Mahabharata

Shanti Parva, Adhyaya 44

Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 44, Verse 1

ततो विसर्जयामास सर्वाः प्रकृतयो नृपः

विविशुश्चाभ्यनुज्ञाता यथास्वानि गृहाणि च

Mahabharata

Shanti Parva, Adhyaya 44, Verse 2

ततो युधिष्ठिरो राजा भीमं भीमपराक्रमम्

सान्त्वयन्नब्रवीद्धीमानर्जुनं यमजौ तथा

Mahabharata

Shanti Parva, Adhyaya 44, Verse 3

शत्रुभिर्विविधैः शस्त्रैः कृत्तदेहा महारणे

श्रान्ता भवन्तः सुभृशं तापिताः शोकमन्युभिः

Mahabharata

Shanti Parva, Adhyaya 44, Verse 4

अरण्ये दुःखवसतीर्मत्कृते पुरुषोत्तमाः

भवद्भिरनुभूताश्च यथा कुपुरुषैस्तथा

Mahabharata

Shanti Parva, Adhyaya 44, Verse 5

यथासुखं यथाजोषं जयोऽयमनुभूयताम्

विश्रान्ताँल्लब्धविज्ञानाञ्श्वः समेतास्मि वः पुनः

Mahabharata

Shanti Parva, Adhyaya 44, Verse 6

ततो दुर्योधनगृहं प्रासादैरुपशोभितम्

बहुरत्नसमाकीर्णं दासीदाससमाकुलम्

Mahabharata

Shanti Parva, Adhyaya 44, Verse 7

धृतराष्ट्राभ्यनुज्ञातं भ्रात्रा दत्तं वृकोदरः

प्रतिपेदे महाबाहुर्मन्दरं मघवानिव

Mahabharata

Shanti Parva, Adhyaya 44, Verse 8

यथा दुर्योधनगृहं तथा दुःशासनस्य च

प्रासादमालासंयुक्तं हेमतोरणभूषितम्

Mahabharata

Shanti Parva, Adhyaya 44, Verse 9

दासीदाससुसंपूर्णं प्रभूतधनधान्यवत्

प्रतिपेदे महाबाहुरर्जुनो राजशासनात्

Mahabharata

Shanti Parva, Adhyaya 44, Verse 10

दुर्मर्षणस्य भवनं दुःशासनगृहाद्वरम्

कुबेरभवनप्रख्यं मणिहेमविभूषितम्

Mahabharata

Shanti Parva, Adhyaya 44, Verse 11

नकुलाय वरार्हाय कर्शिताय महावने

ददौ प्रीतो महाराज धर्मराजो युधिष्ठिरः

Mahabharata

Shanti Parva, Adhyaya 44, Verse 12

दुर्मुखस्य च वेश्माग्र्यं श्रीमत्कनकभूषितम्

पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसंकुलम्

Mahabharata

Shanti Parva, Adhyaya 44, Verse 13

प्रददौ सहदेवाय सततं प्रियकारिणे

मुमुदे तच्च लब्ध्वा स कैलासं धनदो यथा

Mahabharata

Shanti Parva, Adhyaya 44, Verse 14

युयुत्सुर्विदुरश्चैव संजयश्च महाद्युतिः

सुधर्मा चैव धौम्यश्च यथास्वं जग्मुरालयान्

Mahabharata

Shanti Parva, Adhyaya 44, Verse 15

सह सात्यकिना शौरिरर्जुनस्य निवेशनम्

विवेश पुरुषव्याघ्रो व्याघ्रो गिरिगुहामिव

Mahabharata

Shanti Parva, Adhyaya 44, Verse 16

तत्र भक्षान्नपानैस्ते समुपेताः सुखोषिताः

सुखप्रबुद्धा राजानमुपतस्थुर्युधिष्ठिरम्