Mahabharata

Shanti Parva, Adhyaya 77

Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 77, Verse 1

स्वकर्मण्यपरे युक्तास्तथैवान्ये विकर्मणि

तेषां विशेषमाचक्ष्व ब्राह्मणानां पितामह

Mahabharata

Shanti Parva, Adhyaya 77, Verse 2

विद्यालक्षणसंपन्नाः सर्वत्राम्नायदर्शिनः

एते ब्रह्मसमा राजन्ब्राह्मणाः परिकीर्तिताः

Mahabharata

Shanti Parva, Adhyaya 77, Verse 3

ऋत्विगाचार्यसंपन्नाः स्वेषु कर्मस्ववस्थिताः

एते देवसमा राजन्ब्राह्मणानां भवन्त्युत

Mahabharata

Shanti Parva, Adhyaya 77, Verse 4

ऋत्विक्पुरोहितो मन्त्री दूतोऽथार्थानुशासकः

एते क्षत्रसमा राजन्ब्राह्मणानां भवन्त्युत

Mahabharata

Shanti Parva, Adhyaya 77, Verse 5

अश्वारोहा गजारोहा रथिनोऽथ पदातयः

एते वैश्यसमा राजन्ब्राह्मणानां भवन्त्युत

Mahabharata

Shanti Parva, Adhyaya 77, Verse 6

जन्मकर्मविहीना ये कदर्या ब्रह्मबन्धवः

एते शूद्रसमा राजन्ब्राह्मणानां भवन्त्युत

Mahabharata

Shanti Parva, Adhyaya 77, Verse 7

अश्रोत्रियाः सर्व एव सर्वे चानाहिताग्नयः

तान्सर्वान्धार्मिको राजा बलिं विष्टिं च कारयेत्

Mahabharata

Shanti Parva, Adhyaya 77, Verse 8

आह्वायका देवलका नक्षत्रग्रामयाजकाः

एते ब्राह्मणचण्डाला महापथिकपञ्चमाः

Mahabharata

Shanti Parva, Adhyaya 77, Verse 9

एतेभ्यो बलिमादद्याद्धीनकोशो महीपतिः

ऋते ब्रह्मसमेभ्यश्च देवकल्पेभ्य एव च

Mahabharata

Shanti Parva, Adhyaya 77, Verse 10

अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम्

ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत

Mahabharata

Shanti Parva, Adhyaya 77, Verse 11

विकर्मस्थास्तु नोपेक्ष्या जातु राज्ञा कथंचन

नियम्याः संविभज्याश्च धर्मानुग्रहकाम्यया

Mahabharata

Shanti Parva, Adhyaya 77, Verse 12

यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः

राज्ञ एवापराधं तं मन्यन्ते तद्विदो जनाः

Mahabharata

Shanti Parva, Adhyaya 77, Verse 13

अवृत्त्या यो भवेत्स्तेनो वेदवित्स्नातकस्तथा

राजन्स राज्ञा भर्तव्य इति धर्मविदो विदुः

Mahabharata

Shanti Parva, Adhyaya 77, Verse 14

स चेन्नो परिवर्तेत कृतवृत्तिः परंतप

ततो निर्वासनीयः स्यात्तस्माद्देशात्सबान्धवः