Mahabharata

Shanti Parva, Adhyaya 86

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 86, Verse 1

कथं स्विदिह राजेन्द्र पालयन्पार्थिवः प्रजाः

प्रति धर्मं विशेषेण कीर्तिमाप्नोति शाश्वतीम्

Mahabharata

Shanti Parva, Adhyaya 86, Verse 2

व्यवहारेण शुद्धेन प्रजापालनतत्परः

प्राप्य धर्मं च कीर्तिं च लोकावाप्नोत्युभौ शुचिः

Mahabharata

Shanti Parva, Adhyaya 86, Verse 3

कीदृशं व्यवहारं तु कैश्च व्यवहरेन्नृपः

एतत्पृष्टो महाप्राज्ञ यथावद्वक्तुमर्हसि

Mahabharata

Shanti Parva, Adhyaya 86, Verse 4

ये चैते पूर्वकथिता गुणास्ते पुरुषं प्रति

नैकस्मिन्पुरुषे ह्येते विद्यन्त इति मे मतिः

Mahabharata

Shanti Parva, Adhyaya 86, Verse 5

एवमेतन्महाप्राज्ञ यथा वदसि बुद्धिमान्

दुर्लभः पुरुषः कश्चिदेभिर्गुणगुणैर्युतः

Mahabharata

Shanti Parva, Adhyaya 86, Verse 6

किं तु संक्षेपतः शीलं प्रयत्ने नेह दुर्लभम्

वक्ष्यामि तु यथामात्यान्यादृशांश्च करिष्यसि

Mahabharata

Shanti Parva, Adhyaya 86, Verse 7

चतुरो ब्राह्मणान्वैद्यान्प्रगल्भान्सात्त्विकाञ्शुचीन्

त्रींश्च शूद्रान्विनीतांश्च शुचीन्कर्मणि पूर्वके

Mahabharata

Shanti Parva, Adhyaya 86, Verse 8

अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं चरेत्

पञ्चाशद्वर्षवयसं प्रगल्भमनसूयकम्

Mahabharata

Shanti Parva, Adhyaya 86, Verse 9

मतिस्मृतिसमायुक्तं विनीतं समदर्शनम्

कार्ये विवदमानानां शक्तमर्थेष्वलोलुपम्

Mahabharata

Shanti Parva, Adhyaya 86, Verse 10

विवर्जितानां व्यसनैः सुघोरैः सप्तभिर्भृशम्

अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत्

Mahabharata

Shanti Parva, Adhyaya 86, Verse 11

ततः संप्रेषयेद्राष्ट्रे राष्ट्रायाथ च दर्शयेत्

अनेन व्यवहारेण द्रष्टव्यास्ते प्रजाः सदा

Mahabharata

Shanti Parva, Adhyaya 86, Verse 12

न चापि गूढं कार्यं ते ग्राह्यं कार्योपघातकम्

कार्ये खलु विपन्ने त्वां सोऽधर्मस्तांश्च पीडयेत्

Mahabharata

Shanti Parva, Adhyaya 86, Verse 13

विद्रवेच्चैव राष्ट्रं ते श्येनात्पक्षिगणा इव

परिस्रवेच्च सततं नौर्विशीर्णेव सागरे

Mahabharata

Shanti Parva, Adhyaya 86, Verse 14

प्रजाः पालयतोऽसम्यगधर्मेणेह भूपतेः

हार्दं भयं संभवति स्वर्गश्चास्य विरुध्यते

Mahabharata

Shanti Parva, Adhyaya 86, Verse 15

अथ योऽधर्मतः पाति राजामात्योऽथ वात्मजः

धर्मासने नियुक्तः सन्धर्ममूलं नरर्षभ

Mahabharata

Shanti Parva, Adhyaya 86, Verse 16

कार्येष्वधिकृताः सम्यगकुर्वन्तो नृपानुगाः

आत्मानं पुरतः कृत्वा यान्त्यधः सहपार्थिवाः

Mahabharata

Shanti Parva, Adhyaya 86, Verse 17

बलात्कृतानां बलिभिः कृपणं बहु जल्पताम्

नाथो वै भूमिपो नित्यमनाथानां नृणां भवेत्

Mahabharata

Shanti Parva, Adhyaya 86, Verse 18

ततः साक्षिबलं साधु द्वैधे वादकृतं भवेत्

असाक्षिकमनाथं वा परीक्ष्यं तद्विशेषतः

Mahabharata

Shanti Parva, Adhyaya 86, Verse 19

अपराधानुरूपं च दण्डं पापेषु पातयेत्

उद्वेजयेद्धनैरृद्धान्दरिद्रान्वधबन्धनैः

Mahabharata

Shanti Parva, Adhyaya 86, Verse 20

विनयैरपि दुर्वृत्तान्प्रहारैरपि पार्थिवः

सान्त्वेनोपप्रदानेन शिष्टांश्च परिपालयेत्

Mahabharata

Shanti Parva, Adhyaya 86, Verse 21

राज्ञो वधं चिकीर्षेद्यस्तस्य चित्रो वधो भवेत्

आजीवकस्य स्तेनस्य वर्णसंकरकस्य च

Mahabharata

Shanti Parva, Adhyaya 86, Verse 22

सम्यक्प्रणयतो दण्डं भूमिपस्य विशां पते

युक्तस्य वा नास्त्यधर्मो धर्म एवेह शाश्वतः

Mahabharata

Shanti Parva, Adhyaya 86, Verse 23

कामकारेण दण्डं तु यः कुर्यादविचक्षणः

स इहाकीर्तिसंयुक्तो मृतो नरकमाप्नुयात्

Mahabharata

Shanti Parva, Adhyaya 86, Verse 24

न परस्य श्रवादेव परेषां दण्डमर्पयेत्

आगमानुगमं कृत्वा बध्नीयान्मोक्षयेत वा

Mahabharata

Shanti Parva, Adhyaya 86, Verse 25

न तु हन्यान्नृपो जातु दूतं कस्यांचिदापदि

दूतस्य हन्ता निरयमाविशेत्सचिवैः सह

Mahabharata

Shanti Parva, Adhyaya 86, Verse 26

यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः

यो हन्यात्पितरस्तस्य भ्रूणहत्यामवाप्नुयुः

Mahabharata

Shanti Parva, Adhyaya 86, Verse 27

कुलीनः शीलसंपन्नो वाग्मी दक्षः प्रियंवदः

यथोक्तवादी स्मृतिमान्दूतः स्यात्सप्तभिर्गुणैः

Mahabharata

Shanti Parva, Adhyaya 86, Verse 28

एतैरेव गुणैर्युक्तः प्रतीहारोऽस्य रक्षिता

शिरोरक्षश्च भवति गुणैरेतैः समन्वितः

Mahabharata

Shanti Parva, Adhyaya 86, Verse 29

धर्मार्थशास्त्रतत्त्वज्ञः संधिविग्रहको भवेत्

मतिमान्धृतिमान्धीमान्रहस्यविनिगूहिता

Mahabharata

Shanti Parva, Adhyaya 86, Verse 30

कुलीनः सत्यसंपन्नः शक्तोऽमात्यः प्रशंसितः

एतैरेव गुणैर्युक्तस्तथा सेनापतिर्भवेत्