Mahabharata

Shanti Parva, Adhyaya 47

Containing 72 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 47, Verse 1

शरतल्पे शयानस्तु भरतानां पितामहः

कथमुत्सृष्टवान्देहं कं च योगमधारयत्

Mahabharata

Shanti Parva, Adhyaya 47, Verse 2

शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः

भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः

Mahabharata

Shanti Parva, Adhyaya 47, Verse 3

निवृत्तमात्रे त्वयन उत्तरे वै दिवाकरे

समावेशयदात्मानमात्मन्येव समाहितः

Mahabharata

Shanti Parva, Adhyaya 47, Verse 4

विकीर्णांशुरिवादित्यो भीष्मः शरशतैश्चितः

शिश्ये परमया लक्ष्म्या वृतो ब्राह्मणसत्तमैः

Mahabharata

Shanti Parva, Adhyaya 47, Verse 5

व्यासेन वेदश्रवसा नारदेन सुरर्षिणा

देवस्थानेन वात्स्येन तथाश्मकसुमन्तुना

Mahabharata

Shanti Parva, Adhyaya 47, Verse 6

एतैश्चान्यैर्मुनिगणैर्महाभागैर्महात्मभिः

श्रद्धादमपुरस्कारैर्वृतश्चन्द्र इव ग्रहैः

Mahabharata

Shanti Parva, Adhyaya 47, Verse 7

भीष्मस्तु पुरुषव्याघ्रः कर्मणा मनसा गिरा

शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः स्थितः

Mahabharata

Shanti Parva, Adhyaya 47, Verse 8

स्वरेण पुष्टनादेन तुष्टाव मधुसूदनम्

योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम्

Mahabharata

Shanti Parva, Adhyaya 47, Verse 9

कृताञ्जलिः शुचिर्भूत्वा वाग्विदां प्रवरः प्रभुम्

भीष्मः परमधर्मात्मा वासुदेवमथास्तुवत्

Mahabharata

Shanti Parva, Adhyaya 47, Verse 10

आरिराधयिषुः कृष्णं वाचं जिगमिषामि याम्

तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः

Mahabharata

Shanti Parva, Adhyaya 47, Verse 11

शुचिः शुचिषदं हंसं तत्परः परमेष्ठिनम्

युक्त्वा सर्वात्मनात्मानं तं प्रपद्ये प्रजापतिम्

Mahabharata

Shanti Parva, Adhyaya 47, Verse 12

यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च

गुणभूतानि भूतेशे सूत्रे मणिगणा इव

Mahabharata

Shanti Parva, Adhyaya 47, Verse 13

यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति

सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि

Mahabharata

Shanti Parva, Adhyaya 47, Verse 14

हरिं सहस्रशिरसं सहस्रचरणेक्षणम्

प्राहुर्नारायणं देवं यं विश्वस्य परायणम्

Mahabharata

Shanti Parva, Adhyaya 47, Verse 15

अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम्

गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि

Mahabharata

Shanti Parva, Adhyaya 47, Verse 16

यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च

गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु

Mahabharata

Shanti Parva, Adhyaya 47, Verse 17

चतुर्भिश्चतुरात्मानं सत्त्वस्थं सात्वतां पतिम्

यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः

Mahabharata

Shanti Parva, Adhyaya 47, Verse 18

यं देवं देवकी देवी वसुदेवादजीजनत्

भौमस्य ब्रह्मणो गुप्त्यै दीप्तमग्निमिवारणिः

Mahabharata

Shanti Parva, Adhyaya 47, Verse 19

यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम्

इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मन्यवस्थितम्

Mahabharata

Shanti Parva, Adhyaya 47, Verse 20

पुराणे पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु

क्षये संकर्षणः प्रोक्तस्तमुपास्यमुपास्महे

Mahabharata

Shanti Parva, Adhyaya 47, Verse 21

अतिवाय्विन्द्रकर्माणमतिसूर्याग्नितेजसम्

अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम्

Mahabharata

Shanti Parva, Adhyaya 47, Verse 22

यं वै विश्वस्य कर्तारं जगतस्तस्थुषां पतिम्

वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम्

Mahabharata

Shanti Parva, Adhyaya 47, Verse 23

हिरण्यवर्णं यं गर्भमदितिर्दैत्यनाशनम्

एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः

Mahabharata

Shanti Parva, Adhyaya 47, Verse 24

शुक्ले देवान्पितॄन्कृष्णे तर्पयत्यमृतेन यः

यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः

Mahabharata

Shanti Parva, Adhyaya 47, Verse 25

महतस्तमसः पारे पुरुषं ज्वलनद्युतिम्

यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः

Mahabharata

Shanti Parva, Adhyaya 47, Verse 26

यं बृहन्तं बृहत्युक्थे यमग्नौ यं महाध्वरे

यं विप्रसंघा गायन्ति तस्मै वेदात्मने नमः

Mahabharata

Shanti Parva, Adhyaya 47, Verse 27

ऋग्यजुःसामधामानं दशार्धहविराकृतिम्

यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः

Mahabharata

Shanti Parva, Adhyaya 47, Verse 28

यः सुपर्णो यजुर्नाम छन्दोगात्रस्त्रिवृच्छिराः

रथंतरबृहत्यक्षस्तस्मै स्तोत्रात्मने नमः

Mahabharata

Shanti Parva, Adhyaya 47, Verse 29

यः सहस्रसवे सत्रे जज्ञे विश्वसृजामृषिः

हिरण्यवर्णः शकुनिस्तस्मै हंसात्मने नमः

Mahabharata

Shanti Parva, Adhyaya 47, Verse 30

पदाङ्गं संधिपर्वाणं स्वरव्यञ्जनलक्षणम्

यमाहुरक्षरं नित्यं तस्मै वागात्मने नमः