Mahabharata

Shanti Parva, Adhyaya 42

Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 42, Verse 1

ततो युधिष्ठिरो राजा ज्ञातीनां ये हता मृधे

श्राद्धानि कारयामास तेषां पृथगुदारधीः

Mahabharata

Shanti Parva, Adhyaya 42, Verse 2

धृतराष्ट्रो ददौ राजा पुत्राणामौर्ध्वदेहिकम्

सर्वकामगुणोपेतमन्नं गाश्च धनानि च

रत्नानि च विचित्राणि महार्हाणि महायशाः

Mahabharata

Shanti Parva, Adhyaya 42, Verse 3

युधिष्ठिरस्तु कर्णस्य द्रोणस्य च महात्मनः

धृष्टद्युम्नाभिमन्युभ्यां हैडिम्बस्य च रक्षसः

Mahabharata

Shanti Parva, Adhyaya 42, Verse 4

विराटप्रभृतीनां च सुहृदामुपकारिणाम्

द्रुपदद्रौपदेयानां द्रौपद्या सहितो ददौ

Mahabharata

Shanti Parva, Adhyaya 42, Verse 5

ब्राह्मणानां सहस्राणि पृथगेकैकमुद्दिशन्

धनैश्च वस्त्रै रत्नैश्च गोभिश्च समतर्पयत्

Mahabharata

Shanti Parva, Adhyaya 42, Verse 6

ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः

उद्दिश्योद्दिश्य तेषां च चक्रे राजौर्ध्वदैहिकम्

Mahabharata

Shanti Parva, Adhyaya 42, Verse 7

सभाः प्रपाश्च विविधास्तडागानि च पाण्डवः

सुहृदां कारयामास सर्वेषामौर्ध्वदैहिकम्

Mahabharata

Shanti Parva, Adhyaya 42, Verse 8

स तेषामनृणो भूत्वा गत्वा लोकेष्ववाच्यताम्

कृतकृत्योऽभवद्राजा प्रजा धर्मेण पालयन्

Mahabharata

Shanti Parva, Adhyaya 42, Verse 9

धृतराष्ट्रं यथापूर्वं गान्धारीं विदुरं तथा

सर्वांश्च कौरवामात्यान्भृत्यांश्च समपूजयत्

Mahabharata

Shanti Parva, Adhyaya 42, Verse 10

याश्च तत्र स्त्रियः काश्चिद्धतवीरा हतात्मजाः

सर्वास्ताः कौरवो राजा संपूज्यापालयद्घृणी

Mahabharata

Shanti Parva, Adhyaya 42, Verse 11

दीनान्धकृपणानां च गृहाच्छादनभोजनैः

आनृशंस्यपरो राजा चकारानुग्रहं प्रभुः

Mahabharata

Shanti Parva, Adhyaya 42, Verse 12

स विजित्य महीं कृत्स्नामानृण्यं प्राप्य वैरिषु

निःसपत्नः सुखी राजा विजहार युधिष्ठिरः