Mahabharata

Shanti Parva, Adhyaya 46

Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 46, Verse 1

किमिदं परमाश्चर्यं ध्यायस्यमितविक्रम

कच्चिल्लोकत्रयस्यास्य स्वस्ति लोकपरायण

Mahabharata

Shanti Parva, Adhyaya 46, Verse 2

चतुर्थं ध्यानमार्गं त्वमालम्ब्य पुरुषोत्तम

अपक्रान्तो यतो देव तेन मे विस्मितं मनः

Mahabharata

Shanti Parva, Adhyaya 46, Verse 3

निगृहीतो हि वायुस्ते पञ्चकर्मा शरीरगः

इन्द्रियाणि च सर्वाणि मनसि स्थापितानि ते

Mahabharata

Shanti Parva, Adhyaya 46, Verse 4

इन्द्रियाणि मनश्चैव बुद्धौ संवेशितानि ते

सर्वश्चैव गणो देव क्षेत्रज्ञे ते निवेशितः

Mahabharata

Shanti Parva, Adhyaya 46, Verse 5

नेङ्गन्ति तव रोमाणि स्थिरा बुद्धिस्तथा मनः

स्थाणुकुड्यशिलाभूतो निरीहश्चासि माधव

Mahabharata

Shanti Parva, Adhyaya 46, Verse 6

यथा दीपो निवातस्थो निरिङ्गो ज्वलतेऽच्युत

तथासि भगवन्देव निश्चलो दृढनिश्चयः

Mahabharata

Shanti Parva, Adhyaya 46, Verse 7

यदि श्रोतुमिहार्हामि न रहस्यं च ते यदि

छिन्धि मे संशयं देव प्रपन्नायाभियाचते

Mahabharata

Shanti Parva, Adhyaya 46, Verse 8

त्वं हि कर्ता विकर्ता च त्वं क्षरं चाक्षरं च हि

अनादिनिधनश्चाद्यस्त्वमेव पुरुषोत्तम

Mahabharata

Shanti Parva, Adhyaya 46, Verse 9

त्वत्प्रपन्नाय भक्ताय शिरसा प्रणताय च

ध्यानस्यास्य यथातत्त्वं ब्रूहि धर्मभृतां वर

Mahabharata

Shanti Parva, Adhyaya 46, Verse 10

ततः स्वगोचरे न्यस्य मनो बुद्धीन्द्रियाणि च

स्मितपूर्वमुवाचेदं भगवान्वासवानुजः

Mahabharata

Shanti Parva, Adhyaya 46, Verse 11

शरतल्पगतो भीष्मः शाम्यन्निव हुताशनः

मां ध्याति पुरुषव्याघ्रस्ततो मे तद्गतं मनः

Mahabharata

Shanti Parva, Adhyaya 46, Verse 12

यस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः

न सहेद्देवराजोऽपि तमस्मि मनसा गतः

Mahabharata

Shanti Parva, Adhyaya 46, Verse 13

येनाभिद्रुत्य तरसा समस्तं राजमण्डलम्

ऊढास्तिस्रः पुरा कन्यास्तमस्मि मनसा गतः

Mahabharata

Shanti Parva, Adhyaya 46, Verse 14

त्रयोविंशतिरात्रं यो योधयामास भार्गवम्

न च रामेण निस्तीर्णस्तमस्मि मनसा गतः

Mahabharata

Shanti Parva, Adhyaya 46, Verse 15

यं गङ्गा गर्भविधिना धारयामास पार्थिवम्

वसिष्ठशिष्यं तं तात मनसास्मि गतो नृप

Mahabharata

Shanti Parva, Adhyaya 46, Verse 16

दिव्यास्त्राणि महातेजा यो धारयति बुद्धिमान्

साङ्गांश्च चतुरो वेदांस्तमस्मि मनसा गतः

Mahabharata

Shanti Parva, Adhyaya 46, Verse 17

रामस्य दयितं शिष्यं जामदग्न्यस्य पाण्डव

आधारं सर्वविद्यानां तमस्मि मनसा गतः

Mahabharata

Shanti Parva, Adhyaya 46, Verse 18

एकीकृत्येन्द्रियग्रामं मनः संयम्य मेधया

शरणं मामुपागच्छत्ततो मे तद्गतं मनः

Mahabharata

Shanti Parva, Adhyaya 46, Verse 19

स हि भूतं च भव्यं च भवच्च पुरुषर्षभ

वेत्ति धर्मभृतां श्रेष्ठस्ततो मे तद्गतं मनः

Mahabharata

Shanti Parva, Adhyaya 46, Verse 20

तस्मिन्हि पुरुषव्याघ्रे कर्मभिः स्वैर्दिवं गते

भविष्यति मही पार्थ नष्टचन्द्रेव शर्वरी

Mahabharata

Shanti Parva, Adhyaya 46, Verse 21

तद्युधिष्ठिर गाङ्गेयं भीष्मं भीमपराक्रमम्

अभिगम्योपसंगृह्य पृच्छ यत्ते मनोगतम्

Mahabharata

Shanti Parva, Adhyaya 46, Verse 22

चातुर्वेद्यं चातुर्होत्रं चातुराश्रम्यमेव च

चातुर्वर्ण्यस्य धर्मं च पृच्छैनं पृथिवीपते

Mahabharata

Shanti Parva, Adhyaya 46, Verse 23

तस्मिन्नस्तमिते भीष्मे कौरवाणां धुरंधरे

ज्ञानान्यल्पीभविष्यन्ति तस्मात्त्वां चोदयाम्यहम्

Mahabharata

Shanti Parva, Adhyaya 46, Verse 24

तच्छ्रुत्वा वासुदेवस्य तथ्यं वचनमुत्तमम्

साश्रुकण्ठः स धर्मज्ञो जनार्दनमुवाच ह

Mahabharata

Shanti Parva, Adhyaya 46, Verse 25

यद्भवानाह भीष्मस्य प्रभावं प्रति माधव

तथा तन्नात्र संदेहो विद्यते मम मानद

Mahabharata

Shanti Parva, Adhyaya 46, Verse 26

महाभाग्यं हि भीष्मस्य प्रभावश्च महात्मनः

श्रुतं मया कथयतां ब्राह्मणानां महात्मनाम्

Mahabharata

Shanti Parva, Adhyaya 46, Verse 27

भवांश्च कर्ता लोकानां यद्ब्रवीत्यरिसूदन

तथा तदनभिध्येयं वाक्यं यादवनन्दन

Mahabharata

Shanti Parva, Adhyaya 46, Verse 28

यतस्त्वनुग्रहकृता बुद्धिस्ते मयि माधव

त्वामग्रतः पुरस्कृत्य भीष्मं पश्यामहे वयम्

Mahabharata

Shanti Parva, Adhyaya 46, Verse 29

आवृत्ते भगवत्यर्के स हि लोकान्गमिष्यति

त्वद्दर्शनं महाबाहो तस्मादर्हति कौरवः

Mahabharata

Shanti Parva, Adhyaya 46, Verse 30

तव ह्याद्यस्य देवस्य क्षरस्यैवाक्षरस्य च

दर्शनं तस्य लाभः स्यात्त्वं हि ब्रह्ममयो निधिः