Mahabharata

Shanti Parva, Adhyaya 72

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 72, Verse 1

कथं राजा प्रजा रक्षन्नाधिबन्धेन युज्यते

धर्मे च नापराध्नोति तन्मे ब्रूहि पितामह

Mahabharata

Shanti Parva, Adhyaya 72, Verse 2

समासेनैव ते तात धर्मान्वक्ष्यामि निश्चितान्

विस्तरेण हि धर्माणां न जात्वन्तमवाप्नुयात्

Mahabharata

Shanti Parva, Adhyaya 72, Verse 3

धर्मनिष्ठाञ्श्रुतवतो वेदव्रतसमाहितान्

अर्चितान्वासयेथास्त्वं गृहे गुणवतो द्विजान्

Mahabharata

Shanti Parva, Adhyaya 72, Verse 4

प्रत्युत्थायोपसंगृह्य चरणावभिवाद्य च

अथ सर्वाणि कुर्वीथाः कार्याणि सपुरोहितः

Mahabharata

Shanti Parva, Adhyaya 72, Verse 5

धर्मकार्याणि निर्वर्त्य मङ्गलानि प्रयुज्य च

ब्राह्मणान्वाचयेथास्त्वमर्थसिद्धिजयाशिषः

Mahabharata

Shanti Parva, Adhyaya 72, Verse 6

आर्जवेन च संपन्नो धृत्या बुद्ध्या च भारत

अर्थार्थं परिगृह्णीयात्कामक्रोधौ च वर्जयेत्

Mahabharata

Shanti Parva, Adhyaya 72, Verse 7

कामक्रोधौ पुरस्कृत्य योऽर्थं राजानुतिष्ठति

न स धर्मं न चाप्यर्थं परिगृह्णाति बालिशः

Mahabharata

Shanti Parva, Adhyaya 72, Verse 8

मा स्म लुब्धांश्च मूर्खांश्च कामे चार्थेषु यूयुजः

अलुब्धान्बुद्धिसंपन्नान्सर्वकर्मसु योजयेत्

Mahabharata

Shanti Parva, Adhyaya 72, Verse 9

मूर्खो ह्यधिकृतोऽर्थेषु कार्याणामविशारदः

प्रजाः क्लिश्नात्ययोगेन कामद्वेषसमन्वितः

Mahabharata

Shanti Parva, Adhyaya 72, Verse 10

बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम्

शास्त्रनीतेन लिप्सेथा वेतनेन धनागमम्

Mahabharata

Shanti Parva, Adhyaya 72, Verse 11

दापयित्वा करं धर्म्यं राष्ट्रं नित्यं यथाविधि

अशेषान्कल्पयेद्राजा योगक्षेमानतन्द्रितः

Mahabharata

Shanti Parva, Adhyaya 72, Verse 12

गोपायितारं दातारं धर्मनित्यमतन्द्रितम्

अकामद्वेषसंयुक्तमनुरज्यन्ति मानवाः

Mahabharata

Shanti Parva, Adhyaya 72, Verse 13

मा स्माधर्मेण लाभेन लिप्सेथास्त्वं धनागमम्

धर्मार्थावध्रुवौ तस्य योऽपशास्त्रपरो भवेत्

Mahabharata

Shanti Parva, Adhyaya 72, Verse 14

अपशास्त्रपरो राजा संचयान्नाधिगच्छति

अस्थाने चास्य तद्वित्तं सर्वमेव विनश्यति

Mahabharata

Shanti Parva, Adhyaya 72, Verse 15

अर्थमूलोऽपहिंसां च कुरुते स्वयमात्मनः

करैरशास्त्रदृष्टैर्हि मोहात्संपीडयन्प्रजाः

Mahabharata

Shanti Parva, Adhyaya 72, Verse 16

ऊधश्छिन्द्याद्धि यो धेन्वाः क्षीरार्थी न लभेत्पयः

एवं राष्ट्रमयोगेन पीडितं न विवर्धते

Mahabharata

Shanti Parva, Adhyaya 72, Verse 17

यो हि दोग्ध्रीमुपास्ते तु स नित्यं लभते पयः

एवं राष्ट्रमुपायेन भुञ्जानो लभते फलम्

Mahabharata

Shanti Parva, Adhyaya 72, Verse 18

अथ राष्ट्रमुपायेन भुज्यमानं सुरक्षितम्

जनयत्यतुलां नित्यं कोशवृद्धिं युधिष्ठिर

Mahabharata

Shanti Parva, Adhyaya 72, Verse 19

दोग्धि धान्यं हिरण्यं च प्रजा राज्ञि सुरक्षिता

नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः

Mahabharata

Shanti Parva, Adhyaya 72, Verse 20

मालाकारोपमो राजन्भव माङ्गारिकोपमः

तथा युक्तश्चिरं राष्ट्रं भोक्तुं शक्यसि पालयन्

Mahabharata

Shanti Parva, Adhyaya 72, Verse 21

परचक्राभियानेन यदि ते स्याद्धनक्षयः

अथ साम्नैव लिप्सेथा धनमब्राह्मणेषु यत्

Mahabharata

Shanti Parva, Adhyaya 72, Verse 22

मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रचलेन्मनः

अन्त्यायामप्यवस्थायां किमु स्फीतस्य भारत

Mahabharata

Shanti Parva, Adhyaya 72, Verse 23

धनानि तेभ्यो दद्यास्त्वं यथाशक्ति यथार्हतः

सान्त्वयन्परिरक्षंश्च स्वर्गमाप्स्यसि दुर्जयम्

Mahabharata

Shanti Parva, Adhyaya 72, Verse 24

एवं धर्मेण वृत्तेन प्रजास्त्वं परिपालयन्

स्वन्तं पुण्यं यशोवन्तं प्राप्स्यसे कुरुनन्दन

Mahabharata

Shanti Parva, Adhyaya 72, Verse 25

धर्मेण व्यवहारेण प्रजाः पालय पाण्डव

युधिष्ठिर तथा युक्तो नाधिबन्धेन योक्ष्यसे

Mahabharata

Shanti Parva, Adhyaya 72, Verse 26

एष एव परो धर्मो यद्राजा रक्षते प्रजाः

भूतानां हि यथा धर्मे रक्षणं च परा दया

Mahabharata

Shanti Parva, Adhyaya 72, Verse 27

तस्मादेवं परं धर्मं मन्यन्ते धर्मकोविदाः

यद्राजा रक्षणे युक्तो भूतेषु कुरुते दयाम्

Mahabharata

Shanti Parva, Adhyaya 72, Verse 28

यदह्ना कुरुते पापमरक्षन्भयतः प्रजाः

राजा वर्षसहस्रेण तस्यान्तमधिगच्छति

Mahabharata

Shanti Parva, Adhyaya 72, Verse 29

यदह्ना कुरुते पुण्यं प्रजा धर्मेण पालयन्

दश वर्षसहस्राणि तस्य भुङ्क्ते फलं दिवि

Mahabharata

Shanti Parva, Adhyaya 72, Verse 30

स्विष्टिः स्वधीतिः सुतपा लोकाञ्जयति यावतः

क्षणेन तानवाप्नोति प्रजा धर्मेण पालयन्