Mahabharata

Adi Parva, Adhyaya 207

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 207, Verse 1

कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यः स भारत

प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः

Mahabharata

Adi Parva, Adhyaya 207, Verse 2

अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम्

भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः

Mahabharata

Adi Parva, Adhyaya 207, Verse 3

प्रददौ गोसहस्राणि तीर्थेष्वायतनेषु च

निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः

Mahabharata

Adi Parva, Adhyaya 207, Verse 4

हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः

दृष्टवान्पर्वतश्रेष्ठं पुण्यान्यायतनानि च

Mahabharata

Adi Parva, Adhyaya 207, Verse 5

अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत

प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः

Mahabharata

Adi Parva, Adhyaya 207, Verse 6

आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः

नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति

Mahabharata

Adi Parva, Adhyaya 207, Verse 7

नन्दामपरनन्दां च कौशिकीं च यशस्विनीम्

महानदीं गयां चैव गङ्गामपि च भारत

Mahabharata

Adi Parva, Adhyaya 207, Verse 8

एवं सर्वाणि तीर्थानि पश्यमानस्तथाश्रमान्

आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ वसु

Mahabharata

Adi Parva, Adhyaya 207, Verse 9

अङ्गवङ्गकलिङ्गेषु यानि पुण्यानि कानिचित्

जगाम तानि सर्वाणि तीर्थान्यायतनानि च

दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः

Mahabharata

Adi Parva, Adhyaya 207, Verse 10

कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः

अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत

Mahabharata

Adi Parva, Adhyaya 207, Verse 11

स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनंजयः

सहायैरल्पकैः शूरः प्रययौ येन सागरम्

Mahabharata

Adi Parva, Adhyaya 207, Verse 12

स कलिङ्गानतिक्रम्य देशानायतनानि च

धर्म्याणि रमणीयानि प्रेक्षमाणो ययौ प्रभुः

Mahabharata

Adi Parva, Adhyaya 207, Verse 13

महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम्

समुद्रतीरेण शनैर्मणलूरं जगाम ह

Mahabharata

Adi Parva, Adhyaya 207, Verse 14

तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च

अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम्

मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम्

Mahabharata

Adi Parva, Adhyaya 207, Verse 15

तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना

तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया

Mahabharata

Adi Parva, Adhyaya 207, Verse 16

दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहिनीम्

अभिगम्य च राजानं ज्ञापयत्स्वं प्रयोजनम्

तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः

Mahabharata

Adi Parva, Adhyaya 207, Verse 17

राजा प्रभंकरो नाम कुले अस्मिन्बभूव ह

अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम्

Mahabharata

Adi Parva, Adhyaya 207, Verse 18

उग्रेण तपसा तेन प्रणिपातेन शंकरः

ईश्वरस्तोषितस्तेन महादेव उमापतिः

Mahabharata

Adi Parva, Adhyaya 207, Verse 19

स तस्मै भगवान्प्रादादेकैकं प्रसवं कुले

एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा

Mahabharata

Adi Parva, Adhyaya 207, Verse 20

तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे

कन्या तु मम जातेयं कुलस्योत्पादनी ध्रुवम्

Mahabharata

Adi Parva, Adhyaya 207, Verse 21

पुत्रो ममेयमिति मे भावना पुरुषोत्तम

पुत्रिका हेतुविधिना संज्ञिता भरतर्षभ

Mahabharata

Adi Parva, Adhyaya 207, Verse 22

एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह

एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव

Mahabharata

Adi Parva, Adhyaya 207, Verse 23

स तथेति प्रतिज्ञाय कन्यां तां प्रतिगृह्य च

उवास नगरे तस्मिन्कौन्तेयस्त्रिहिमाः समाः