Shanti Parva, Adhyaya 85, Verse 1
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
बृहस्पतेश्च संवादं शक्रस्य च युधिष्ठिर
Containing 11 sacred Sanskrit shlokas with multi-author commentaries and translations.
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
बृहस्पतेश्च संवादं शक्रस्य च युधिष्ठिर
किं स्विदेकपदं ब्रह्मन्पुरुषः सम्यगाचरन्
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत्
सान्त्वमेकपदं शक्र पुरुषः सम्यगाचरन्
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत्
एतदेकपदं शक्र सर्वलोकसुखावहम्
आचरन्सर्वभूतेषु प्रियो भवति सर्वदा
यो हि नाभाषते किंचित्सततं भ्रुकुटीमुखः
द्वेष्यो भवति भूतानां स सान्त्वमिह नाचरन्
यस्तु पूर्वमभिप्रेक्ष्य पूर्वमेवाभिभाषते
स्मितपूर्वाभिभाषी च तस्य लोकः प्रसीदति
दानमेव हि सर्वत्र सान्त्वेनानभिजल्पितम्
न प्रीणयति भूतानि निर्व्यञ्जनमिवाशनम्
अदाता ह्यपि भूतानां मधुरामीरयन्गिरम्
सर्वलोकमिमं शक्र सान्त्वेन कुरुते वशे
तस्मात्सान्त्वं प्रकर्तव्यं दण्डमाधित्सतामिह
फलं च जनयत्येवं न चास्योद्विजते जनः
सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च
सम्यगासेव्यमानस्य तुल्यं जातु न विद्यते
इत्युक्तः कृतवान्सर्वं तथा शक्रः पुरोधसा
तथा त्वमपि कौन्तेय सम्यगेतत्समाचर