Mahabharata

Adi Parva, Adhyaya 208

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 208, Verse 1

ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः

अभ्यगच्छत्सुपुण्यानि शोभितानि तपस्विभिः

Mahabharata

Adi Parva, Adhyaya 208, Verse 2

वर्जयन्ति स्म तीर्थानि पञ्च तत्र तु तापसाः

आचीर्णानि तु यान्यासन्पुरस्तात्तु तपस्विभिः

Mahabharata

Adi Parva, Adhyaya 208, Verse 3

अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम्

कारंधमं प्रसन्नं च हयमेधफलं च यत्

भारद्वाजस्य तीर्थं च पापप्रशमनं महत्

Mahabharata

Adi Parva, Adhyaya 208, Verse 4

विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः

दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः

Mahabharata

Adi Parva, Adhyaya 208, Verse 5

तपस्विनस्ततोऽपृच्छत्प्राज्ञलिः कुरुनन्दनः

तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः

Mahabharata

Adi Parva, Adhyaya 208, Verse 6

ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान्

अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन

Mahabharata

Adi Parva, Adhyaya 208, Verse 7

तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः

जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः

Mahabharata

Adi Parva, Adhyaya 208, Verse 8

ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम्

विगाह्य तरसा शूरः स्नानं चक्रे परंतपः

Mahabharata

Adi Parva, Adhyaya 208, Verse 9

अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान्

निजग्राह जले ग्राहः कुन्तीपुत्रं धनंजयम्

Mahabharata

Adi Parva, Adhyaya 208, Verse 10

स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम्

उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः

Mahabharata

Adi Parva, Adhyaya 208, Verse 11

उत्कृष्ट एव तु ग्राहः सोऽर्जुनेन यशस्विना

बभूव नारी कल्याणी सर्वाभरणभूषिता

दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा

Mahabharata

Adi Parva, Adhyaya 208, Verse 12

तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनंजयः

तां स्त्रियं परमप्रीत इदं वचनमब्रवीत्

Mahabharata

Adi Parva, Adhyaya 208, Verse 13

का वै त्वमसि कल्याणि कुतो वासि जलेचरी

किमर्थं च महत्पापमिदं कृतवती पुरा

Mahabharata

Adi Parva, Adhyaya 208, Verse 14

अप्सरास्मि महाबाहो देवारण्यविचारिणी

इष्टा धनपतेर्नित्यं वर्गा नाम महाबल

Mahabharata

Adi Parva, Adhyaya 208, Verse 15

मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः

ताभिः सार्धं प्रयातास्मि लोकपालनिवेशनम्

Mahabharata

Adi Parva, Adhyaya 208, Verse 16

ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम्

रूपवन्तमधीयानमेकमेकान्तचारिणम्

Mahabharata

Adi Parva, Adhyaya 208, Verse 17

तस्य वै तपसा राजंस्तद्वनं तेजसावृतम्

आदित्य इव तं देशं कृत्स्नं स व्यवभासयत्

Mahabharata

Adi Parva, Adhyaya 208, Verse 18

तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम्

अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया

Mahabharata

Adi Parva, Adhyaya 208, Verse 19

अहं च सौरभेयी च समीची बुद्बुदा लता

यौगपद्येन तं विप्रमभ्यगच्छाम भारत

Mahabharata

Adi Parva, Adhyaya 208, Verse 20

गायन्त्यो वै हसन्त्यश्च लोभयन्त्यश्च तं द्विजम्

स च नास्मासु कृतवान्मनो वीर कथंचन

नाकम्पत महातेजाः स्थितस्तपसि निर्मले

Mahabharata

Adi Parva, Adhyaya 208, Verse 21

सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ

ग्राहभूता जले यूयं चरिष्यध्वं शतं समाः