Mahabharata

Shanti Parva, Adhyaya 55

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 55, Verse 1

अथाब्रवीन्महातेजा वाक्यं कौरवनन्दनः

हन्त धर्मान्प्रवक्ष्यामि दृढे वाङ्मनसी मम

तव प्रसादाद्गोविन्द भूतात्मा ह्यसि शाश्वतः

Mahabharata

Shanti Parva, Adhyaya 55, Verse 2

युधिष्ठिरस्तु मां राजा धर्मान्समनुपृच्छतु

एवं प्रीतो भविष्यामि धर्मान्वक्ष्यामि चानघ

Mahabharata

Shanti Parva, Adhyaya 55, Verse 3

यस्मिन्राजर्षभे जाते धर्मात्मनि महात्मनि

अहृष्यन्नृषयः सर्वे स मां पृच्छतु पाण्डवः

Mahabharata

Shanti Parva, Adhyaya 55, Verse 4

सर्वेषां दीप्तयशसां कुरूणां धर्मचारिणाम्

यस्य नास्ति समः कश्चित्स मां पृच्छतु पाण्डवः

Mahabharata

Shanti Parva, Adhyaya 55, Verse 5

धृतिर्दमो ब्रह्मचर्यं क्षमा धर्मश्च नित्यदा

यस्मिन्नोजश्च तेजश्च स मां पृच्छतु पाण्डवः

Mahabharata

Shanti Parva, Adhyaya 55, Verse 6

सत्यं दानं तपः शौचं शान्तिर्दाक्ष्यमसंभ्रमः

यस्मिन्नेतानि सर्वाणि स मां पृच्छतु पाण्डवः

Mahabharata

Shanti Parva, Adhyaya 55, Verse 7

यो न कामान्न संरम्भान्न भयान्नार्थकारणात्

कुर्यादधर्मं धर्मात्मा स मां पृच्छतु पाण्डवः

Mahabharata

Shanti Parva, Adhyaya 55, Verse 8

संबन्धिनोऽतिथीन्भृत्यान्संश्रितोपाश्रितांश्च यः

संमानयति सत्कृत्य स मां पृच्छतु पाण्डवः

Mahabharata

Shanti Parva, Adhyaya 55, Verse 9

सत्यनित्यः क्षमानित्यो ज्ञाननित्योऽतिथिप्रियः

यो ददाति सतां नित्यं स मां पृच्छतु पाण्डवः

Mahabharata

Shanti Parva, Adhyaya 55, Verse 10

इज्याध्ययननित्यश्च धर्मे च निरतः सदा

शान्तः श्रुतरहस्यश्च स मां पृच्छतु पाण्डवः

Mahabharata

Shanti Parva, Adhyaya 55, Verse 11

लज्जया परयोपेतो धर्मात्मा स युधिष्ठिरः

अभिशापभयाद्भीतो भवन्तं नोपसर्पति

Mahabharata

Shanti Parva, Adhyaya 55, Verse 12

लोकस्य कदनं कृत्वा लोकनाथो विशां पते

अभिशापभयाद्भीतो भवन्तं नोपसर्पति

Mahabharata

Shanti Parva, Adhyaya 55, Verse 13

पूज्यान्मान्यांश्च भक्तांश्च गुरून्संबन्धिबान्धवान्

अर्घ्यार्हानिषुभिर्हत्वा भवन्तं नोपसर्पति

Mahabharata

Shanti Parva, Adhyaya 55, Verse 14

ब्राह्मणानां यथा धर्मो दानमध्ययनं तपः

क्षत्रियाणां तथा कृष्ण समरे देहपातनम्

Mahabharata

Shanti Parva, Adhyaya 55, Verse 15

पितॄन्पितामहान्पुत्रान्गुरून्संबन्धिबान्धवान्

मिथ्याप्रवृत्तान्यः संख्ये निहन्याद्धर्म एव सः

Mahabharata

Shanti Parva, Adhyaya 55, Verse 16

समयत्यागिनो लुब्धान्गुरूनपि च केशव

निहन्ति समरे पापान्क्षत्रियो यः स धर्मवित्

Mahabharata

Shanti Parva, Adhyaya 55, Verse 17

आहूतेन रणे नित्यं योद्धव्यं क्षत्रबन्धुना

धर्म्यं स्वर्ग्यं च लोक्यं च युद्धं हि मनुरब्रवीत्

Mahabharata

Shanti Parva, Adhyaya 55, Verse 18

एवमुक्तस्तु भीष्मेण धर्मराजो युधिष्ठिरः

विनीतवदुपागम्य तस्थौ संदर्शनेऽग्रतः

Mahabharata

Shanti Parva, Adhyaya 55, Verse 19

अथास्य पादौ जग्राह भीष्मश्चाभिननन्द तम्

मूर्ध्नि चैनमुपाघ्राय निषीदेत्यब्रवीत्तदा

Mahabharata

Shanti Parva, Adhyaya 55, Verse 20

तमुवाचाथ गाङ्गेय ऋषभः सर्वधन्विनाम्

पृच्छ मां तात विस्रब्धं मा भैस्त्वं कुरुसत्तम