Mahabharata

Shanti Parva, Adhyaya 62

Containing 11 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 62, Verse 1

शिवान्सुखान्महोदर्कानहिंस्राँल्लोकसंमतान्

ब्रूहि धर्मान्सुखोपायान्मद्विधानां सुखावहान्

Mahabharata

Shanti Parva, Adhyaya 62, Verse 2

ब्राह्मणस्येह चत्वार आश्रमा विहिताः प्रभो

वर्णास्ताननुवर्तन्ते त्रयो भरतसत्तम

Mahabharata

Shanti Parva, Adhyaya 62, Verse 3

उक्तानि कर्माणि बहूनि राज;न्स्वर्ग्याणि राजन्यपरायणानि

नेमानि दृष्टान्तविधौ स्मृतानि; क्षात्रे हि सर्वं विहितं यथावत्

Mahabharata

Shanti Parva, Adhyaya 62, Verse 4

क्षात्राणि वैश्यानि च सेवमानः; शौद्राणि कर्माणि च ब्राह्मणः सन्

अस्मिँल्लोके निन्दितो मन्दचेताः; परे च लोके निरयं प्रयाति

Mahabharata

Shanti Parva, Adhyaya 62, Verse 5

या संज्ञा विहिता लोके दासे शुनि वृके पशौ

विकर्मणि स्थिते विप्रे तां संज्ञां कुरु पाण्डव

Mahabharata

Shanti Parva, Adhyaya 62, Verse 6

षट्कर्मसंप्रवृत्तस्य आश्रमेषु चतुर्ष्वपि

सर्वधर्मोपपन्नस्य संभूतस्य कृतात्मनः

Mahabharata

Shanti Parva, Adhyaya 62, Verse 7

ब्राह्मणस्य विशुद्धस्य तपस्यभिरतस्य च

निराशिषो वदान्यस्य लोका ह्यक्षरसंज्ञिताः

Mahabharata

Shanti Parva, Adhyaya 62, Verse 8

यो यस्मिन्कुरुते कर्म यादृशं येन यत्र च

तादृशं तादृशेनैव स गुणं प्रतिपद्यते

Mahabharata

Shanti Parva, Adhyaya 62, Verse 9

वृद्ध्या कृषिवणिक्त्वेन जीवसंजीवनेन च

वेत्तुमर्हसि राजेन्द्र स्वाध्यायगणितं महत्

Mahabharata

Shanti Parva, Adhyaya 62, Verse 10

कालसंचोदितः कालः कालपर्यायनिश्चितः

उत्तमाधममध्यानि कर्माणि कुरुतेऽवशः

Mahabharata

Shanti Parva, Adhyaya 62, Verse 11

अन्तवन्ति प्रदानानि पुरा श्रेयस्कराणि च

स्वकर्मनिरतो लोको ह्यक्षरः सर्वतोमुखः