Mahabharata

Adi Parva, Adhyaya 204

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 204, Verse 1

जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ

कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः

Mahabharata

Adi Parva, Adhyaya 204, Verse 2

देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम्

आदाय सर्वरत्नानि परां तुष्टिमुपागतौ

Mahabharata

Adi Parva, Adhyaya 204, Verse 3

यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन

निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव

Mahabharata

Adi Parva, Adhyaya 204, Verse 4

स्त्रीभिर्माल्यैश्च गन्धैश्च भक्षैर्भोज्यैश्च पुष्कलैः

पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः

Mahabharata

Adi Parva, Adhyaya 204, Verse 5

अन्तःपुरे वनोद्याने पर्वतोपवनेषु च

यथेप्सितेषु देशेषु विजह्रातेऽमराविव

Mahabharata

Adi Parva, Adhyaya 204, Verse 6

ततः कदाचिद्विन्ध्यस्य पृष्ठे समशिलातले

पुष्पिताग्रेषु शालेषु विहारमभिजग्मतुः

Mahabharata

Adi Parva, Adhyaya 204, Verse 7

दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ

वरासनेषु संहृष्टौ सह स्त्रीभिर्निषेदतुः

Mahabharata

Adi Parva, Adhyaya 204, Verse 8

ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रियः

गीतैश्च स्तुतिसंयुक्तैः प्रीत्यर्थमुपजग्मिरे

Mahabharata

Adi Parva, Adhyaya 204, Verse 9

ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती

वेषमाक्षिप्तमाधाय रक्तेनैकेन वाससा

Mahabharata

Adi Parva, Adhyaya 204, Verse 10

नदीतीरेषु जातान्सा कर्णिकारान्विचिन्वती

शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ

Mahabharata

Adi Parva, Adhyaya 204, Verse 11

तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ

दृष्ट्वैव तां वरारोहां व्यथितौ संबभूवतुः

Mahabharata

Adi Parva, Adhyaya 204, Verse 12

तावुत्पत्यासनं हित्वा जग्मतुर्यत्र सा स्थिता

उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम्

Mahabharata

Adi Parva, Adhyaya 204, Verse 13

दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना

उपसुन्दोऽपि जग्राह वामे पाणौ तिलोत्तमाम्

Mahabharata

Adi Parva, Adhyaya 204, Verse 14

वरप्रदानमत्तौ तावौरसेन बलेन च

धनरत्नमदाभ्यां च सुरापानमदेन च

Mahabharata

Adi Parva, Adhyaya 204, Verse 15

सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ

मदकामसमाविष्टौ परस्परमथोचतुः

Mahabharata

Adi Parva, Adhyaya 204, Verse 16

मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत

मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत

Mahabharata

Adi Parva, Adhyaya 204, Verse 17

नैषा तव ममैषेति तत्र तौ मन्युराविशत्

तस्या हेतोर्गदे भीमे तावुभावप्यगृह्णताम्

Mahabharata

Adi Parva, Adhyaya 204, Verse 18

तौ प्रगृह्य गदे भीमे तस्याः कामेन मोहितौ

अहं पूर्वमहं पूर्वमित्यन्योन्यं निजघ्नतुः

Mahabharata

Adi Parva, Adhyaya 204, Verse 19

तौ गदाभिहतौ भीमौ पेततुर्धरणीतले

रुधिरेणावलिप्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ

Mahabharata

Adi Parva, Adhyaya 204, Verse 20

ततस्ता विद्रुता नार्यः स च दैत्यगणस्तदा

पातालमगमत्सर्वो विषादभयकम्पितः

Mahabharata

Adi Parva, Adhyaya 204, Verse 21

ततः पितामहस्तत्र सह देवैर्महर्षिभिः

आजगाम विशुद्धात्मा पूजयिष्यंस्तिलोत्तमाम्

Mahabharata

Adi Parva, Adhyaya 204, Verse 22

वरेण छन्दिता सा तु ब्रह्मणा प्रीतिमेव ह

वरयामास तत्रैनां प्रीतः प्राह पितामहः

Mahabharata

Adi Parva, Adhyaya 204, Verse 23

आदित्यचरिताँल्लोकान्विचरिष्यसि भामिनि

तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन

Mahabharata

Adi Parva, Adhyaya 204, Verse 24

एवं तस्यै वरं दत्त्वा सर्वलोकपितामहः

इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः

Mahabharata

Adi Parva, Adhyaya 204, Verse 25

एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ

तिलोत्तमार्थे संक्रुद्धावन्योन्यमभिजघ्नतुः

Mahabharata

Adi Parva, Adhyaya 204, Verse 26

तस्माद्ब्रवीमि वः स्नेहात्सर्वान्भरतसत्तमान्

यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते

तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ

Mahabharata

Adi Parva, Adhyaya 204, Verse 27

एवमुक्ता महात्मानो नारदेन महर्षिणा

समयं चक्रिरे राजंस्तेऽन्योन्येन समागताः

समक्षं तस्य देवर्षेर्नारदस्यामितौजसः

Mahabharata

Adi Parva, Adhyaya 204, Verse 28

द्रौपद्या नः सहासीनमन्योऽन्यं योऽभिदर्शयेत्

स नो द्वादश वर्षाणि ब्रह्मचारी वने वसेत्

Mahabharata

Adi Parva, Adhyaya 204, Verse 29

कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः

नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः

Mahabharata

Adi Parva, Adhyaya 204, Verse 30

एवं तैः समयः पूर्वं कृतो नारदचोदितैः

न चाभिद्यन्त ते सार्वे तदान्योन्येन भारत