Shanti Parva, Adhyaya 78, Verse 1
केषां राजा प्रभवति वित्तस्य भरतर्षभ
कया च वृत्त्या वर्तेत तन्मे ब्रूहि पितामह
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
केषां राजा प्रभवति वित्तस्य भरतर्षभ
कया च वृत्त्या वर्तेत तन्मे ब्रूहि पितामह
अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम्
ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत
विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथंचन
इति राज्ञां पुरावृत्तमभिजल्पन्ति साधवः
यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः
राज्ञ एवापराधं तं मन्यन्ते किल्बिषं नृप
अभिशस्तमिवात्मानं मन्यन्ते तेन कर्मणा
तस्माद्राजर्षयः सर्वे ब्राह्मणानन्वपालयन्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गीतं केकयराजेन ह्रियमाणेन रक्षसा
केकयानामधिपतिं रक्षो जग्राह दारुणम्
स्वाध्यायेनान्वितं राजन्नरण्ये संशितव्रतम्
न मे स्तेनो जनपदे न कदर्यो न मद्यपः
नानाहिताग्निर्नायज्वा मामकान्तरमाविशः
न च मे ब्राह्मणोऽविद्वान्नाव्रती नाप्यसोमपः
नानाहिताग्निर्विषये मामकान्तरमाविशः
नानाप्तदक्षिणैर्यज्ञैर्यजन्ते विषये मम
अधीते नाव्रती कश्चिन्मामकान्तरमाविशः
अधीयतेऽध्यापयन्ति यजन्ते याजयन्ति च
ददति प्रतिगृह्णन्ति षट्सु कर्मस्ववस्थिताः
पूजिताः संविभक्ताश्च मृदवः सत्यवादिनः
ब्राह्मणा मे स्वकर्मस्था मामकान्तरमाविशः
न याचन्ते प्रयच्छन्ति सत्यधर्मविशारदाः
नाध्यापयन्त्यधीयन्ते यजन्ते न च याजकाः
ब्राह्मणान्परिरक्षन्ति संग्रामेष्वपलायिनः
क्षत्रिया मे स्वकर्मस्था मामकान्तरमाविशः
कृषिगोरक्षवाणिज्यमुपजीवन्त्यमायया
अप्रमत्ताः क्रियावन्तः सुव्रताः सत्यवादिनः
संविभागं दमं शौचं सौहृदं च व्यपाश्रिताः
मम वैश्याः स्वकर्मस्था मामकान्तरमाविशः
त्रीन्वर्णाननुतिष्ठन्ति यथावदनसूयकाः
मम शूद्राः स्वकर्मस्था मामकान्तरमाविशः
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम्
संविभक्तास्मि सर्वेषां मामकान्तरमाविशः
कुलदेशादिधर्माणां प्रथितानां यथाविधि
अव्युच्छेत्तास्मि सर्वेषां मामकान्तरमाविशः
तपस्विनो मे विषये पूजिताः परिपालिताः
संविभक्ताश्च सत्कृत्य मामकान्तरमाविशः
नासंविभज्य भोक्तास्मि न विशामि परस्त्रियम्
स्वतन्त्रो जातु न क्रीडे मामकान्तरमाविशः
नाब्रह्मचारी भिक्षावान्भिक्षुर्वाब्रह्मचारिकः
अनृत्विजं हुतं नास्ति मामकान्तरमाविशः
नावजानाम्यहं वृद्धान्न वैद्यान्न तपस्विनः
राष्ट्रे स्वपति जागर्मि मामकान्तरमाविशः
वेदाध्ययनसंपन्नस्तपस्वी सर्वधर्मवित्
स्वामी सर्वस्य राज्यस्य श्रीमान्मम पुरोहितः
दानेन दिव्यानभिवाञ्छामि लोका;न्सत्येनाथो ब्राह्मणानां च गुप्त्या
शुश्रूषया चापि गुरूनुपैमि; न मे भयं विद्यते राक्षसेभ्यः
न मे राष्ट्रे विधवा ब्रह्मबन्धु;र्न ब्राह्मणः कृपणो नोत चोरः
न पारजायी न च पापकर्मा; न मे भयं विद्यते राक्षसेभ्यः
न मे शस्त्रैरनिर्भिन्नमङ्गे द्व्यङ्गुलमन्तरम्
धर्मार्थं युध्यमानस्य मामकान्तरमाविशः
गोब्राह्मणे च यज्ञे च नित्यं स्वस्त्ययनं मम
आशासते जना राष्ट्रे मामकान्तरमाविशः
यस्मात्सर्वास्ववस्थासु धर्ममेवान्ववेक्षसे
तस्मात्प्राप्नुहि कैकेय गृहान्स्वस्ति व्रजाम्यहम्
येषां गोब्राह्मणा रक्ष्याः प्रजा रक्ष्याश्च केकय
न रक्षोभ्यो भयं तेषां कुत एव तु मानुषात्