Shanti Parva, Adhyaya 69, Verse 1
पार्थिवेन विशेषेण किं कार्यमवशिष्यते
कथं रक्ष्यो जनपदः कथं रक्ष्याश्च शत्रवः
Containing 71 sacred Sanskrit shlokas with multi-author commentaries and translations.
पार्थिवेन विशेषेण किं कार्यमवशिष्यते
कथं रक्ष्यो जनपदः कथं रक्ष्याश्च शत्रवः
कथं चारं प्रयुञ्जीत वर्णान्विश्वासयेत्कथम्
कथं भृत्यान्कथं दारान्कथं पुत्रांश्च भारत
राजवृत्तं महाराज शृणुष्वावहितोऽखिलम्
यत्कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा
आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः
अजितात्मा नरपतिर्विजयेत कथं रिपून्
एतावानात्मविजयः पञ्चवर्गविनिग्रहः
जितेन्द्रियो नरपतिर्बाधितुं शक्नुयादरीन्
न्यसेत गुल्मान्दुर्गेषु संधौ च कुरुनन्दन
नगरोपवने चैव पुरोद्यानेषु चैव ह
संस्थानेषु च सर्वेषु पुरेषु नगरस्य च
मध्ये च नरशार्दूल तथा राजनिवेशने
प्रणिधींश्च ततः कुर्याज्जडान्धबधिराकृतीन्
पुंसः परीक्षितान्प्राज्ञान्क्षुत्पिपासातपक्षमान्
अमात्येषु च सर्वेषु मित्रेषु त्रिविधेषु च
पुत्रेषु च महाराज प्रणिदध्यात्समाहितः
पुरे जनपदे चैव तथा सामन्तराजसु
यथा न विद्युरन्योन्यं प्रणिधेयास्तथा हि ते
चारांश्च विद्यात्प्रहितान्परेण भरतर्षभ
आपणेषु विहारेषु समवायेषु भिक्षुषु
आरामेषु तथोद्याने पण्डितानां समागमे
वेशेषु चत्वरे चैव सभास्वावसथेषु च
एवं विहन्याच्चारेण परचारं विचक्षणः
चारेण विहतं सर्वं हतं भवति पाण्डव
यदा तु हीनं नृपतिर्विद्यादात्मानमात्मना
अमात्यैः सह संमन्त्र्य कुर्यात्संधिं बलीयसा
अज्ञायमानो हीनत्वे कुर्यात्संधिं परेण वै
लिप्सुर्वा कंचिदेवार्थं त्वरमाणो विचक्षणः
गुणवन्तो महोत्साहा धर्मज्ञाः साधवश्च ये
संदधीत नृपस्तैश्च राष्ट्रं धर्मेण पालयन्
उच्छिद्यमानमात्मानं ज्ञात्वा राजा महामतिः
पूर्वापकारिणो हन्याल्लोकद्विष्टांश्च सर्वशः
यो नोपकर्तुं शक्नोति नापकर्तुं महीपतिः
अशक्यरूपश्चोद्धर्तुमुपेक्ष्यस्तादृशो भवेत्
यात्रां यायादविज्ञातमनाक्रन्दमनन्तरम्
व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः
यात्रामाज्ञापयेद्वीरः कल्यपुष्टबलः सुखी
पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा
न च वश्यो भवेदस्य नृपो यद्यपि वीर्यवान्
हीनश्च बलवीर्याभ्यां कर्शयंस्तं परावसेत्
राष्ट्रं च पीडयेत्तस्य शस्त्राग्निविषमूर्छनैः
अमात्यवल्लभानां च विवादांस्तस्य कारयेत्
वर्जनीयं सदा युद्धं राज्यकामेन धीमता
उपायैस्त्रिभिरादानमर्थस्याह बृहस्पतिः
सान्त्वेनानुप्रदानेन भेदेन च नराधिप
यमर्थं शक्नुयात्प्राप्तुं तेन तुष्येद्धि पण्डितः
आददीत बलिं चैव प्रजाभ्यः कुरुनन्दन
षड्भागममितप्रज्ञस्तासामेवाभिगुप्तये
दशधर्मगतेभ्यो यद्वसु बह्वल्पमेव च
तन्नाददीत सहसा पौराणां रक्षणाय वै
यथा पुत्रास्तथा पौरा द्रष्टव्यास्ते न संशयः
भक्तिश्चैषां प्रकर्तव्या व्यवहारे प्रदर्शिते
सुतं च स्थापयेद्राजा प्राज्ञं सर्वार्थदर्शिनम्
व्यवहारेषु सततं तत्र राज्यं व्यवस्थितम्
आकरे लवणे शुल्के तरे नागवने तथा
न्यसेदमात्यान्नृपतिः स्वाप्तान्वा पुरुषान्हितान्
सम्यग्दण्डधरो नित्यं राजा धर्ममवाप्नुयात्
नृपस्य सततं दण्डः सम्यग्धर्मे प्रशस्यते
वेदवेदाङ्गवित्प्राज्ञः सुतपस्वी नृपो भवेत्
दानशीलश्च सततं यज्ञशीलश्च भारत