Shanti Parva, Adhyaya 42, Verse 1
ततो युधिष्ठिरो राजा ज्ञातीनां ये हता मृधे
श्राद्धानि कारयामास तेषां पृथगुदारधीः
Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो युधिष्ठिरो राजा ज्ञातीनां ये हता मृधे
श्राद्धानि कारयामास तेषां पृथगुदारधीः
धृतराष्ट्रो ददौ राजा पुत्राणामौर्ध्वदेहिकम्
सर्वकामगुणोपेतमन्नं गाश्च धनानि च
रत्नानि च विचित्राणि महार्हाणि महायशाः
युधिष्ठिरस्तु कर्णस्य द्रोणस्य च महात्मनः
धृष्टद्युम्नाभिमन्युभ्यां हैडिम्बस्य च रक्षसः
विराटप्रभृतीनां च सुहृदामुपकारिणाम्
द्रुपदद्रौपदेयानां द्रौपद्या सहितो ददौ
ब्राह्मणानां सहस्राणि पृथगेकैकमुद्दिशन्
धनैश्च वस्त्रै रत्नैश्च गोभिश्च समतर्पयत्
ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः
उद्दिश्योद्दिश्य तेषां च चक्रे राजौर्ध्वदैहिकम्
सभाः प्रपाश्च विविधास्तडागानि च पाण्डवः
सुहृदां कारयामास सर्वेषामौर्ध्वदैहिकम्
स तेषामनृणो भूत्वा गत्वा लोकेष्ववाच्यताम्
कृतकृत्योऽभवद्राजा प्रजा धर्मेण पालयन्
धृतराष्ट्रं यथापूर्वं गान्धारीं विदुरं तथा
सर्वांश्च कौरवामात्यान्भृत्यांश्च समपूजयत्
याश्च तत्र स्त्रियः काश्चिद्धतवीरा हतात्मजाः
सर्वास्ताः कौरवो राजा संपूज्यापालयद्घृणी
दीनान्धकृपणानां च गृहाच्छादनभोजनैः
आनृशंस्यपरो राजा चकारानुग्रहं प्रभुः
स विजित्य महीं कृत्स्नामानृण्यं प्राप्य वैरिषु
निःसपत्नः सुखी राजा विजहार युधिष्ठिरः