Shanti Parva, Adhyaya 60, Verse 1
ततः पुनः स गाङ्गेयमभिवाद्य पितामहम्
प्राञ्जलिर्नियतो भूत्वा पर्यपृच्छद्युधिष्ठिरः
Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः पुनः स गाङ्गेयमभिवाद्य पितामहम्
प्राञ्जलिर्नियतो भूत्वा पर्यपृच्छद्युधिष्ठिरः
के धर्माः सर्ववर्णानां चातुर्वर्ण्यस्य के पृथक्
चतुर्णामाश्रमाणां च राजधर्माश्च के मताः
केन स्विद्वर्धते राष्ट्रं राजा केन विवर्धते
केन पौराश्च भृत्याश्च वर्धन्ते भरतर्षभ
कोशं दण्डं च दुर्गं च सहायान्मन्त्रिणस्तथा
ऋत्विक्पुरोहिताचार्यान्कीदृशान्वर्जयेन्नृपः
केषु विश्वसितव्यं स्याद्राज्ञां कस्यांचिदापदि
कुतो वात्मा दृढो रक्ष्यस्तन्मे ब्रूहि पितामह
नमो धर्माय महते नमः कृष्णाय वेधसे
ब्राह्मणेभ्यो नमस्कृत्वा धर्मान्वक्ष्यामि शाश्वतान्
अक्रोधः सत्यवचनं संविभागः क्षमा तथा
प्रजनः स्वेषु दारेषु शौचमद्रोह एव च
आर्जवं भृत्यभरणं नवैते सार्ववर्णिकाः
ब्राह्मणस्य तु यो धर्मस्तं ते वक्ष्यामि केवलम्
दममेव महाराज धर्ममाहुः पुरातनम्
स्वाध्यायोऽध्यापनं चैव तत्र कर्म समाप्यते
तं चेद्वित्तमुपागच्छेद्वर्तमानं स्वकर्मणि
अकुर्वाणं विकर्माणि शान्तं प्रज्ञानतर्पितम्
कुर्वीतापत्यसंतानमथो दद्याद्यजेत च
संविभज्य हि भोक्तव्यं धनं सद्भिरितीष्यते
परिनिष्ठितकार्यस्तु स्वाध्यायेनैव ब्राह्मणः
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते
क्षत्रियस्यापि यो धर्मस्तं ते वक्ष्यामि भारत
दद्याद्राजा न याचेत यजेत न तु याजयेत्
नाध्यापयेदधीयीत प्रजाश्च परिपालयेत्
नित्योद्युक्तो दस्युवधे रणे कुर्यात्पराक्रमम्
ये च क्रतुभिरीजानाः श्रुतवन्तश्च भूमिपाः
य एवाहवजेतारस्त एषां लोकजित्तमाः
अविक्षतेन देहेन समराद्यो निवर्तते
क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः
वधं हि क्षत्रबन्धूनां धर्ममाहुः प्रधानतः
नास्य कृत्यतमं किंचिदन्यद्दस्युनिबर्हणात्
दानमध्ययनं यज्ञो योगः क्षेमो विधीयते
तस्माद्राज्ञा विशेषेण योद्धव्यं धर्ममीप्सता
स्वेषु धर्मेष्ववस्थाप्य प्रजाः सर्वा महीपतिः
धर्मेण सर्वकृत्यानि समनिष्ठानि कारयेत्
परिनिष्ठितकार्यः स्यान्नृपतिः परिपालनात्
कुर्यादन्यन्न वा कुर्यादैन्द्रो राजन्य उच्यते
वैश्यस्यापीह यो धर्मस्तं ते वक्ष्यामि भारत
दानमध्ययनं यज्ञः शौचेन धनसंचयः
पितृवत्पालयेद्वैश्यो युक्तः सर्वपशूनिह
विकर्म तद्भवेदन्यत्कर्म यद्यत्समाचरेत्
रक्षया स हि तेषां वै महत्सुखमवाप्नुयात्
प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून्
ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम्
षण्णामेकां पिबेद्धेनुं शताच्च मिथुनं हरेत्
लये च सप्तमो भागस्तथा शृङ्गे कला खुरे
सस्यस्य सर्वबीजानामेषा सांवत्सरी भृतिः
न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति
वैश्ये चेच्छति नान्येन रक्षितव्याः कथंचन
शूद्रस्यापि हि यो धर्मस्तं ते वक्ष्यामि भारत
प्रजापतिर्हि वर्णानां दासं शूद्रमकल्पयत्
तस्माच्छूद्रस्य वर्णानां परिचर्या विधीयते
तेषां शुश्रूषणाच्चैव महत्सुखमवाप्नुयात्
शूद्र एतान्परिचरेत्त्रीन्वर्णाननसूयकः
संचयांश्च न कुर्वीत जातु शूद्रः कथंचन
पापीयान्हि धनं लब्ध्वा वशे कुर्याद्गरीयसः
राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः