Shanti Parva, Adhyaya 45, Verse 1
प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः
यदन्यदकरोद्विप्र तन्मे वक्तुमिहार्हसि
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः
यदन्यदकरोद्विप्र तन्मे वक्तुमिहार्हसि
भगवान्वा हृषीकेशस्त्रैलोक्यस्य परो गुरुः
ऋषे यदकरोद्वीरस्तच्च व्याख्यातुमर्हसि
शृणु राजेन्द्र तत्त्वेन कीर्त्यमानं मयानघ
वासुदेवं पुरस्कृत्य यदकुर्वत पाण्डवाः
प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः
चातुर्वर्ण्यं यथायोगं स्वे स्वे धर्मे न्यवेशयत्
ब्राह्मणानां सहस्रं च स्नातकानां महात्मनाम्
सहस्रनिष्कमेकैकं वाचयामास पाण्डवः
तथानुजीविनो भृत्यान्संश्रितानतिथीनपि
कामैः संतर्पयामास कृपणांस्तर्ककानपि
पुरोहिताय धौम्याय प्रादादयुतशः स गाः
धनं सुवर्णं रजतं वासांसि विविधानि च
कृपाय च महाराज गुरुवृत्तिमवर्तत
विदुराय च धर्मात्मा पूजां चक्रे यतव्रतः
भक्षान्नपानैर्विविधैर्वासोभिः शयनासनैः
सर्वान्संतोषयामास संश्रितान्ददतां वरः
लब्धप्रशमनं कृत्वा स राजा राजसत्तम
युयुत्सोर्धार्तराष्ट्रस्य पूजां चक्रे महायशाः
धृतराष्ट्राय तद्राज्यं गान्धार्यै विदुराय च
निवेद्य स्वस्थवद्राजन्नास्ते राजा युधिष्ठिरः
तथा सर्वं स नगरं प्रसाद्य जनमेजय
वासुदेवं महात्मानमभ्यगच्छत्कृताञ्जलिः
ततो महति पर्यङ्के मणिकाञ्चनभूषिते
ददर्श कृष्णमासीनं नीलं मेराविवाम्बुदम्
जाज्वल्यमानं वपुषा दिव्याभरणभूषितम्
पीतकौशेयसंवीतं हेम्नीवोपहितं मणिम्
कौस्तुभेन उरःस्थेन मणिनाभिविराजितम्
उद्यतेवोदयं शैलं सूर्येणाप्तकिरीटिनम्
नौपम्यं विद्यते यस्य त्रिषु लोकेषु किंचन
सोऽभिगम्य महात्मानं विष्णुं पुरुषविग्रहम्
उवाच मधुराभाषः स्मितपूर्वमिदं तदा
सुखेन ते निशा कच्चिद्व्युष्टा बुद्धिमतां वर
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत
तव ह्याश्रित्य तां देवीं बुद्धिं बुद्धिमतां वर
वयं राज्यमनुप्राप्ताः पृथिवी च वशे स्थिता
भवत्प्रसादाद्भगवंस्त्रिलोकगतिविक्रम
जयः प्राप्तो यशश्चाग्र्यं न च धर्माच्च्युता वयम्
तं तथा भाषमाणं तु धर्मराजं युधिष्ठिरम्
नोवाच भगवान्किंचिद्ध्यानमेवान्वपद्यत