Mahabharata

Shanti Parva, Adhyaya 63

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 63, Verse 1

ज्याकर्षणं शत्रुनिबर्हणं च; कृषिर्वणिज्या पशुपालनं च

शुश्रूषणं चापि तथार्थहेतो;रकार्यमेतत्परमं द्विजस्य

Mahabharata

Shanti Parva, Adhyaya 63, Verse 2

सेव्यं तु ब्रह्मषट्कर्म गृहस्थेन मनीषिणा

कृतकृत्यस्य चारण्ये वासो विप्रस्य शस्यते

Mahabharata

Shanti Parva, Adhyaya 63, Verse 3

राजप्रैष्यं कृषिधनं जीवनं च वणिज्यया

कौटिल्यं कौलटेयं च कुसीदं च विवर्जयेत्

Mahabharata

Shanti Parva, Adhyaya 63, Verse 4

शूद्रो राजन्भवति ब्रह्मबन्धु;र्दुश्चारित्र्यो यश्च धर्मादपेतः

वृषलीपतिः पिशुनो नर्तकश्च; ग्रामप्रैष्यो यश्च भवेद्विकर्मा

Mahabharata

Shanti Parva, Adhyaya 63, Verse 5

जपन्वेदानजपंश्चापि राज;न्समः शूद्रैर्दासवच्चापि भोज्यः

एते सर्वे शूद्रसमा भवन्ति; राजन्नेतान्वर्जयेद्देवकृत्ये

Mahabharata

Shanti Parva, Adhyaya 63, Verse 6

निर्मर्यादे चाशने क्रूरवृत्तौ; हिंसात्मके त्यक्तधर्मस्ववृत्ते

हव्यं कव्यं यानि चान्यानि राज;न्देयान्यदेयानि भवन्ति तस्मिन्

Mahabharata

Shanti Parva, Adhyaya 63, Verse 7

तस्माद्धर्मो विहितो ब्राह्मणस्य; दमः शौचं चार्जवं चापि राजन्

तथा विप्रस्याश्रमाः सर्व एव; पुरा राजन्ब्रह्मणा वै निसृष्टाः

Mahabharata

Shanti Parva, Adhyaya 63, Verse 8

यः स्याद्दान्तः सोमप आर्यशीलः; सानुक्रोशः सर्वसहो निराशीः

ऋजुर्मृदुरनृशंसः क्षमावा;न्स वै विप्रो नेतरः पापकर्मा

Mahabharata

Shanti Parva, Adhyaya 63, Verse 9

शूद्रं वैश्यं राजपुत्रं च राजँ;ल्लोकाः सर्वे संश्रिता धर्मकामाः

तस्माद्वर्णाञ्जातिधर्मेषु सक्ता;न्मत्वा विष्णुर्नेच्छति पाण्डुपुत्र

Mahabharata

Shanti Parva, Adhyaya 63, Verse 10

लोके चेदं सर्वलोकस्य न स्या;च्चातुर्वर्ण्यं वेदवादाश्च न स्युः

सर्वाश्चेज्याः सर्वलोकक्रियाश्च; सद्यः सर्वे चाश्रमस्था न वै स्युः

Mahabharata

Shanti Parva, Adhyaya 63, Verse 11

यश्च त्रयाणां वर्णानामिच्छेदाश्रमसेवनम्

कर्तुमाश्रमदृष्टांश्च धर्मांस्ताञ्शृणु पाण्डव

Mahabharata

Shanti Parva, Adhyaya 63, Verse 12

शुश्रूषाकृतकृत्यस्य कृतसंतानकर्मणः

अभ्यनुज्ञाप्य राजानं शूद्रस्य जगतीपते

Mahabharata

Shanti Parva, Adhyaya 63, Verse 13

अल्पान्तरगतस्यापि दशधर्मगतस्य वा

आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम्

Mahabharata

Shanti Parva, Adhyaya 63, Verse 14

भैक्षचर्यां न तु प्राहुस्तस्य तद्धर्मचारिणः

तथा वैश्यस्य राजेन्द्र राजपुत्रस्य चैव हि

Mahabharata

Shanti Parva, Adhyaya 63, Verse 15

कृतकृत्यो वयोतीतो राज्ञः कृतपरिश्रमः

वैश्यो गच्छेदनुज्ञातो नृपेणाश्रममण्डलम्

Mahabharata

Shanti Parva, Adhyaya 63, Verse 16

वेदानधीत्य धर्मेण राजशास्त्राणि चानघ

संतानादीनि कर्माणि कृत्वा सोमं निषेव्य च

Mahabharata

Shanti Parva, Adhyaya 63, Verse 17

पालयित्वा प्रजाः सर्वा धर्मेण वदतां वर

राजसूयाश्वमेधादीन्मखानन्यांस्तथैव च

Mahabharata

Shanti Parva, Adhyaya 63, Verse 18

समानीय यथापाठं विप्रेभ्यो दत्तदक्षिणः

संग्रामे विजयं प्राप्य तथाल्पं यदि वा बहु

Mahabharata

Shanti Parva, Adhyaya 63, Verse 19

स्थापयित्वा प्रजापालं पुत्रं राज्ये च पाण्डव

अन्यगोत्रं प्रशस्तं वा क्षत्रियं क्षत्रियर्षभ

Mahabharata

Shanti Parva, Adhyaya 63, Verse 20

अर्चयित्वा पितॄन्सम्यक्पितृयज्ञैर्यथाविधि

देवान्यज्ञैरृषीन्वेदैरर्चित्वा चैव यत्नतः

Mahabharata

Shanti Parva, Adhyaya 63, Verse 21

अन्तकाले च संप्राप्ते य इच्छेदाश्रमान्तरम्

आनुपूर्व्याश्रमान्राजन्गत्वा सिद्धिमवाप्नुयात्

Mahabharata

Shanti Parva, Adhyaya 63, Verse 22

राजर्षित्वेन राजेन्द्र भैक्षचर्याध्वसेवया

अपेतगृहधर्मोऽपि चरेज्जीवितकाम्यया

Mahabharata

Shanti Parva, Adhyaya 63, Verse 23

न चैतन्नैष्ठिकं कर्म त्रयाणां भरतर्षभ

चतुर्णां राजशार्दूल प्राहुराश्रमवासिनाम्

Mahabharata

Shanti Parva, Adhyaya 63, Verse 24

बह्वायत्तं क्षत्रियैर्मानवानां; लोकश्रेष्ठं धर्ममासेवमानैः

सर्वे धर्माः सोपधर्मास्त्रयाणां; राज्ञो धर्मादिति वेदाच्छृणोमि

Mahabharata

Shanti Parva, Adhyaya 63, Verse 25

यथा राजन्हस्तिपदे पदानि; संलीयन्ते सर्वसत्त्वोद्भवानि

एवं धर्मान्राजधर्मेषु सर्वा;न्सर्वावस्थं संप्रलीनान्निबोध

Mahabharata

Shanti Parva, Adhyaya 63, Verse 26

अल्पाश्रयानल्पफलान्वदन्ति; धर्मानन्यान्धर्मविदो मनुष्याः

महाश्रयं बहुकल्याणरूपं; क्षात्रं धर्मं नेतरं प्राहुरार्याः

Mahabharata

Shanti Parva, Adhyaya 63, Verse 27

सर्वे धर्मा राजधर्मप्रधानाः; सर्वे धर्माः पाल्यमाना भवन्ति

सर्वत्यागो राजधर्मेषु राजं;स्त्यागे चाहुर्धर्ममग्र्यं पुराणम्

Mahabharata

Shanti Parva, Adhyaya 63, Verse 28

मज्जेत्त्रयी दण्डनीतौ हतायां; सर्वे धर्मा न भवेयुर्विरुद्धाः

सर्वे धर्माश्चाश्रमाणां गताः स्युः; क्षात्रे त्यक्ते राजधर्मे पुराणे

Mahabharata

Shanti Parva, Adhyaya 63, Verse 29

सर्वे त्यागा राजधर्मेषु दृष्टाः; सर्वा दीक्षा राजधर्मेषु चोक्ताः

सर्वे योगा राजधर्मेषु चोक्ताः; सर्वे लोका राजधर्मान्प्रविष्टाः

Mahabharata

Shanti Parva, Adhyaya 63, Verse 30

यथा जीवाः प्रकृतौ वध्यमाना; धर्माश्रितानामुपपीडनाय

एवं धर्मा राजधर्मैर्वियुक्ताः; सर्वावस्थं नाद्रियन्ते स्वधर्मम्