Shanti Parva, Adhyaya 43, Verse 1
अभिषिक्तो महाप्राज्ञो राज्यं प्राप्य युधिष्ठिरः
दाशार्हं पुण्डरीकाक्षमुवाच प्राञ्जलिः शुचिः
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
अभिषिक्तो महाप्राज्ञो राज्यं प्राप्य युधिष्ठिरः
दाशार्हं पुण्डरीकाक्षमुवाच प्राञ्जलिः शुचिः
तव कृष्ण प्रसादेन नयेन च बलेन च
बुद्ध्या च यदुशार्दूल तथा विक्रमणेन च
पुनः प्राप्तमिदं राज्यं पितृपैतामहं मया
नमस्ते पुण्डरीकाक्ष पुनः पुनररिंदम
त्वामेकमाहुः पुरुषं त्वामाहुः सात्वतां पतिम्
नामभिस्त्वां बहुविधैः स्तुवन्ति परमर्षयः
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव
विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम
अदित्याः सप्तरात्रं तु पुराणे गर्भतां गतः
पृश्निगर्भस्त्वमेवैकस्त्रियुगं त्वां वदन्त्यपि
शुचिश्रवा हृषीकेशो घृतार्चिर्हंस उच्यसे
त्रिचक्षुः शंभुरेकस्त्वं विभुर्दामोदरोऽपि च
वराहोऽग्निर्बृहद्भानुर्वृषणस्तार्क्ष्यलक्षणः
अनीकसाहः पुरुषः शिपिविष्ट उरुक्रमः
वाचिष्ठ उग्रः सेनानीः सत्यो वाजसनिर्गुहः
अच्युतश्च्यावनोऽरीणां संकृतिर्विकृतिर्वृषः
कृतवर्त्मा त्वमेवाद्रिर्वृषगर्भो वृषाकपिः
सिन्धुक्षिदूर्मिस्त्रिककुत्त्रिधामा त्रिवृदच्युतः
सम्राड्विराट्स्वराट्चैव सुरराड्धर्मदो भवः
विभुर्भूरभिभूः कृष्णः कृष्णवर्त्मा त्वमेव च
स्विष्टकृद्भिषगावर्तः कपिलस्त्वं च वामनः
यज्ञो ध्रुवः पतंगश्च जयत्सेनस्त्वमुच्यसे
शिखण्डी नहुषो बभ्रुर्दिवस्पृक्त्वं पुनर्वसुः
सुबभ्रुरुक्षो रुक्मस्त्वं सुषेणो दुन्दुभिस्तथा
गभस्तिनेमिः श्रीपद्मं पुष्करं पुष्पधारणः
ऋभुर्विभुः सर्वसूक्ष्मस्त्वं सावित्रं च पठ्यसे
अम्भोनिधिस्त्वं ब्रह्मा त्वं पवित्रं धाम धन्व च
हिरण्यगर्भं त्वामाहुः स्वधा स्वाहा च केशव
योनिस्त्वमस्य प्रलयश्च कृष्ण; त्वमेवेदं सृजसि विश्वमग्रे
विश्वं चेदं त्वद्वशे विश्वयोने; नमोऽस्तु ते शार्ङ्गचक्रासिपाणे
एवं स्तुतो धर्मराजेन कृष्णः; सभामध्ये प्रीतिमान्पुष्कराक्षः
तमभ्यनन्दद्भारतं पुष्कलाभि;र्वाग्भिर्ज्येष्ठं पाण्डवं यादवाग्र्यः