Mahabharata

Shanti Parva, Adhyaya 40

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 40, Verse 1

ततः कुन्तीसुतो राजा गतमन्युर्गतज्वरः

काञ्चने प्राङ्मुखो हृष्टो न्यषीदत्परमासने

Mahabharata

Shanti Parva, Adhyaya 40, Verse 2

तमेवाभिमुखौ पीठे सेव्यास्तरणसंवृते

सात्यकिर्वासुदेवश्च निषीदतुररिंदमौ

Mahabharata

Shanti Parva, Adhyaya 40, Verse 3

मध्ये कृत्वा तु राजानं भीमसेनार्जुनावुभौ

निषीदतुर्महात्मानौ श्लक्ष्णयोर्मणिपीठयोः

Mahabharata

Shanti Parva, Adhyaya 40, Verse 4

दान्ते शय्यासने शुभ्रे जाम्बूनदविभूषिते

पृथापि सहदेवेन सहास्ते नकुलेन च

Mahabharata

Shanti Parva, Adhyaya 40, Verse 5

सुधर्मा विदुरो धौम्यो धृतराष्ट्रश्च कौरवः

निषेदुर्ज्वलनाकारेष्वासनेषु पृथक्पृथक्

Mahabharata

Shanti Parva, Adhyaya 40, Verse 6

युयुत्सुः संजयश्चैव गान्धारी च यशस्विनी

धृतराष्ट्रो यतो राजा ततः सर्व उपाविशन्

Mahabharata

Shanti Parva, Adhyaya 40, Verse 7

तत्रोपविष्टो धर्मात्मा श्वेताः सुमनसोऽस्पृशत्

स्वस्तिकानक्षतान्भूमिं सुवर्णं रजतं मणीन्

Mahabharata

Shanti Parva, Adhyaya 40, Verse 8

ततः प्रकृतयः सर्वाः पुरस्कृत्य पुरोहितम्

ददृशुर्धर्मराजानमादाय बहु मङ्गलम्

Mahabharata

Shanti Parva, Adhyaya 40, Verse 9

पृथिवीं च सुवर्णं च रत्नानि विविधानि च

आभिषेचनिकं भाण्डं सर्वसंभारसंभृतम्

Mahabharata

Shanti Parva, Adhyaya 40, Verse 10

काञ्चनौदुम्बरास्तत्र राजताः पृथिवीमयाः

पूर्णकुम्भाः सुमनसो लाजा बर्हींषि गोरसाः

Mahabharata

Shanti Parva, Adhyaya 40, Verse 11

शमीपलाशपुंनागाः समिधो मधुसर्पिषी

स्रुव औदुम्बरः शङ्खास्तथा हेमविभूषिताः

Mahabharata

Shanti Parva, Adhyaya 40, Verse 12

दाशार्हेणाभ्यनुज्ञातस्तत्र धौम्यः पुरोहितः

प्रागुदक्प्रवणां वेदीं लक्षणेनोपलिप्य ह

Mahabharata

Shanti Parva, Adhyaya 40, Verse 13

व्याघ्रचर्मोत्तरे श्लक्ष्णे सर्वतोभद्र आसने

दृढपादप्रतिष्ठाने हुताशनसमत्विषि

Mahabharata

Shanti Parva, Adhyaya 40, Verse 14

उपवेश्य महात्मानं कृष्णां च द्रुपदात्मजाम्

जुहाव पावकं धीमान्विधिमन्त्रपुरस्कृतम्

Mahabharata

Shanti Parva, Adhyaya 40, Verse 15

अभ्यषिञ्चत्पतिं पृथ्व्याः कुन्तीपुत्रं युधिष्ठिरम्

धृतराष्ट्रश्च राजर्षिः सर्वाः प्रकृतयस्तथा

Mahabharata

Shanti Parva, Adhyaya 40, Verse 16

ततोऽनुवादयामासुः पणवानकदुन्दुभीः

धर्मराजोऽपि तत्सर्वं प्रतिजग्राह धर्मतः

Mahabharata

Shanti Parva, Adhyaya 40, Verse 17

पूजयामास तांश्चापि विधिवद्भूरिदक्षिणः

ततो निष्कसहस्रेण ब्राह्मणान्स्वस्ति वाचयत्

वेदाध्ययनसंपन्नाञ्शीलवृत्तसमन्वितान्

Mahabharata

Shanti Parva, Adhyaya 40, Verse 18

ते प्रीता ब्राह्मणा राजन्स्वस्त्यूचुर्जयमेव च

हंसा इव च नर्दन्तः प्रशशंसुर्युधिष्ठिरम्

Mahabharata

Shanti Parva, Adhyaya 40, Verse 19

युधिष्ठिर महाबाहो दिष्ट्या जयसि पाण्डव

दिष्ट्या स्वधर्मं प्राप्तोऽसि विक्रमेण महाद्युते

Mahabharata

Shanti Parva, Adhyaya 40, Verse 20

दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः

त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ

Mahabharata

Shanti Parva, Adhyaya 40, Verse 21

मुक्ता वीरक्षयादस्मात्संग्रामान्निहतद्विषः

क्षिप्रमुत्तरकालानि कुरु कार्याणि पाण्डव

Mahabharata

Shanti Parva, Adhyaya 40, Verse 22

ततः प्रत्यर्चितः सद्भिर्धर्मराजो युधिष्ठिरः

प्रतिपेदे महद्राज्यं सुहृद्भिः सह भारत