Mahabharata

Shanti Parva, Adhyaya 75

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 75, Verse 1

योगक्षेमो हि राष्ट्रस्य राजन्यायत्त उच्यते

योगक्षेमश्च राज्ञोऽपि समायत्तः पुरोहिते

Mahabharata

Shanti Parva, Adhyaya 75, Verse 2

यतादृष्टं भयं ब्रह्म प्रजानां शमयत्युत

दृष्टं च राजा बाहुभ्यां तद्राष्ट्रं सुखमेधते

Mahabharata

Shanti Parva, Adhyaya 75, Verse 3

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

मुचुकुन्दस्य संवादं राज्ञो वैश्रवणस्य च

Mahabharata

Shanti Parva, Adhyaya 75, Verse 4

मुचुकुन्दो विजित्येमां पृथिवीं पृथिवीपतिः

जिज्ञासमानः स्वबलमभ्ययादलकाधिपम्

Mahabharata

Shanti Parva, Adhyaya 75, Verse 5

ततो वैश्रवणो राजा रक्षांसि समवासृजत्

ते बलान्यवमृद्नन्तः प्राचरंस्तस्य नैरृताः

Mahabharata

Shanti Parva, Adhyaya 75, Verse 6

स हन्यमाने सैन्ये स्वे मुचुकुन्दो नराधिपः

गर्हयामास विद्वांसं पुरोहितमरिंदमः

Mahabharata

Shanti Parva, Adhyaya 75, Verse 7

तत उग्रं तपस्तप्त्वा वसिष्ठो ब्रह्मवित्तमः

रक्षांस्यपावधीत्तत्र पन्थानं चाप्यविन्दत

Mahabharata

Shanti Parva, Adhyaya 75, Verse 8

ततो वैश्रवणो राजा मुचुकुन्दमदर्शयत्

वध्यमानेषु सैन्येषु वचनं चेदमब्रवीत्

Mahabharata

Shanti Parva, Adhyaya 75, Verse 9

त्वत्तो हि बलिनः पूर्वे राजानः सपुरोहिताः

न चैवं समवर्तंस्ते यथा त्वमिह वर्तसे

Mahabharata

Shanti Parva, Adhyaya 75, Verse 10

ते खल्वपि कृतास्त्राश्च बलवन्तश्च भूमिपाः

आगम्य पर्युपासन्ते मामीशं सुखदुःखयोः

Mahabharata

Shanti Parva, Adhyaya 75, Verse 11

यद्यस्ति बाहुवीर्यं ते तद्दर्शयितुमर्हसि

किं ब्राह्मणबलेन त्वमतिमात्रं प्रवर्तसे

Mahabharata

Shanti Parva, Adhyaya 75, Verse 12

मुचुकुन्दस्ततः क्रुद्धः प्रत्युवाच धनेश्वरम्

न्यायपूर्वमसंरब्धमसंभ्रान्तमिदं वचः

Mahabharata

Shanti Parva, Adhyaya 75, Verse 13

ब्रह्मक्षत्रमिदं सृष्टमेकयोनि स्वयंभुवा

पृथग्बलविधानं च तल्लोकं परिरक्षति

Mahabharata

Shanti Parva, Adhyaya 75, Verse 14

तपोमन्त्रबलं नित्यं ब्राह्मणेषु प्रतिष्ठितम्

अस्त्रबाहुबलं नित्यं क्षत्रियेषु प्रतिष्ठितम्

Mahabharata

Shanti Parva, Adhyaya 75, Verse 15

ताभ्यां संभूय कर्तव्यं प्रजानां परिपालनम्

तथा च मां प्रवर्तन्तं गर्हयस्यलकाधिप

Mahabharata

Shanti Parva, Adhyaya 75, Verse 16

ततोऽब्रवीद्वैश्रवणो राजानं सपुरोहितम्

नाहं राज्यमनिर्दिष्टं कस्मैचिद्विदधाम्युत

Mahabharata

Shanti Parva, Adhyaya 75, Verse 17

नाच्छिन्दे चापि निर्दिष्टमिति जानीहि पार्थिव

प्रशाधि पृथिवीं वीर मद्दत्तामखिलामिमाम्

Mahabharata

Shanti Parva, Adhyaya 75, Verse 18

नाहं राज्यं भवद्दत्तं भोक्तुमिच्छामि पार्थिव

बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये

Mahabharata

Shanti Parva, Adhyaya 75, Verse 19

ततो वैश्रवणो राजा विस्मयं परमं ययौ

क्षत्रधर्मे स्थितं दृष्ट्वा मुचुकुन्दमसंभ्रमम्

Mahabharata

Shanti Parva, Adhyaya 75, Verse 20

ततो राजा मुचुकुन्दः सोऽन्वशासद्वसुंधराम्

बाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः

Mahabharata

Shanti Parva, Adhyaya 75, Verse 21

एवं यो ब्रह्मविद्राजा ब्रह्मपूर्वं प्रवर्तते

जयत्यविजितामुर्वीं यशश्च महदश्नुते

Mahabharata

Shanti Parva, Adhyaya 75, Verse 22

नित्योदको ब्राह्मणः स्यान्नित्यशस्त्रश्च क्षत्रियः

तयोर्हि सर्वमायत्तं यत्किंचिज्जगतीगतम्