Mahabharata

Shanti Parva, Adhyaya 59

Containing 141 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 59, Verse 1

ततः काल्यं समुत्थाय कृतपौर्वाह्णिकक्रियाः

ययुस्ते नगराकारै रथैः पाण्डवयादवाः

Mahabharata

Shanti Parva, Adhyaya 59, Verse 2

प्रपद्य च कुरुक्षेत्रं भीष्ममासाद्य चानघम्

सुखां च रजनीं पृष्ट्वा गाङ्गेयं रथिनां वरम्

Mahabharata

Shanti Parva, Adhyaya 59, Verse 3

व्यासादीनभिवाद्यर्षीन्सर्वैस्तैश्चाभिनन्दिताः

निषेदुरभितो भीष्मं परिवार्य समन्ततः

Mahabharata

Shanti Parva, Adhyaya 59, Verse 4

ततो राजा महातेजा धर्मराजो युधिष्ठिरः

अब्रवीत्प्राञ्जलिर्भीष्मं प्रतिपूज्याभिवाद्य च

Mahabharata

Shanti Parva, Adhyaya 59, Verse 5

य एष राजा-राजेति शब्दश्चरति भारत

कथमेष समुत्पन्नस्तन्मे ब्रूहि पितामह

Mahabharata

Shanti Parva, Adhyaya 59, Verse 6

तुल्यपाणिशिरोग्रीवस्तुल्यबुद्धीन्द्रियात्मकः

तुल्यदुःखसुखात्मा च तुल्यपृष्ठभुजोदरः

Mahabharata

Shanti Parva, Adhyaya 59, Verse 7

तुल्यशुक्रास्थिमज्जश्च तुल्यमांसासृगेव च

निःश्वासोच्छ्वासतुल्यश्च तुल्यप्राणशरीरवान्

Mahabharata

Shanti Parva, Adhyaya 59, Verse 8

समानजन्ममरणः समः सर्वगुणैर्नृणाम्

विशिष्टबुद्धीञ्शूरांश्च कथमेकोऽधितिष्ठति

Mahabharata

Shanti Parva, Adhyaya 59, Verse 9

कथमेको महीं कृत्स्नां वीरशूरार्यसंकुलाम्

रक्षत्यपि च लोकोऽस्य प्रसादमभिवाञ्छति

Mahabharata

Shanti Parva, Adhyaya 59, Verse 10

एकस्य च प्रसादेन कृत्स्नो लोकः प्रसीदति

व्याकुलेनाकुलः सर्वो भवतीति विनिश्चयः

Mahabharata

Shanti Parva, Adhyaya 59, Verse 11

एतदिच्छाम्यहं सर्वं तत्त्वेन भरतर्षभ

श्रोतुं तन्मे यथातत्त्वं प्रब्रूहि वदतां वर

Mahabharata

Shanti Parva, Adhyaya 59, Verse 12

नैतत्कारणमल्पं हि भविष्यति विशां पते

यदेकस्मिञ्जगत्सर्वं देववद्याति संनतिम्

Mahabharata

Shanti Parva, Adhyaya 59, Verse 13

नियतस्त्वं नरश्रेष्ठ शृणु सर्वमशेषतः

यथा राज्यं समुत्पन्नमादौ कृतयुगेऽभवत्

Mahabharata

Shanti Parva, Adhyaya 59, Verse 14

नैव राज्यं न राजासीन्न दण्डो न च दाण्डिकः

धर्मेणैव प्रजाः सर्वा रक्षन्ति च परस्परम्

Mahabharata

Shanti Parva, Adhyaya 59, Verse 15

पालयानास्तथान्योन्यं नरा धर्मेण भारत

खेदं परममाजग्मुस्ततस्तान्मोह आविशत्

Mahabharata

Shanti Parva, Adhyaya 59, Verse 16

ते मोहवशमापन्ना मानवा मनुजर्षभ

प्रतिपत्तिविमोहाच्च धर्मस्तेषामनीनशत्

Mahabharata

Shanti Parva, Adhyaya 59, Verse 17

नष्टायां प्रतिपत्तौ तु मोहवश्या नरास्तदा

लोभस्य वशमापन्नाः सर्वे भारतसत्तम

Mahabharata

Shanti Parva, Adhyaya 59, Verse 18

अप्राप्तस्याभिमर्शं तु कुर्वन्तो मनुजास्ततः

कामो नामापरस्तत्र समपद्यत वै प्रभो

Mahabharata

Shanti Parva, Adhyaya 59, Verse 19

तांस्तु कामवशं प्राप्तान्रागो नाम समस्पृशत्

रक्ताश्च नाभ्यजानन्त कार्याकार्यं युधिष्ठिर

Mahabharata

Shanti Parva, Adhyaya 59, Verse 20

अगम्यागमनं चैव वाच्यावाच्यं तथैव च

भक्ष्याभक्ष्यं च राजेन्द्र दोषादोषं च नात्यजन्

Mahabharata

Shanti Parva, Adhyaya 59, Verse 21

विप्लुते नरलोकेऽस्मिंस्ततो ब्रह्म ननाश ह

नाशाच्च ब्रह्मणो राजन्धर्मो नाशमथागमत्

Mahabharata

Shanti Parva, Adhyaya 59, Verse 22

नष्टे ब्रह्मणि धर्मे च देवास्त्रासमथागमन्

ते त्रस्ता नरशार्दूल ब्रह्माणं शरणं ययुः

Mahabharata

Shanti Parva, Adhyaya 59, Verse 23

प्रपद्य भगवन्तं ते देवा लोकपितामहम्

ऊचुः प्राञ्जलयः सर्वे दुःखशोकभयार्दिताः

Mahabharata

Shanti Parva, Adhyaya 59, Verse 24

भगवन्नरलोकस्थं नष्टं ब्रह्म सनातनम्

लोभमोहादिभिर्भावैस्ततो नो भयमाविशत्

Mahabharata

Shanti Parva, Adhyaya 59, Verse 25

ब्रह्मणश्च प्रणाशेन धर्मोऽप्यनशदीश्वर

ततः स्म समतां याता मर्त्यैस्त्रिभुवनेश्वर

Mahabharata

Shanti Parva, Adhyaya 59, Verse 26

अधो हि वर्षमस्माकं मर्त्यास्तूर्ध्वप्रवर्षिणः

क्रियाव्युपरमात्तेषां ततोऽगच्छाम संशयम्

Mahabharata

Shanti Parva, Adhyaya 59, Verse 27

अत्र निःश्रेयसं यन्नस्तद्ध्यायस्व पितामह

त्वत्प्रभावसमुत्थोऽसौ प्रभावो नो विनश्यति

Mahabharata

Shanti Parva, Adhyaya 59, Verse 28

तानुवाच सुरान्सर्वान्स्वयंभूर्भगवांस्ततः

श्रेयोऽहं चिन्तयिष्यामि व्येतु वो भीः सुरर्षभाः

Mahabharata

Shanti Parva, Adhyaya 59, Verse 29

ततोऽध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम्

यत्र धर्मस्तथैवार्थः कामश्चैवानुवर्णितः

Mahabharata

Shanti Parva, Adhyaya 59, Verse 30

त्रिवर्ग इति विख्यातो गण एष स्वयंभुवा

चतुर्थो मोक्ष इत्येव पृथगर्थः पृथग्गणः