पानागाराणि वेशाश्च वेशप्रापणिकास्तथा
कुशीलवाः सकितवा ये चान्ये केचिदीदृशाः
नियम्याः सर्व एवैते ये राष्ट्रस्योपघातकाः
एते राष्ट्रे हि तिष्ठन्तो बाधन्ते भद्रिकाः प्रजाः
न केनचिद्याचितव्यः कश्चित्किंचिदनापदि
इति व्यवस्था भूतानां पुरस्तान्मनुना कृता
सर्वे तथा न जीवेयुर्न कुर्युः कर्म चेदिह
सर्व एव त्रयो लोका न भवेयुरसंशयम्
प्रभुर्नियमने राजा य एतान्न नियच्छति
भुङ्क्ते स तस्य पापस्य चतुर्भागमिति श्रुतिः
तथा कृतस्य धर्मस्य चतुर्भागमुपाश्नुते
स्थानान्येतानि संगम्य प्रसङ्गे भूतिनाशनः
कामप्रसक्तः पुरुषः किमकार्यं विवर्जयेत्
आपद्येव तु याचेरन्येषां नास्ति परिग्रहः
दातव्यं धर्मतस्तेभ्यस्त्वनुक्रोशाद्दयार्थिना
मा ते राष्ट्रे याचनका मा ते भूयुश्च दस्यवः
इष्टादातार एवैते नैते भूतस्य भावकाः
ये भूतान्यनुगृह्णन्ति वर्धयन्ति च ये प्रजाः
ते ते राष्ट्रे प्रवर्तन्तां मा भूतानामभावकाः
दण्ड्यास्ते च महाराज धनादानप्रयोजनाः
प्रयोगं कारयेयुस्तान्यथा बलिकरांस्तथा
कृषिगोरक्ष्यवाणिज्यं यच्चान्यत्किंचिदीदृशम्
पुरुषैः कारयेत्कर्म बहुभिः सह कर्मिभिः
नरश्चेत्कृषिगोरक्ष्यं वाणिज्यं चाप्यनुष्ठितः
संशयं लभते किंचित्तेन राजा विगर्ह्यते
धनिनः पूजयेन्नित्यं यानाच्छादनभोजनैः
वक्तव्याश्चानुगृह्णीध्वं पूजाः सह मयेति ह
अङ्गमेतन्महद्राज्ञां धनिनो नाम भारत
ककुदं सर्वभूतानां धनस्थो नात्र संशयः
प्राज्ञः शूरो धनस्थश्च स्वामी धार्मिक एव च
तपस्वी सत्यवादी च बुद्धिमांश्चाभिरक्षति
तस्मादेतेषु सर्वेषु प्रीतिमान्भव पार्थिव
सत्यमार्जवमक्रोधमानृशंस्यं च पालय
एवं दण्डं च कोशं च मित्रं भूमिं च लप्स्यसे
सत्यार्जवपरो राजन्मित्रकोशसमन्वितः