Mahabharata

Shanti Parva, Adhyaya 49

Containing 80 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 49, Verse 1

शृणु कौन्तेय रामस्य मया यावत्परिश्रुतम्

महर्षीणां कथयतां कारणं तस्य जन्म च

Mahabharata

Shanti Parva, Adhyaya 49, Verse 2

यथा च जामदग्न्येन कोटिशः क्षत्रिया हताः

उद्भूता राजवंशेषु ये भूयो भारते हताः

Mahabharata

Shanti Parva, Adhyaya 49, Verse 3

जह्नोरजह्नुस्तनयो बल्लवस्तस्य चात्मजः

कुशिको नाम धर्मज्ञस्तस्य पुत्रो महीपतिः

Mahabharata

Shanti Parva, Adhyaya 49, Verse 4

उग्रं तपः समातिष्ठत्सहस्राक्षसमो भुवि

पुत्रं लभेयमजितं त्रिलोकेश्वरमित्युत

Mahabharata

Shanti Parva, Adhyaya 49, Verse 5

तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः

समर्थः पुत्रजनने स्वयमेवैत्य भारत

Mahabharata

Shanti Parva, Adhyaya 49, Verse 6

पुत्रत्वमगमद्राजंस्तस्य लोकेश्वरेश्वरः

गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः

Mahabharata

Shanti Parva, Adhyaya 49, Verse 7

तस्य कन्याभवद्राजन्नाम्ना सत्यवती प्रभो

तां गाधिः कविपुत्राय सोर्चीकाय ददौ प्रभुः

Mahabharata

Shanti Parva, Adhyaya 49, Verse 8

ततः प्रीतस्तु कौन्तेय भार्गवः कुरुनन्दन

पुत्रार्थे श्रपयामास चरुं गाधेस्तथैव च

Mahabharata

Shanti Parva, Adhyaya 49, Verse 9

आहूय चाह तां भार्यामृचीको भार्गवस्तदा

उपयोज्यश्चरुरयं त्वया मात्राप्ययं तव

Mahabharata

Shanti Parva, Adhyaya 49, Verse 10

तस्या जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः

अजय्यः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः

Mahabharata

Shanti Parva, Adhyaya 49, Verse 11

तवापि पुत्रं कल्याणि धृतिमन्तं तपोन्वितम्

शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति

Mahabharata

Shanti Parva, Adhyaya 49, Verse 12

इत्येवमुक्त्वा तां भार्यामृचीको भृगुनन्दनः

तपस्यभिरतो धीमाञ्जगामारण्यमेव ह

Mahabharata

Shanti Parva, Adhyaya 49, Verse 13

एतस्मिन्नेव काले तु तीर्थयात्रापरो नृपः

गाधिः सदारः संप्राप्त ऋचीकस्याश्रमं प्रति

Mahabharata

Shanti Parva, Adhyaya 49, Verse 14

चरुद्वयं गृहीत्वा तु राजन्सत्यवती तदा

भर्तुर्वाक्यादथाव्यग्रा मात्रे हृष्टा न्यवेदयत्

Mahabharata

Shanti Parva, Adhyaya 49, Verse 15

माता तु तस्याः कौन्तेय दुहित्रे स्वं चरुं ददौ

तस्याश्चरुमथाज्ञातमात्मसंस्थं चकार ह

Mahabharata

Shanti Parva, Adhyaya 49, Verse 16

अथ सत्यवती गर्भं क्षत्रियान्तकरं तदा

धारयामास दीप्तेन वपुषा घोरदर्शनम्

Mahabharata

Shanti Parva, Adhyaya 49, Verse 17

तामृचीकस्तदा दृष्ट्वा ध्यानयोगेन वै ततः

अब्रवीद्राजशार्दूल स्वां भार्यां वरवर्णिनीम्

Mahabharata

Shanti Parva, Adhyaya 49, Verse 18

मात्रासि व्यंसिता भद्रे चरुव्यत्यासहेतुना

जनिष्यते हि ते पुत्रः क्रूरकर्मा महाबलः

Mahabharata

Shanti Parva, Adhyaya 49, Verse 19

जनिष्यते हि ते भ्राता ब्रह्मभूतस्तपोधनः

विश्वं हि ब्रह्म तपसा मया तत्र समर्पितम्

Mahabharata

Shanti Parva, Adhyaya 49, Verse 20

सैवमुक्ता महाभागा भर्त्रा सत्यवती तदा

पपात शिरसा तस्मै वेपन्ती चाब्रवीदिदम्

Mahabharata

Shanti Parva, Adhyaya 49, Verse 21

नार्होऽसि भगवन्नद्य वक्तुमेवंविधं वचः

ब्राह्मणापसदं पुत्रं प्राप्स्यसीति महामुने

Mahabharata

Shanti Parva, Adhyaya 49, Verse 22

नैष संकल्पितः कामो मया भद्रे तथा त्वयि

उग्रकर्मा भवेत्पुत्रश्चरुर्माता च कारणम्

Mahabharata

Shanti Parva, Adhyaya 49, Verse 23

इच्छँल्लोकानपि मुने सृजेथाः किं पुनर्मम

शमात्मकमृजुं पुत्रं लभेयं जपतां वर

Mahabharata

Shanti Parva, Adhyaya 49, Verse 24

नोक्तपूर्वं मया भद्रे स्वैरेष्वप्यनृतं वचः

किमुताग्निं समाधाय मन्त्रवच्चरुसाधने

Mahabharata

Shanti Parva, Adhyaya 49, Verse 25

काममेवं भवेत्पौत्रो ममेह तव चैव ह

शमात्मकमृजुं पुत्रं लभेयं जपतां वर

Mahabharata

Shanti Parva, Adhyaya 49, Verse 26

पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि

यथा त्वयोक्तं तु वचस्तथा भद्रे भविष्यति

Mahabharata

Shanti Parva, Adhyaya 49, Verse 27

ततः सत्यवती पुत्रं जनयामास भार्गवम्

तपस्यभिरतं शान्तं जमदग्निं शमात्मकम्

Mahabharata

Shanti Parva, Adhyaya 49, Verse 28

विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः

प्राप ब्रह्मर्षिसमितं विश्वेन ब्रह्मणा युतम्

Mahabharata

Shanti Parva, Adhyaya 49, Verse 29

आर्चीको जनयामास जमदग्निः सुदारुणम्

सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदे च पारगम्

रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम्

Mahabharata

Shanti Parva, Adhyaya 49, Verse 30

एतस्मिन्नेव काले तु कृतवीर्यात्मजो बली

अर्जुनो नाम तेजस्वी क्षत्रियो हैहयान्वयः