Mahabharata

Shanti Parva, Adhyaya 50

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 50, Verse 1

ततो रामस्य तत्कर्म श्रुत्वा राजा युधिष्ठिरः

विस्मयं परमं गत्वा प्रत्युवाच जनार्दनम्

Mahabharata

Shanti Parva, Adhyaya 50, Verse 2

अहो रामस्य वार्ष्णेय शक्रस्येव महात्मनः

विक्रमो येन वसुधा क्रोधान्निःक्षत्रिया कृता

Mahabharata

Shanti Parva, Adhyaya 50, Verse 3

गोभिः समुद्रेण तथा गोलाङ्गूलर्क्षवानरैः

गुप्ता रामभयोद्विग्नाः क्षत्रियाणां कुलोद्वहाः

Mahabharata

Shanti Parva, Adhyaya 50, Verse 4

अहो धन्यो हि लोकोऽयं सभाग्याश्च नरा भुवि

यत्र कर्मेदृशं धर्म्यं द्विजेन कृतमच्युत

Mahabharata

Shanti Parva, Adhyaya 50, Verse 5

तथा यान्तौ तदा तात तावच्युतयुधिष्ठिरौ

जग्मतुर्यत्र गाङ्गेयः शरतल्पगतः प्रभुः

Mahabharata

Shanti Parva, Adhyaya 50, Verse 6

ततस्ते ददृशुर्भीष्मं शरप्रस्तरशायिनम्

स्वरश्मिजालसंवीतं सायंसूर्यमिवानलम्

Mahabharata

Shanti Parva, Adhyaya 50, Verse 7

उपास्यमानं मुनिभिर्देवैरिव शतक्रतुम्

देशे परमधर्मिष्ठे नदीमोघवतीमनु

Mahabharata

Shanti Parva, Adhyaya 50, Verse 8

दूरादेव तमालोक्य कृष्णो राजा च धर्मराट्

चत्वारः पाण्डवाश्चैव ते च शारद्वतादयः

Mahabharata

Shanti Parva, Adhyaya 50, Verse 9

अवस्कन्द्याथ वाहेभ्यः संयम्य प्रचलं मनः

एकीकृत्येन्द्रियग्राममुपतस्थुर्महामुनीन्

Mahabharata

Shanti Parva, Adhyaya 50, Verse 10

अभिवाद्य च गोविन्दः सात्यकिस्ते च कौरवाः

व्यासादींस्तानृषीन्पश्चाद्गाङ्गेयमुपतस्थिरे

Mahabharata

Shanti Parva, Adhyaya 50, Verse 11

तपोवृद्धिं ततः पृष्ट्वा गाङ्गेयं यदुकौरवाः

परिवार्य ततः सर्वे निषेदुः पुरुषर्षभाः

Mahabharata

Shanti Parva, Adhyaya 50, Verse 12

ततो निशम्य गाङ्गेयं शाम्यमानमिवानलम्

किंचिद्दीनमना भीष्ममिति होवाच केशवः

Mahabharata

Shanti Parva, Adhyaya 50, Verse 13

कच्चिज्ज्ञानानि ते राजन्प्रसन्नानि यथा पुरा

कच्चिदव्याकुला चैव बुद्धिस्ते वदतां वर

Mahabharata

Shanti Parva, Adhyaya 50, Verse 14

शराभिघातदुःखात्ते कच्चिद्गात्रं न दूयते

मानसादपि दुःखाद्धि शारीरं बलवत्तरम्

Mahabharata

Shanti Parva, Adhyaya 50, Verse 15

वरदानात्पितुः कामं छन्दमृत्युरसि प्रभो

शंतनोर्धर्मशीलस्य न त्वेतच्छमकारणम्

Mahabharata

Shanti Parva, Adhyaya 50, Verse 16

सुसूक्ष्मोऽपीह देहे वै शल्यो जनयते रुजम्

किं पुनः शरसंघातैश्चितस्य तव भारत

Mahabharata

Shanti Parva, Adhyaya 50, Verse 17

कामं नैतत्तवाख्येयं प्राणिनां प्रभवाप्ययौ

भवान्ह्युपदिशेच्छ्रेयो देवानामपि भारत

Mahabharata

Shanti Parva, Adhyaya 50, Verse 18

यद्धि भूतं भविष्यच्च भवच्च पुरुषर्षभ

सर्वं तज्ज्ञानवृद्धस्य तव पाणाविवाहितम्

Mahabharata

Shanti Parva, Adhyaya 50, Verse 19

संसारश्चैव भूतानां धर्मस्य च फलोदयः

विदितस्ते महाप्राज्ञ त्वं हि ब्रह्ममयो निधिः

Mahabharata

Shanti Parva, Adhyaya 50, Verse 20

त्वां हि राज्ये स्थितं स्फीते समग्राङ्गमरोगिणम्

स्त्रीसहस्रैः परिवृतं पश्यामीहोर्ध्वरेतसम्

Mahabharata

Shanti Parva, Adhyaya 50, Verse 21

ऋते शांतनवाद्भीष्मात्त्रिषु लोकेषु पार्थिव

सत्यसंधान्महावीर्याच्छूराद्धर्मैकतत्परात्

Mahabharata

Shanti Parva, Adhyaya 50, Verse 22

मृत्युमावार्य तरसा शरप्रस्तरशायिनः

निसर्गप्रभवं किंचिन्न च तातानुशुश्रुम

Mahabharata

Shanti Parva, Adhyaya 50, Verse 23

सत्ये तपसि दाने च यज्ञाधिकरणे तथा

धनुर्वेदे च वेदे च नित्यं चैवान्ववेक्षणे

Mahabharata

Shanti Parva, Adhyaya 50, Verse 24

अनृशंसं शुचिं दान्तं सर्वभूतहिते रतम्

महारथं त्वत्सदृशं न कंचिदनुशुश्रुम

Mahabharata

Shanti Parva, Adhyaya 50, Verse 25

त्वं हि देवान्सगन्धर्वान्ससुरासुरराक्षसान्

शक्त एकरथेनैव विजेतुं नात्र संशयः

Mahabharata

Shanti Parva, Adhyaya 50, Verse 26

त्वं हि भीष्म महाबाहो वसूनां वासवोपमः

नित्यं विप्रैः समाख्यातो नवमोऽनवमो गुणैः

Mahabharata

Shanti Parva, Adhyaya 50, Verse 27

अहं हि त्वाभिजानामि यस्त्वं पुरुषसत्तम

त्रिदशेष्वपि विख्यातः स्वशक्त्या सुमहाबलः

Mahabharata

Shanti Parva, Adhyaya 50, Verse 28

मनुष्येषु मनुष्येन्द्र न दृष्टो न च मे श्रुतः

भवतो यो गुणैस्तुल्यः पृथिव्यां पुरुषः क्वचित्

Mahabharata

Shanti Parva, Adhyaya 50, Verse 29

त्वं हि सर्वैर्गुणै राजन्देवानप्यतिरिच्यसे

तपसा हि भवाञ्शक्तः स्रष्टुं लोकांश्चराचरान्

Mahabharata

Shanti Parva, Adhyaya 50, Verse 30

तदस्य तप्यमानस्य ज्ञातीनां संक्षयेण वै

ज्येष्ठस्य पाण्डुपुत्रस्य शोकं भीष्म व्यपानुद