Mahabharata

Shanti Parva, Adhyaya 85

Containing 11 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 85, Verse 1

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

बृहस्पतेश्च संवादं शक्रस्य च युधिष्ठिर

Mahabharata

Shanti Parva, Adhyaya 85, Verse 2

किं स्विदेकपदं ब्रह्मन्पुरुषः सम्यगाचरन्

प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत्

Mahabharata

Shanti Parva, Adhyaya 85, Verse 3

सान्त्वमेकपदं शक्र पुरुषः सम्यगाचरन्

प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत्

Mahabharata

Shanti Parva, Adhyaya 85, Verse 4

एतदेकपदं शक्र सर्वलोकसुखावहम्

आचरन्सर्वभूतेषु प्रियो भवति सर्वदा

Mahabharata

Shanti Parva, Adhyaya 85, Verse 5

यो हि नाभाषते किंचित्सततं भ्रुकुटीमुखः

द्वेष्यो भवति भूतानां स सान्त्वमिह नाचरन्

Mahabharata

Shanti Parva, Adhyaya 85, Verse 6

यस्तु पूर्वमभिप्रेक्ष्य पूर्वमेवाभिभाषते

स्मितपूर्वाभिभाषी च तस्य लोकः प्रसीदति

Mahabharata

Shanti Parva, Adhyaya 85, Verse 7

दानमेव हि सर्वत्र सान्त्वेनानभिजल्पितम्

न प्रीणयति भूतानि निर्व्यञ्जनमिवाशनम्

Mahabharata

Shanti Parva, Adhyaya 85, Verse 8

अदाता ह्यपि भूतानां मधुरामीरयन्गिरम्

सर्वलोकमिमं शक्र सान्त्वेन कुरुते वशे

Mahabharata

Shanti Parva, Adhyaya 85, Verse 9

तस्मात्सान्त्वं प्रकर्तव्यं दण्डमाधित्सतामिह

फलं च जनयत्येवं न चास्योद्विजते जनः

Mahabharata

Shanti Parva, Adhyaya 85, Verse 10

सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च

सम्यगासेव्यमानस्य तुल्यं जातु न विद्यते

Mahabharata

Shanti Parva, Adhyaya 85, Verse 11

इत्युक्तः कृतवान्सर्वं तथा शक्रः पुरोधसा

तथा त्वमपि कौन्तेय सम्यगेतत्समाचर