Mahabharata

Shanti Parva, Adhyaya 39

Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 39, Verse 1

प्रवेशने तु पार्थानां जनस्य पुरवासिनः

दिदृक्षूणां सहस्राणि समाजग्मुर्बहून्यथ

Mahabharata

Shanti Parva, Adhyaya 39, Verse 2

स राजमार्गः शुशुभे समलंकृतचत्वरः

यथा चन्द्रोदये राजन्वर्धमानो महोदधिः

Mahabharata

Shanti Parva, Adhyaya 39, Verse 3

गृहाणि राजमार्गे तु रत्नवन्ति बृहन्ति च

प्राकम्पन्तेव भारेण स्त्रीणां पूर्णानि भारत

Mahabharata

Shanti Parva, Adhyaya 39, Verse 4

ताः शनैरिव सव्रीडं प्रशशंसुर्युधिष्ठिरम्

भीमसेनार्जुनौ चैव माद्रीपुत्रौ च पाण्डवौ

Mahabharata

Shanti Parva, Adhyaya 39, Verse 5

धन्या त्वमसि पाञ्चालि या त्वं पुरुषसत्तमान्

उपतिष्ठसि कल्याणि महर्षीनिव गौतमी

Mahabharata

Shanti Parva, Adhyaya 39, Verse 6

तव कर्माण्यमोघानि व्रतचर्या च भामिनि

इति कृष्णां महाराज प्रशशंसुस्तदा स्त्रियः

Mahabharata

Shanti Parva, Adhyaya 39, Verse 7

प्रशंसावचनैस्तासां मिथःशब्दैश्च भारत

प्रीतिजैश्च तदा शब्दैः पुरमासीत्समाकुलम्

Mahabharata

Shanti Parva, Adhyaya 39, Verse 8

तमतीत्य यथायुक्तं राजमार्गं युधिष्ठिरः

अलंकृतं शोभमानमुपायाद्राजवेश्म ह

Mahabharata

Shanti Parva, Adhyaya 39, Verse 9

ततः प्रकृतयः सर्वाः पौरजानपदास्तथा

ऊचुः कथाः कर्णसुखाः समुपेत्य ततस्ततः

Mahabharata

Shanti Parva, Adhyaya 39, Verse 10

दिष्ट्या जयसि राजेन्द्र शत्रूञ्शत्रुनिसूदन

दिष्ट्या राज्यं पुनः प्राप्तं धर्मेण च बलेन च

Mahabharata

Shanti Parva, Adhyaya 39, Verse 11

भव नस्त्वं महाराज राजेह शरदां शतम्

प्रजाः पालय धर्मेण यथेन्द्रस्त्रिदिवं नृप

Mahabharata

Shanti Parva, Adhyaya 39, Verse 12

एवं राजकुलद्वारि मङ्गलैरभिपूजितः

आशीर्वादान्द्विजैरुक्तान्प्रतिगृह्य समन्ततः

Mahabharata

Shanti Parva, Adhyaya 39, Verse 13

प्रविश्य भवनं राजा देवराजगृहोपमम्

श्रुत्वा विजयसंयुक्तं रथात्पश्चादवातरत्

Mahabharata

Shanti Parva, Adhyaya 39, Verse 14

प्रविश्याभ्यन्तरं श्रीमान्दैवतान्यभिगम्य च

पूजयामास रत्नैश्च गन्धैर्माल्यैश्च सर्वशः

Mahabharata

Shanti Parva, Adhyaya 39, Verse 15

निश्चक्राम ततः श्रीमान्पुनरेव महायशाः

ददर्श ब्राह्मणांश्चैव सोऽभिरूपानुपस्थितान्

Mahabharata

Shanti Parva, Adhyaya 39, Verse 16

स संवृतस्तदा विप्रैराशीर्वादविवक्षुभिः

शुशुभे विमलश्चन्द्रस्तारागणवृतो यथा

Mahabharata

Shanti Parva, Adhyaya 39, Verse 17

तान्स संपूजयामास कौन्तेयो विधिवद्द्विजान्

धौम्यं गुरुं पुरस्कृत्य ज्येष्ठं पितरमेव च

Mahabharata

Shanti Parva, Adhyaya 39, Verse 18

सुमनोमोदकै रत्नैर्हिरण्येन च भूरिणा

गोभिर्वस्त्रैश्च राजेन्द्र विविधैश्च किमिच्छकैः

Mahabharata

Shanti Parva, Adhyaya 39, Verse 19

ततः पुण्याहघोषोऽभूद्दिवं स्तब्ध्वेव भारत

सुहृदां हर्षजननः पुण्यः श्रुतिसुखावहः

Mahabharata

Shanti Parva, Adhyaya 39, Verse 20

हंसवन्नेदुषां राजन्द्विजानां तत्र भारती

शुश्रुवे वेदविदुषां पुष्कलार्थपदाक्षरा

Mahabharata

Shanti Parva, Adhyaya 39, Verse 21

ततो दुन्दुभिनिर्घोषः शङ्खानां च मनोरमः

जयं प्रवदतां तत्र स्वनः प्रादुरभून्नृप

Mahabharata

Shanti Parva, Adhyaya 39, Verse 22

निःशब्दे च स्थिते तत्र ततो विप्रजने पुनः

राजानं ब्राह्मणच्छद्मा चार्वाको राक्षसोऽब्रवीत्

Mahabharata

Shanti Parva, Adhyaya 39, Verse 23

तत्र दुर्योधनसखा भिक्षुरूपेण संवृतः

सांख्यः शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः

Mahabharata

Shanti Parva, Adhyaya 39, Verse 24

वृतः सर्वैस्तदा विप्रैराशीर्वादविवक्षुभिः

परंसहस्रै राजेन्द्र तपोनियमसंस्थितैः

Mahabharata

Shanti Parva, Adhyaya 39, Verse 25

स दुष्टः पापमाशंसन्पाण्डवानां महात्मनाम्

अनामन्त्र्यैव तान्विप्रांस्तमुवाच महीपतिम्

Mahabharata

Shanti Parva, Adhyaya 39, Verse 26

इमे प्राहुर्द्विजाः सर्वे समारोप्य वचो मयि

धिग्भवन्तं कुनृपतिं ज्ञातिघातिनमस्तु वै

Mahabharata

Shanti Parva, Adhyaya 39, Verse 27

किं ते राज्येन कौन्तेय कृत्वेमं ज्ञातिसंक्षयम्

घातयित्वा गुरूंश्चैव मृतं श्रेयो न जीवितम्

Mahabharata

Shanti Parva, Adhyaya 39, Verse 28

इति ते वै द्विजाः श्रुत्वा तस्य घोरस्य रक्षसः

विव्यथुश्चुक्रुशुश्चैव तस्य वाक्यप्रधर्षिताः

Mahabharata

Shanti Parva, Adhyaya 39, Verse 29

ततस्ते ब्राह्मणाः सर्वे स च राजा युधिष्ठिरः

व्रीडिताः परमोद्विग्नास्तूष्णीमासन्विशां पते

Mahabharata

Shanti Parva, Adhyaya 39, Verse 30

प्रसीदन्तु भवन्तो मे प्रणतस्याभियाचतः

प्रत्यापन्नं व्यसनिनं न मां धिक्कर्तुमर्हथ