Shanti Parva, Adhyaya 64, Verse 1
चातुराश्रम्यधर्माश्च जातिधर्माश्च पाण्डव
लोकपालोत्तराश्चैव क्षात्रे धर्मे व्यवस्थिताः
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
चातुराश्रम्यधर्माश्च जातिधर्माश्च पाण्डव
लोकपालोत्तराश्चैव क्षात्रे धर्मे व्यवस्थिताः
सर्वाण्येतानि धर्माणि क्षात्रे भरतसत्तम
निराशिषो जीवलोके क्षात्रे धर्मे व्यवस्थिताः
अप्रत्यक्षं बहुद्वारं धर्ममाश्रमवासिनाम्
प्ररूपयन्ति तद्भावमागमैरेव शाश्वतम्
अपरे वचनैः पुण्यैर्वादिनो लोकनिश्चयम्
अनिश्चयज्ञा धर्माणामदृष्टान्ते परे रताः
प्रत्यक्षसुखभूयिष्ठमात्मसाक्षिकमच्छलम्
सर्वलोकहितं धर्मं क्षत्रियेषु प्रतिष्ठितम्
धर्माश्रमव्यवसिनां ब्राह्मणानां युधिष्ठिर
यथा त्रयाणां वर्णानां संख्यातोपश्रुतिः पुरा
राजधर्मेष्वनुपमा लोक्या सुचरितैरिह
उदाहृतं ते राजेन्द्र यथा विष्णुं महौजसम्
सर्वभूतेश्वरं देवं प्रभुं नारायणं पुरा
जग्मुः सुबहवः शूरा राजानो दण्डनीतये
एकैकमात्मनः कर्म तुलयित्वाश्रमे पुरा
राजानः पर्युपातिष्ठन्दृष्टान्तवचने स्थिताः
साध्या देवा वसवश्चाश्विनौ च; रुद्राश्च विश्वे मरुतां गणाश्च
सृष्टाः पुरा आदिदेवेन देवा; क्षात्रे धर्मे वर्तयन्ते च सिद्धाः
अत्र ते वर्तयिष्यामि धर्ममर्थविनिश्चयम्
निर्मर्यादे वर्तमाने दानवैकायने कृते
बभूव राजा राजेन्द्र मान्धाता नाम वीर्यवान्
पुरा वसुमतीपालो यज्ञं चक्रे दिदृक्षया
अनादिमध्यनिधनं देवं नारायणं प्रति
स राजा राजशार्दूल मान्धाता परमेष्ठिनः
जग्राह शिरसा पादौ यज्ञे विष्णोर्महात्मनः
दर्शयामास तं विष्णू रूपमास्थाय वासवम्
स पार्थिवैर्वृतः सद्भिरर्चयामास तं प्रभुम्
तस्य पार्थिवसंघस्य तस्य चैव महात्मनः
संवादोऽयं महानासीद्विष्णुं प्रति महाद्युते
किमिष्यते धर्मभृतां वरिष्ठ; यद्द्रष्टुकामोऽसि तमप्रमेयम्
अनन्तमायामितसत्त्ववीर्यं; नारायणं ह्यादिदेवं पुराणम्
नासौ देवो विश्वरूपो मयापि; शक्यो द्रष्टुं ब्रह्मणा वापि साक्षात्
येऽन्ये कामास्तव राजन्हृदिस्था; दास्यामि तांस्त्वं हि मर्त्येषु राजा
सत्ये स्थितो धर्मपरो जितेन्द्रियः; शूरो दृढं प्रीतिरतः सुराणाम्
बुद्ध्या भक्त्या चोत्तमश्रद्धया च; ततस्तेऽहं दद्मि वरं यथेष्टम्
असंशयं भगवन्नादिदेवं; द्रक्ष्याम्यहं शिरसाहं प्रसाद्य
त्यक्त्वा भोगान्धर्मकामो ह्यरण्य;मिच्छे गन्तुं सत्पथं लोकजुष्टम्
क्षात्राद्धर्माद्विपुलादप्रमेया;ल्लोकाः प्राप्ताः स्थापितं स्वं यशश्च
धर्मो योऽसावादिदेवात्प्रवृत्तो; लोकज्येष्ठस्तं न जानामि कर्तुम्
असैनिकोऽधर्मपरश्चरेथाः; परां गतिं लप्स्यसे चाप्रमत्तः
क्षात्रो धर्मो ह्यादिदेवात्प्रवृत्तः; पश्चादन्ये शेषभूताश्च धर्माः
शेषाः सृष्टा ह्यन्तवन्तो ह्यनन्ताः; सुप्रस्थानाः क्षत्रधर्माविशिष्टाः
अस्मिन्धर्मे सर्वधर्माः प्रविष्टा;स्तस्माद्धर्मं श्रेष्ठमिमं वदन्ति
कर्मणा वै पुरा देवा ऋषयश्चामितौजसः
त्राताः सर्वे प्रमथ्यारीन्क्षत्रधर्मेण विष्णुना
यदि ह्यसौ भगवान्नाहनिष्य;द्रिपून्सर्वान्वसुमानप्रमेयः
न ब्राह्मणा न च लोकादिकर्ता; न सद्धर्मा नादिधर्मा भवेयुः
इमामुर्वीं न जयेद्विक्रमेण; देवश्रेष्ठोऽसौ पुरा चेदमेयः
चातुर्वर्ण्यं चातुराश्रम्यधर्माः; सर्वे न स्युर्ब्रह्मणो वै विनाशात्
दृष्टा धर्माः शतधा शाश्वतेन; क्षात्रेण धर्मेण पुनः प्रवृत्ताः
युगे युगे ह्यादिधर्माः प्रवृत्ता; लोकज्येष्ठं क्षत्रधर्मं वदन्ति
आत्मत्यागः सर्वभूतानुकम्पा; लोकज्ञानं मोक्षणं पालनं च
विषण्णानां मोक्षणं पीडितानां; क्षात्रे धर्मे विद्यते पार्थिवानाम्
निर्मर्यादाः काममन्युप्रवृत्ता; भीता राज्ञो नाधिगच्छन्ति पापम्
शिष्टाश्चान्ये सर्वधर्मोपपन्नाः; साध्वाचाराः साधु धर्मं चरन्ति
पुत्रवत्परिपाल्यानि लिङ्गधर्मेण पार्थिवैः
लोके भूतानि सर्वाणि विचरन्ति न संशयः
सर्वधर्मपरं क्षत्रं लोकज्येष्ठं सनातनम्
शश्वदक्षरपर्यन्तमक्षरं सर्वतोमुखम्