Shanti Parva, Adhyaya 82, Verse 1
एवमग्राह्यके तस्मिञ्ज्ञातिसंबन्धिमण्डले
मित्रेष्वमित्रेष्वपि च कथं भावो विभाव्यते
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमग्राह्यके तस्मिञ्ज्ञातिसंबन्धिमण्डले
मित्रेष्वमित्रेष्वपि च कथं भावो विभाव्यते
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
वासुदेवस्य संवादं सुरर्षेर्नारदस्य च
नासुहृत्परमं मन्त्रं नारदार्हति वेदितुम्
अपण्डितो वापि सुहृत्पण्डितो वापि नात्मवान्
स ते सौहृदमास्थाय किंचिद्वक्ष्यामि नारद
कृत्स्नां च बुद्धिं संप्रेक्ष्य संपृच्छे त्रिदिवंगम
दास्यमैश्वर्यवादेन ज्ञातीनां वै करोम्यहम्
अर्धभोक्तास्मि भोगानां वाग्दुरुक्तानि च क्षमे
अरणीमग्निकामो वा मथ्नाति हृदयं मम
वाचा दुरुक्तं देवर्षे तन्मे दहति नित्यदा
बलं संकर्षणे नित्यं सौकुमार्यं पुनर्गदे
रूपेण मत्तः प्रद्युम्नः सोऽसहायोऽस्मि नारद
अन्ये हि सुमहाभागा बलवन्तो दुरासदाः
नित्योत्थानेन संपन्ना नारदान्धकवृष्णयः
यस्य न स्युर्न वै स स्याद्यस्य स्युः कृच्छ्रमेव तत्
द्वाभ्यां निवारितो नित्यं वृणोम्येकतरं न च
स्यातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः
यस्य वापि न तौ स्यातां किं नु दुःखतरं ततः
सोऽहं कितवमातेव द्वयोरपि महामुने
एकस्य जयमाशंसे द्वितीयस्यापराजयम्
ममैवं क्लिश्यमानस्य नारदोभयतः सदा
वक्तुमर्हसि यच्छ्रेयो ज्ञातीनामात्मनस्तथा
आपदो द्विविधाः कृष्ण बाह्याश्चाभ्यन्तराश्च ह
प्रादुर्भवन्ति वार्ष्णेय स्वकृता यदि वान्यतः
सेयमाभ्यन्तरा तुभ्यमापत्कृच्छ्रा स्वकर्मजा
अक्रूरभोजप्रभवाः सर्वे ह्येते तदन्वयाः
अर्थहेतोर्हि कामाद्वाद्वारा बीभत्सयापि वा
आत्मना प्राप्तमैश्वर्यमन्यत्र प्रतिपादितम्
कृतमूलमिदानीं तज्जातशब्दं सहायवत्
न शक्यं पुनरादातुं वान्तमन्नमिव त्वया
बभ्रूग्रसेनयो राज्यं नाप्तुं शक्यं कथंचन
ज्ञातिभेदभयात्कृष्ण त्वया चापि विशेषतः
तच्चेत्सिध्येत्प्रयत्नेन कृत्वा कर्म सुदुष्करम्
महाक्षयव्ययं वा स्याद्विनाशो वा पुनर्भवेत्
अनायसेन शस्त्रेण मृदुना हृदयच्छिदा
जिह्वामुद्धर सर्वेषां परिमृज्यानुमृज्य च
अनायसं मुने शस्त्रं मृदु विद्यामहं कथम्
येनैषामुद्धरे जिह्वां परिमृज्यानुमृज्य च
शक्त्यान्नदानं सततं तितिक्षा दम आर्जवम्
यथार्हप्रतिपूजा च शस्त्रमेतदनायसम्
ज्ञातीनां वक्तुकामानां कटूनि च लघूनि च
गिरा त्वं हृदयं वाचं शमयस्व मनांसि च
नामहापुरुषः कश्चिन्नानात्मा नासहायवान्
महतीं धुरमादत्ते तामुद्यम्योरसा वह
सर्व एव गुरुं भारमनड्वान्वहते समे
दुर्गे प्रतीकः सुगवो भारं वहति दुर्वहम्
भेदाद्विनाशः संघानां संघमुख्योऽसि केशव
यथा त्वां प्राप्य नोत्सीदेदयं संघस्तथा कुरु
नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रियनिग्रहात्
नान्यत्र धनसंत्यागाद्गणः प्राज्ञेऽवतिष्ठते
धन्यं यशस्यमायुष्यं स्वपक्षोद्भावनं शुभम्
ज्ञातीनामविनाशः स्याद्यथा कृष्ण तथा कुरु
आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो
षाड्गुण्यस्य विधानेन यात्रायानविधौ तथा
माधवाः कुकुरा भोजाः सर्वे चान्धकवृष्णयः
त्वय्यासक्ता महाबाहो लोका लोकेश्वराश्च ये
उपासते हि त्वद्बुद्धिमृषयश्चापि माधव
त्वं गुरुः सर्वभूतानां जानीषे त्वं गतागतम्
त्वामासाद्य यदुश्रेष्ठमेधन्ते ज्ञातिनः सुखम्