Shanti Parva, Adhyaya 54, Verse 1
धर्मात्मनि महासत्त्वे सत्यसंधे जितात्मनि
देवव्रते महाभागे शरतल्पगतेऽच्युते
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
धर्मात्मनि महासत्त्वे सत्यसंधे जितात्मनि
देवव्रते महाभागे शरतल्पगतेऽच्युते
शयाने वीरशयने भीष्मे शंतनुनन्दने
गाङ्गेये पुरुषव्याघ्रे पाण्डवैः पर्युपस्थिते
काः कथाः समवर्तन्त तस्मिन्वीरसमागमे
हतेषु सर्वसैन्येषु तन्मे शंस महामुने
शरतल्पगते भीष्मे कौरवाणां धुरंधरे
आजग्मुरृषयः सिद्धा नारदप्रमुखा नृप
हतशिष्टाश्च राजानो युधिष्ठिरपुरोगमाः
धृतराष्ट्रश्च कृष्णश्च भीमार्जुनयमास्तथा
तेऽभिगम्य महात्मानो भरतानां पितामहम्
अन्वशोचन्त गाङ्गेयमादित्यं पतितं यथा
मुहूर्तमिव च ध्यात्वा नारदो देवदर्शनः
उवाच पाण्डवान्सर्वान्हतशिष्टांश्च पार्थिवान्
प्राप्तकालं च आचक्षे भीष्मोऽयमनुयुज्यताम्
अस्तमेति हि गाङ्गेयो भानुमानिव भारत
अयं प्राणानुत्सिसृक्षुस्तं सर्वेऽभ्येत्य पृच्छत
कृत्स्नान्हि विविधान्धर्मांश्चातुर्वर्ण्यस्य वेत्त्ययम्
एष वृद्धः पुरा लोकान्संप्राप्नोति तनुत्यजाम्
तं शीघ्रमनुयुञ्जध्वं संशयान्मनसि स्थितान्
एवमुक्ता नारदेन भीष्ममीयुर्नराधिपाः
प्रष्टुं चाशक्नुवन्तस्ते वीक्षां चक्रुः परस्परम्
अथोवाच हृषीकेशं पाण्डुपुत्रो युधिष्ठिरः
नान्यस्त्वद्देवकीपुत्र शक्तः प्रष्टुं पितामहम्
प्रव्याहारय दुर्धर्ष त्वमग्रे मधुसूदन
त्वं हि नस्तात सर्वेषां सर्वधर्मविदुत्तमः
एवमुक्तः पाण्डवेन भगवान्केशवस्तदा
अभिगम्य दुराधर्षं प्रव्याहारयदच्युतः
कच्चित्सुखेन रजनी व्युष्टा ते राजसत्तम
विस्पष्टलक्षणा बुद्धिः कच्चिच्चोपस्थिता तव
कच्चिज्ज्ञानानि सर्वाणि प्रतिभान्ति च तेऽनघ
न ग्लायते च हृदयं न च ते व्याकुलं मनः
दाहो मोहः श्रमश्चैव क्लमो ग्लानिस्तथा रुजा
तव प्रसादाद्गोविन्द सद्यो व्यपगतानघ
यच्च भूतं भविष्यच्च भवच्च परमद्युते
तत्सर्वमनुपश्यामि पाणौ फलमिवाहितम्
वेदोक्ताश्चैव ये धर्मा वेदान्तनिहिताश्च ये
तान्सर्वान्संप्रपश्यामि वरदानात्तवाच्युत
शिष्टैश्च धर्मो यः प्रोक्तः स च मे हृदि वर्तते
देशजातिकुलानां च धर्मज्ञोऽस्मि जनार्दन
चतुर्ष्वाश्रमधर्मेषु योऽर्थः स च हृदि स्थितः
राजधर्मांश्च सकलानवगच्छामि केशव
यत्र यत्र च वक्तव्यं तद्वक्ष्यामि जनार्दन
तव प्रसादाद्धि शुभा मनो मे बुद्धिराविशत्
युवेव चास्मि संवृत्तस्त्वदनुध्यानबृंहितः
वक्तुं श्रेयः समर्थोऽस्मि त्वत्प्रसादाज्जनार्दन
स्वयं किमर्थं तु भवाञ्श्रेयो न प्राह पाण्डवम्
किं ते विवक्षितं चात्र तदाशु वद माधव
यशसः श्रेयसश्चैव मूलं मां विद्धि कौरव
मत्तः सर्वेऽभिनिर्वृत्ता भावाः सदसदात्मकाः
शीतांशुश्चन्द्र इत्युक्ते को लोके विस्मयिष्यति
तथैव यशसा पूर्णे मयि को विस्मयिष्यति
आधेयं तु मया भूयो यशस्तव महाद्युते
ततो मे विपुला बुद्धिस्त्वयि भीष्म समाहिता
यावद्धि पृथिवीपाल पृथिवी स्थास्यते ध्रुवा
तावत्तवाक्षया कीर्तिर्लोकाननु चरिष्यति
यच्च त्वं वक्ष्यसे भीष्म पाण्डवायानुपृच्छते
वेदप्रवादा इव ते स्थास्यन्ति वसुधातले
यश्चैतेन प्रमाणेन योक्ष्यत्यात्मानमात्मना
स फलं सर्वपुण्यानां प्रेत्य चानुभविष्यति