Shanti Parva, Adhyaya 48, Verse 1
ततः स च हृषीकेशः स च राजा युधिष्ठिरः
कृपादयश्च ते सर्वे चत्वारः पाण्डवाश्च ह
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः स च हृषीकेशः स च राजा युधिष्ठिरः
कृपादयश्च ते सर्वे चत्वारः पाण्डवाश्च ह
रथैस्ते नगराकारैः पताकाध्वजशोभितैः
ययुराशु कुरुक्षेत्रं वाजिभिः शीघ्रगामिभिः
तेऽवतीर्य कुरुक्षेत्रं केशमज्जास्थिसंकुलम्
देहन्यासः कृतो यत्र क्षत्रियैस्तैर्महात्मभिः
गजाश्वदेहास्थिचयैः पर्वतैरिव संचितम्
नरशीर्षकपालैश्च शङ्खैरिव समाचितम्
चितासहस्रैर्निचितं वर्मशस्त्रसमाकुलम्
आपानभूमिं कालस्य तदा भुक्तोज्झितामिव
भूतसंघानुचरितं रक्षोगणनिषेवितम्
पश्यन्तस्ते कुरुक्षेत्रं ययुराशु महारथाः
गच्छन्नेव महाबाहुः सर्वयादवनन्दनः
युधिष्ठिराय प्रोवाच जामदग्न्यस्य विक्रमम्
अमी रामह्रदाः पञ्च दृश्यन्ते पार्थ दूरतः
येषु संतर्पयामास पूर्वान्क्षत्रियशोणितैः
त्रिःसप्तकृत्वो वसुधां कृत्वा निःक्षत्रियां प्रभुः
इहेदानीं ततो रामः कर्मणो विरराम ह
त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया तदा
रामेणेति यदात्थ त्वमत्र मे संशयो महान्
क्षत्रबीजं यदा दग्धं रामेण यदुपुंगव
कथं भूयः समुत्पत्तिः क्षत्रस्यामितविक्रम
महात्मना भगवता रामेण यदुपुंगव
कथमुत्सादितं क्षत्रं कथं वृद्धिं पुनर्गतम्
महाभारतयुद्धे हि कोटिशः क्षत्रिया हताः
तथाभूच्च मही कीर्णा क्षत्रियैर्वदतां वर
एवं मे छिन्धि वार्ष्णेय संशयं तार्क्ष्यकेतन
आगमो हि परः कृष्ण त्वत्तो नो वासवानुज
ततो व्रजन्नेव गदाग्रजः प्रभुः; शशंस तस्मै निखिलेन तत्त्वतः
युधिष्ठिरायाप्रतिमौजसे तदा; यथाभवत्क्षत्रियसंकुला मही