Mahabharata

Shanti Parva, Adhyaya 68

Containing 61 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 68, Verse 1

किमाहुर्दैवतं विप्रा राजानं भरतर्षभ

मनुष्याणामधिपतिं तन्मे ब्रूहि पितामह

Mahabharata

Shanti Parva, Adhyaya 68, Verse 2

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

बृहस्पतिं वसुमना यथा पप्रच्छ भारत

Mahabharata

Shanti Parva, Adhyaya 68, Verse 3

राजा वसुमना नाम कौसल्यो धीमतां वरः

महर्षिं परिपप्रच्छ कृतप्रज्ञो बृहस्पतिम्

Mahabharata

Shanti Parva, Adhyaya 68, Verse 4

सर्वं वैनयिकं कृत्वा विनयज्ञो बृहस्पतेः

दक्षिणानन्तरो भूत्वा प्रणम्य विधिपूर्वकम्

Mahabharata

Shanti Parva, Adhyaya 68, Verse 5

विधिं पप्रच्छ राज्यस्य सर्वभूतहिते रतः

प्रजानां हितमन्विच्छन्धर्ममूलं विशां पते

Mahabharata

Shanti Parva, Adhyaya 68, Verse 6

केन भूतानि वर्धन्ते क्षयं गच्छन्ति केन च

कमर्चन्तो महाप्राज्ञ सुखमत्यन्तमाप्नुयुः

Mahabharata

Shanti Parva, Adhyaya 68, Verse 7

इति पृष्टो महाराज्ञा कौसल्येनामितौजसा

राजसत्कारमव्यग्रः शशंसास्मै बृहस्पतिः

Mahabharata

Shanti Parva, Adhyaya 68, Verse 8

राजमूलो महाराज धर्मो लोकस्य लक्ष्यते

प्रजा राजभयादेव न खादन्ति परस्परम्

Mahabharata

Shanti Parva, Adhyaya 68, Verse 9

राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम्

प्रसादयति धर्मेण प्रसाद्य च विराजते

Mahabharata

Shanti Parva, Adhyaya 68, Verse 10

यथा ह्यनुदये राजन्भूतानि शशिसूर्ययोः

अन्धे तमसि मज्जेयुरपश्यन्तः परस्परम्

Mahabharata

Shanti Parva, Adhyaya 68, Verse 11

यथा ह्यनुदके मत्स्या निराक्रन्दे विहंगमाः

विहरेयुर्यथाकाममभिसृत्य पुनः पुनः

Mahabharata

Shanti Parva, Adhyaya 68, Verse 12

विमथ्यातिक्रमेरंश्च विषह्यापि परस्परम्

अभावमचिरेणैव गच्छेयुर्नात्र संशयः

Mahabharata

Shanti Parva, Adhyaya 68, Verse 13

एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः

अन्धे तमसि मज्जेयुरगोपाः पशवो यथा

Mahabharata

Shanti Parva, Adhyaya 68, Verse 14

हरेयुर्बलवन्तो हि दुर्बलानां परिग्रहान्

हन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत्

Mahabharata

Shanti Parva, Adhyaya 68, Verse 15

यानं वस्त्रमलंकारान्रत्नानि विविधानि च

हरेयुः सहसा पापा यदि राजा न पालयेत्

Mahabharata

Shanti Parva, Adhyaya 68, Verse 16

ममेदमिति लोकेऽस्मिन्न भवेत्संपरिग्रहः

विश्वलोपः प्रवर्तेत यदि राजा न पालयेत्

Mahabharata

Shanti Parva, Adhyaya 68, Verse 17

मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम्

क्लिश्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत्

Mahabharata

Shanti Parva, Adhyaya 68, Verse 18

पतेद्बहुविधं शस्त्रं बहुधा धर्मचारिषु

अधर्मः प्रगृहीतः स्याद्यदि राजा न पालयेत्

Mahabharata

Shanti Parva, Adhyaya 68, Verse 19

वधबन्धपरिक्लेशो नित्यमर्थवतां भवेत्

ममत्वं च न विन्देयुर्यदि राजा न पालयेत्

Mahabharata

Shanti Parva, Adhyaya 68, Verse 20

अन्तश्चाकाशमेव स्याल्लोकोऽयं दस्युसाद्भवेत्

पतेच्च नरकं घोरं यदि राजा न पालयेत्

Mahabharata

Shanti Parva, Adhyaya 68, Verse 21

न योनिपोषो वर्तेत न कृषिर्न वणिक्पथः

मज्जेद्धर्मस्त्रयी न स्याद्यदि राजा न पालयेत्

Mahabharata

Shanti Parva, Adhyaya 68, Verse 22

न यज्ञाः संप्रवर्तेरन्विधिवत्स्वाप्तदक्षिणाः

न विवाहाः समाजा वा यदि राजा न पालयेत्

Mahabharata

Shanti Parva, Adhyaya 68, Verse 23

न वृषाः संप्रवर्तेरन्न मथ्येरंश्च गर्गराः

घोषाः प्रणाशं गच्छेयुर्यदि राजा न पालयेत्

Mahabharata

Shanti Parva, Adhyaya 68, Verse 24

त्रस्तमुद्विग्नहृदयं हाहाभूतमचेतनम्

क्षणेन विनशेत्सर्वं यदि राजा न पालयेत्

Mahabharata

Shanti Parva, Adhyaya 68, Verse 25

न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः

विधिवद्दक्षिणावन्ति यदि राजा न पालयेत्

Mahabharata

Shanti Parva, Adhyaya 68, Verse 26

ब्राह्मणाश्चतुरो वेदान्नाधीयेरंस्तपस्विनः

विद्यास्नातास्तपःस्नाता यदि राजा न पालयेत्

Mahabharata

Shanti Parva, Adhyaya 68, Verse 27

हस्तो हस्तं स मुष्णीयाद्भिद्येरन्सर्वसेतवः

भयार्तं विद्रवेत्सर्वं यदि राजा न पालयेत्

Mahabharata

Shanti Parva, Adhyaya 68, Verse 28

न लभेद्धर्मसंश्लेषं हतविप्रहतो जनः

कर्ता स्वेच्छेन्द्रियो गच्छेद्यदि राजा न पालयेत्

Mahabharata

Shanti Parva, Adhyaya 68, Verse 29

अनयाः संप्रवर्तेरन्भवेद्वै वर्णसंकरः

दुर्भिक्षमाविशेद्राष्ट्रं यदि राजा न पालयेत्

Mahabharata

Shanti Parva, Adhyaya 68, Verse 30

विवृत्य हि यथाकामं गृहद्वाराणि शेरते

मनुष्या रक्षिता राज्ञा समन्तादकुतोभयाः