Mahabharata

Shanti Parva, Adhyaya 61

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 61, Verse 1

आश्रमाणां महाबाहो शृणु सत्यपराक्रम

चतुर्णामिह वर्णानां कर्माणि च युधिष्ठिर

Mahabharata

Shanti Parva, Adhyaya 61, Verse 2

वानप्रस्थं भैक्षचर्यां गार्हस्थ्यं च महाश्रमम्

ब्रह्मचर्याश्रमं प्राहुश्चतुर्थं ब्राह्मणैर्वृतम्

Mahabharata

Shanti Parva, Adhyaya 61, Verse 3

जटाकरणसंस्कारं द्विजातित्वमवाप्य च

आधानादीनि कर्माणि प्राप्य वेदमधीत्य च

Mahabharata

Shanti Parva, Adhyaya 61, Verse 4

सदारो वाप्यदारो वा आत्मवान्संयतेन्द्रियः

वानप्रस्थाश्रमं गच्छेत्कृतकृत्यो गृहाश्रमात्

Mahabharata

Shanti Parva, Adhyaya 61, Verse 5

तत्रारण्यकशास्त्राणि समधीत्य स धर्मवित्

ऊर्ध्वरेताः प्रजायित्वा गच्छत्यक्षरसात्मताम्

Mahabharata

Shanti Parva, Adhyaya 61, Verse 6

एतान्येव निमित्तानि मुनीनामूर्ध्वरेतसाम्

कर्तव्यानीह विप्रेण राजन्नादौ विपश्चिता

Mahabharata

Shanti Parva, Adhyaya 61, Verse 7

चरितब्रह्मचर्यस्य ब्राह्मणस्य विशां पते

भैक्षचर्यास्वधीकारः प्रशस्त इह मोक्षिणः

Mahabharata

Shanti Parva, Adhyaya 61, Verse 8

यत्रास्तमितशायी स्यान्निरग्निरनिकेतनः

यथोपलब्धजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः

Mahabharata

Shanti Parva, Adhyaya 61, Verse 9

निराशीः स्यात्सर्वसमो निर्भोगो निर्विकारवान्

विप्रः क्षेमाश्रमं प्राप्तो गच्छत्यक्षरसात्मताम्

Mahabharata

Shanti Parva, Adhyaya 61, Verse 10

अधीत्य वेदान्कृतसर्वकृत्यः; संतानमुत्पाद्य सुखानि भुक्त्वा

समाहितः प्रचरेद्दुश्चरं तं; गार्हस्थ्यधर्मं मुनिधर्मदृष्टम्

Mahabharata

Shanti Parva, Adhyaya 61, Verse 11

स्वदारतुष्ट ऋतुकालगामी; नियोगसेवी नशठो नजिह्मः

मिताशनो देवपरः कृतज्ञः; सत्यो मृदुश्चानृशंसः क्षमावान्

Mahabharata

Shanti Parva, Adhyaya 61, Verse 12

दान्तो विधेयो हव्यकव्येऽप्रमत्तो; अन्नस्य दाता सततं द्विजेभ्यः

अमत्सरी सर्वलिङ्गिप्रदाता; वैताननित्यश्च गृहाश्रमी स्यात्

Mahabharata

Shanti Parva, Adhyaya 61, Verse 13

अथात्र नारायणगीतमाहु;र्महर्षयस्तात महानुभावाः

महार्थमत्यर्थतपःप्रयुक्तं; तदुच्यमानं हि मया निबोध

Mahabharata

Shanti Parva, Adhyaya 61, Verse 14

सत्यार्जवं चातिथिपूजनं च; धर्मस्तथार्थश्च रतिश्च दारे

निषेवितव्यानि सुखानि लोके; ह्यस्मिन्परे चैव मतं ममैतत्

Mahabharata

Shanti Parva, Adhyaya 61, Verse 15

भरणं पुत्रदाराणां वेदानां पारणं तथा

सतां तमाश्रमं श्रेष्ठं वदन्ति परमर्षयः

Mahabharata

Shanti Parva, Adhyaya 61, Verse 16

एवं हि यो ब्राह्मणो यज्ञशीलो; गार्हस्थ्यमध्यावसते यथावत्

गृहस्थवृत्तिं प्रविशोध्य सम्य;क्स्वर्गे विशुद्धं फलमाप्नुते सः

Mahabharata

Shanti Parva, Adhyaya 61, Verse 17

तस्य देहपरित्यागादिष्टाः कामाक्षया मताः

आनन्त्यायोपतिष्ठन्ति सर्वतोक्षिशिरोमुखाः

Mahabharata

Shanti Parva, Adhyaya 61, Verse 18

खादन्नेको जपन्नेकः सर्पन्नेको युधिष्ठिर

एकस्मिन्नेव आचार्ये शुश्रूषुर्मलपङ्कवान्

Mahabharata

Shanti Parva, Adhyaya 61, Verse 19

ब्रह्मचारी व्रती नित्यं नित्यं दीक्षापरो वशी

अविचार्य तथा वेदं कृत्यं कुर्वन्वसेत्सदा

Mahabharata

Shanti Parva, Adhyaya 61, Verse 20

शुश्रूषां सततं कुर्वन्गुरोः संप्रणमेत च

षट्कर्मस्वनिवृत्तश्च नप्रवृत्तश्च सर्वशः

Mahabharata

Shanti Parva, Adhyaya 61, Verse 21

न चरत्यधिकारेण सेवितं द्विषतो न च

एषोऽऽश्रमपदस्तात ब्रह्मचारिण इष्यते