Mahabharata

Shanti Parva, Adhyaya 83

Containing 67 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 83, Verse 1

एषा प्रथमतो वृत्तिर्द्वितीयां शृणु भारत

यः कश्चिज्जनयेदर्थं राज्ञा रक्ष्यः स मानवः

Mahabharata

Shanti Parva, Adhyaya 83, Verse 2

ह्रियमाणममात्येन भृतो वा यदि वाभृतः

यो राजकोशं नश्यन्तमाचक्षीत युधिष्ठिर

Mahabharata

Shanti Parva, Adhyaya 83, Verse 3

श्रोतव्यं तस्य च रहो रक्ष्यश्चामात्यतो भवेत्

अमात्या ह्युपहन्तारं भूयिष्ठं घ्नन्ति भारत

Mahabharata

Shanti Parva, Adhyaya 83, Verse 4

राजकोशस्य गोप्तारं राजकोशविलोपकाः

समेत्य सर्वे बाधन्ते स विनश्यत्यरक्षितः

Mahabharata

Shanti Parva, Adhyaya 83, Verse 5

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

मुनिः कालकवृक्षीयः कौसल्यं यदुवाच ह

Mahabharata

Shanti Parva, Adhyaya 83, Verse 6

कोसलानामाधिपत्यं संप्राप्ते क्षेमदर्शिनि

मुनिः कालकवृक्षीय आजगामेति नः श्रुतम्

Mahabharata

Shanti Parva, Adhyaya 83, Verse 7

स काकं पञ्जरे बद्ध्वा विषयं क्षेमदर्शिनः

पूर्वं पर्यचरद्युक्तः प्रवृत्त्यर्थी पुनः पुनः

Mahabharata

Shanti Parva, Adhyaya 83, Verse 8

अधीये वायसीं विद्यां शंसन्ति मम वायसाः

अनागतमतीतं च यच्च संप्रति वर्तते

Mahabharata

Shanti Parva, Adhyaya 83, Verse 9

इति राष्ट्रे परिपतन्बहुशः पुरुषैः सह

सर्वेषां राजयुक्तानां दुष्कृतं परिपृष्टवान्

Mahabharata

Shanti Parva, Adhyaya 83, Verse 10

स बुद्ध्वा तस्य राष्ट्रस्य व्यवसायं हि सर्वशः

राजयुक्तापचारांश्च सर्वान्बुद्ध्वा ततस्ततः

Mahabharata

Shanti Parva, Adhyaya 83, Verse 11

तमेव काकमादाय राजानं द्रष्टुमागमत्

सर्वज्ञोऽस्मीति वचनं ब्रुवाणः संशितव्रतः

Mahabharata

Shanti Parva, Adhyaya 83, Verse 12

स स्म कौसल्यमागम्य राजामात्यमलंकृतम्

प्राह काकस्य वचनादमुत्रेदं त्वया कृतम्

Mahabharata

Shanti Parva, Adhyaya 83, Verse 13

असौ चासौ च जानीते राजकोशस्त्वया हृतः

एवमाख्याति काकोऽयं तच्छीघ्रमनुगम्यताम्

Mahabharata

Shanti Parva, Adhyaya 83, Verse 14

तथान्यानपि स प्राह राजकोशहरान्सदा

न चास्य वचनं किंचिदकृतं श्रूयते क्वचित्

Mahabharata

Shanti Parva, Adhyaya 83, Verse 15

तेन विप्रकृताः सर्वे राजयुक्ताः कुरूद्वह

तमतिक्रम्य सुप्तस्य निशि काकमपोथयन्

Mahabharata

Shanti Parva, Adhyaya 83, Verse 16

वायसं तु विनिर्भिन्नं दृष्ट्वा बाणेन पञ्जरे

पूर्वाह्णे ब्राह्मणो वाक्यं क्षेमदर्शिनमब्रवीत्

Mahabharata

Shanti Parva, Adhyaya 83, Verse 17

राजंस्त्वामभयं याचे प्रभुं प्राणधनेश्वरम्

अनुज्ञातस्त्वया ब्रूयां वचनं त्वत्पुरो हितम्

Mahabharata

Shanti Parva, Adhyaya 83, Verse 18

मित्रार्थमभिसंतप्तो भक्त्या सर्वात्मना गतः

अयं तवार्थं हरते यो ब्रूयादक्षमान्वितः

Mahabharata

Shanti Parva, Adhyaya 83, Verse 19

संबुबोधयिषुर्मित्रं सदश्वमिव सारथिः

अतिमन्युप्रसक्तो हि प्रसज्य हितकारणम्

Mahabharata

Shanti Parva, Adhyaya 83, Verse 20

तथाविधस्य सुहृदः क्षन्तव्यं संविजानता

ऐश्वर्यमिच्छता नित्यं पुरुषेण बुभूषता

Mahabharata

Shanti Parva, Adhyaya 83, Verse 21

तं राजा प्रत्युवाचेदं यन्मा किंचिद्भवान्वदेत्

कस्मादहं न क्षमेयमाकाङ्क्षन्नात्मनो हितम्

Mahabharata

Shanti Parva, Adhyaya 83, Verse 22

ब्राह्मण प्रतिजानीहि प्रब्रूहि यदि चेच्छसि

करिष्यामि हि ते वाक्यं यद्यन्मां विप्र वक्ष्यसि

Mahabharata

Shanti Parva, Adhyaya 83, Verse 23

ज्ञात्वा नयानपायांश्च भृत्यतस्ते भयानि च

भक्त्या वृत्तिं समाख्यातुं भवतोऽन्तिकमागमम्

Mahabharata

Shanti Parva, Adhyaya 83, Verse 24

प्रागेवोक्तश्च दोषोऽयमाचार्यैर्नृपसेविनाम्

अगतीकगतिर्ह्येषा या राज्ञा सह जीविका

Mahabharata

Shanti Parva, Adhyaya 83, Verse 25

आशीविषैश्च तस्याहुः संगतं यस्य राजभिः

बहुमित्राश्च राजानो बह्वमित्रास्तथैव च

Mahabharata

Shanti Parva, Adhyaya 83, Verse 26

तेभ्यः सर्वेभ्य एवाहुर्भयं राजोपसेविनाम्

अथैषामेकतो राजन्मुहूर्तादेव भीर्भवेत्

Mahabharata

Shanti Parva, Adhyaya 83, Verse 27

नैकान्तेनाप्रमादो हि कर्तुं शक्यो महीपतौ

न तु प्रमादः कर्तव्यः कथंचिद्भूतिमिच्छता

Mahabharata

Shanti Parva, Adhyaya 83, Verse 28

प्रमादाद्धि स्खलेद्राजा स्खलिते नास्ति जीवितम्

अग्निं दीप्तमिवासीदेद्राजानमुपशिक्षितः

Mahabharata

Shanti Parva, Adhyaya 83, Verse 29

आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम्

यत्नेनोपचरेन्नित्यं नाहमस्मीति मानवः

Mahabharata

Shanti Parva, Adhyaya 83, Verse 30

दुर्व्याहृताच्छङ्कमानो दुष्कृताद्दुरधिष्ठितात्

दुरासिताद्दुर्व्रजितादिङ्गितादङ्गचेष्टितात्