Mahabharata

Shanti Parva, Adhyaya 67

Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 67, Verse 1

चातुराश्रम्य उक्तोऽत्र चातुर्वर्ण्यस्तथैव च

राष्ट्रस्य यत्कृत्यतमं तन्मे ब्रूहि पितामह

Mahabharata

Shanti Parva, Adhyaya 67, Verse 2

राष्ट्रस्यैतत्कृत्यतमं राज्ञ एवाभिषेचनम्

अनिन्द्रमबलं राष्ट्रं दस्यवोऽभिभवन्ति च

Mahabharata

Shanti Parva, Adhyaya 67, Verse 3

अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते

परस्परं च खादन्ति सर्वथा धिगराजकम्

Mahabharata

Shanti Parva, Adhyaya 67, Verse 4

इन्द्रमेनं प्रवृणुते यद्राजानमिति श्रुतिः

यथैवेन्द्रस्तथा राजा संपूज्यो भूतिमिच्छता

Mahabharata

Shanti Parva, Adhyaya 67, Verse 5

नाराजकेषु राष्ट्रेषु वस्तव्यमिति वैदिकम्

नाराजकेषु राष्ट्रेषु हव्यमग्निर्वहत्यपि

Mahabharata

Shanti Parva, Adhyaya 67, Verse 6

अथ चेदभिवर्तेत राज्यार्थी बलवत्तरः

अराजकानि राष्ट्राणि हतराजानि वा पुनः

Mahabharata

Shanti Parva, Adhyaya 67, Verse 7

प्रत्युद्गम्याभिपूज्यः स्यादेतदत्र सुमन्त्रितम्

न हि पापात्पापतरमस्ति किंचिदराजकात्

Mahabharata

Shanti Parva, Adhyaya 67, Verse 8

स चेत्समनुपश्येत समग्रं कुशलं भवेत्

बलवान्हि प्रकुपितः कुर्यान्निःशेषतामपि

Mahabharata

Shanti Parva, Adhyaya 67, Verse 9

भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा

सुदुहा या तु भवति नैव तां क्लेशयन्त्युत

Mahabharata

Shanti Parva, Adhyaya 67, Verse 10

यदतप्तं प्रणमति न तत्संतापयन्त्युत

यच्च स्वयं नतं दारु न तत्संनामयन्त्यपि

Mahabharata

Shanti Parva, Adhyaya 67, Verse 11

एतयोपमया धीरः संनमेत बलीयसे

इन्द्राय स प्रणमते नमते यो बलीयसे

Mahabharata

Shanti Parva, Adhyaya 67, Verse 12

तस्माद्राजैव कर्तव्यः सततं भूतिमिच्छता

न धनार्थो न दारार्थस्तेषां येषामराजकम्

Mahabharata

Shanti Parva, Adhyaya 67, Verse 13

प्रीयते हि हरन्पापः परवित्तमराजके

यदास्य उद्धरन्त्यन्ये तदा राजानमिच्छति

Mahabharata

Shanti Parva, Adhyaya 67, Verse 14

पापा अपि तदा क्षेमं न लभन्ते कदाचन

एकस्य हि द्वौ हरतो द्वयोश्च बहवोऽपरे

Mahabharata

Shanti Parva, Adhyaya 67, Verse 15

अदासः क्रियते दासो ह्रियन्ते च बलात्स्त्रियः

एतस्मात्कारणाद्देवाः प्रजापालान्प्रचक्रिरे

Mahabharata

Shanti Parva, Adhyaya 67, Verse 16

राजा चेन्न भवेल्लोके पृथिव्यां दण्डधारकः

शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः

Mahabharata

Shanti Parva, Adhyaya 67, Verse 17

अराजकाः प्रजाः पूर्वं विनेशुरिति नः श्रुतम्

परस्परं भक्षयन्तो मत्स्या इव जले कृशान्

Mahabharata

Shanti Parva, Adhyaya 67, Verse 18

ताः समेत्य ततश्चक्रुः समयानिति नः श्रुतम्

वाक्क्रूरो दण्डपुरुषो यश्च स्यात्पारदारिकः

यश्च न स्वमथादद्यात्त्याज्या नस्तादृशा इति

Mahabharata

Shanti Parva, Adhyaya 67, Verse 19

विश्वासनार्थं वर्णानां सर्वेषामविशेषतः

तास्तथा समयं कृत्वा समये नावतस्थिरे

Mahabharata

Shanti Parva, Adhyaya 67, Verse 20

सहितास्तास्तदा जग्मुरसुखार्ताः पितामहम्

अनीश्वरा विनश्यामो भगवन्नीश्वरं दिश

Mahabharata

Shanti Parva, Adhyaya 67, Verse 21

यं पूजयेम संभूय यश्च नः परिपालयेत्

ताभ्यो मनुं व्यादिदेश मनुर्नाभिननन्द ताः

Mahabharata

Shanti Parva, Adhyaya 67, Verse 22

बिभेमि कर्मणः क्रूराद्राज्यं हि भृशदुष्करम्

विशेषतो मनुष्येषु मिथ्यावृत्तिषु नित्यदा

Mahabharata

Shanti Parva, Adhyaya 67, Verse 23

तमब्रुवन्प्रजा मा भैः कर्मणैनो गमिष्यति

पशूनामधिपञ्चाशद्धिरण्यस्य तथैव च

धान्यस्य दशमं भागं दास्यामः कोशवर्धनम्

Mahabharata

Shanti Parva, Adhyaya 67, Verse 24

मुख्येन शस्त्रपत्रेण ये मनुष्याः प्रधानतः

भवन्तं तेऽनुयास्यन्ति महेन्द्रमिव देवताः

Mahabharata

Shanti Parva, Adhyaya 67, Verse 25

स त्वं जातबलो राजन्दुष्प्रधर्षः प्रतापवान्

सुखे धास्यसि नः सर्वान्कुबेर इव नैरृतान्

Mahabharata

Shanti Parva, Adhyaya 67, Verse 26

यं च धर्मं चरिष्यन्ति प्रजा राज्ञा सुरक्षिताः

चतुर्थं तस्य धर्मस्य त्वत्संस्थं नो भविष्यति

Mahabharata

Shanti Parva, Adhyaya 67, Verse 27

तेन धर्मेण महता सुखलब्धेन भावितः

पाह्यस्मान्सर्वतो राजन्देवानिव शतक्रतुः

Mahabharata

Shanti Parva, Adhyaya 67, Verse 28

विजयायाशु निर्याहि प्रतपन्रश्मिमानिव

मानं विधम शत्रूणां धर्मो जयतु नः सदा

Mahabharata

Shanti Parva, Adhyaya 67, Verse 29

स निर्ययौ महातेजा बलेन महता वृतः

महाभिजनसंपन्नस्तेजसा प्रज्वलन्निव

Mahabharata

Shanti Parva, Adhyaya 67, Verse 30

तस्य तां महिमां दृष्ट्वा महेन्द्रस्येव देवताः

अपतत्रसिरे सर्वे स्वधर्मे च दधुर्मनः