Mahabharata

Shanti Parva, Adhyaya 80

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 80, Verse 1

क्वसमुत्थाः कथंशीला ऋत्विजः स्युः पितामह

कथंविधाश्च राजेन्द्र तद्ब्रूहि वदतां वर

Mahabharata

Shanti Parva, Adhyaya 80, Verse 2

प्रतिकर्म पुराचार ऋत्विजां स्म विधीयते

आदौ छन्दांसि विज्ञाय द्विजानां श्रुतमेव च

Mahabharata

Shanti Parva, Adhyaya 80, Verse 3

ये त्वेकरतयो नित्यं धीरा नाप्रियवादिनः

परस्परस्य सुहृदः संमताः समदर्शिनः

Mahabharata

Shanti Parva, Adhyaya 80, Verse 4

येष्वानृशंस्यं सत्यं चाप्यहिंसा तप आर्जवम्

अद्रोहो नाभिमानश्च ह्रीस्तितिक्षा दमः शमः

Mahabharata

Shanti Parva, Adhyaya 80, Verse 5

ह्रीमान्सत्यधृतिर्दान्तो भूतानामविहिंसकः

अकामद्वेषसंयुक्तस्त्रिभिः शुक्लैः समन्वितः

Mahabharata

Shanti Parva, Adhyaya 80, Verse 6

अहिंसको ज्ञानतृप्तः स ब्रह्मासनमर्हति

एते महर्त्विजस्तात सर्वे मान्या यथातथम्

Mahabharata

Shanti Parva, Adhyaya 80, Verse 7

यदिदं वेदवचनं दक्षिणासु विधीयते

इदं देयमिदं देयं न क्वचिद्व्यवतिष्ठते

Mahabharata

Shanti Parva, Adhyaya 80, Verse 8

नेदं प्रति धनं शास्त्रमापद्धर्ममशास्त्रतः

आज्ञा शास्त्रस्य घोरेयं न शक्तिं समवेक्षते

Mahabharata

Shanti Parva, Adhyaya 80, Verse 9

श्रद्धामारभ्य यष्टव्यमित्येषा वैदिकी श्रुतिः

मिथ्योपेतस्य यज्ञस्य किमु श्रद्धा करिष्यति

Mahabharata

Shanti Parva, Adhyaya 80, Verse 10

न वेदानां परिभवान्न शाठ्येन न मायया

कश्चिन्महदवाप्नोति मा ते भूद्बुद्धिरीदृशी

Mahabharata

Shanti Parva, Adhyaya 80, Verse 11

यज्ञाङ्गं दक्षिणास्तात वेदानां परिबृंहणम्

न मन्त्रा दक्षिणाहीनास्तारयन्ति कथंचन

Mahabharata

Shanti Parva, Adhyaya 80, Verse 12

शक्तिस्तु पूर्णपात्रेण संमितानवमा भवेत्

अवश्यं तात यष्टव्यं त्रिभिर्वर्णैर्यथाविधि

Mahabharata

Shanti Parva, Adhyaya 80, Verse 13

सोमो राजा ब्राह्मणानामित्येषा वैदिकी श्रुतिः

तं च विक्रेतुमिच्छन्ति न वृथा वृत्तिरिष्यते

तेन क्रीतेन धर्मेण ततो यज्ञः प्रतायते

Mahabharata

Shanti Parva, Adhyaya 80, Verse 14

इत्येवं धर्मतः ख्यातमृषिभिर्धर्मवादिभिः

पुमान्यज्ञश्च सोमश्च न्यायवृत्तो यथा भवेत्

अन्यायवृत्तः पुरुषो न परस्य न चात्मनः

Mahabharata

Shanti Parva, Adhyaya 80, Verse 15

शरीरं यज्ञपात्राणि इत्येषा श्रूयते श्रुतिः

तानि सम्यक्प्रणीतानि ब्राह्मणानां महात्मनाम्

Mahabharata

Shanti Parva, Adhyaya 80, Verse 16

तपो यज्ञादपि श्रेष्ठमित्येषा परमा श्रुतिः

तत्ते तपः प्रवक्ष्यामि विद्वंस्तदपि मे शृणु

Mahabharata

Shanti Parva, Adhyaya 80, Verse 17

अहिंसा सत्यवचनमानृशंस्यं दमो घृणा

एतत्तपो विदुर्धीरा न शरीरस्य शोषणम्

Mahabharata

Shanti Parva, Adhyaya 80, Verse 18

अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम्

अव्यवस्था च सर्वत्र तद्वै नाशनमात्मनः

Mahabharata

Shanti Parva, Adhyaya 80, Verse 19

निबोध दशहोतॄणां विधानं पार्थ यादृशम्

चित्तिः स्रुक्चित्तमाज्यं च पवित्रं ज्ञानमुत्तमम्

Mahabharata

Shanti Parva, Adhyaya 80, Verse 20

सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम्

एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति