Mahabharata

Shanti Parva, Adhyaya 38

Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 38, Verse 1

श्रोतुमिच्छामि भगवन्विस्तरेण महामुने

राजधर्मान्द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान्

Mahabharata

Shanti Parva, Adhyaya 38, Verse 2

आपत्सु च यथा नीतिर्विधातव्या महीक्षिता

धर्म्यमालम्ब्य पन्थानं विजयेयं कथं महीम्

Mahabharata

Shanti Parva, Adhyaya 38, Verse 3

प्रायश्चित्तकथा ह्येषा भक्ष्याभक्ष्यविवर्धिता

कौतूहलानुप्रवणा हर्षं जनयतीव मे

Mahabharata

Shanti Parva, Adhyaya 38, Verse 4

धर्मचर्या च राज्यं च नित्यमेव विरुध्यते

येन मुह्यति मे चेतश्चिन्तयानस्य नित्यशः

Mahabharata

Shanti Parva, Adhyaya 38, Verse 5

तमुवाच महातेजा व्यासो वेदविदां वरः

नारदं समभिप्रेक्ष्य सर्वं जानन्पुरातनम्

Mahabharata

Shanti Parva, Adhyaya 38, Verse 6

श्रोतुमिच्छसि चेद्धर्मानखिलेन युधिष्ठिर

प्रैहि भीष्मं महाबाहो वृद्धं कुरुपितामहम्

Mahabharata

Shanti Parva, Adhyaya 38, Verse 7

स ते सर्वरहस्येषु संशयान्मनसि स्थितान्

छेत्ता भागीरथीपुत्रः सर्वज्ञः सर्वधर्मवित्

Mahabharata

Shanti Parva, Adhyaya 38, Verse 8

जनयामास यं देवी दिव्या त्रिपथगा नदी

साक्षाद्ददर्श यो देवान्सर्वाञ्शक्रपुरोगमान्

Mahabharata

Shanti Parva, Adhyaya 38, Verse 9

बृहस्पतिपुरोगांश्च देवर्षीनसकृत्प्रभुः

तोषयित्वोपचारेण राजनीतिमधीतवान्

Mahabharata

Shanti Parva, Adhyaya 38, Verse 10

उशना वेद यच्छास्त्रं देवासुरगुरुर्द्विजः

तच्च सर्वं सवैयाख्यं प्राप्तवान्कुरुसत्तमः

Mahabharata

Shanti Parva, Adhyaya 38, Verse 11

भार्गवाच्च्यवनाच्चापि वेदानङ्गोपबृंहितान्

प्रतिपेदे महाबुद्धिर्वसिष्ठाच्च यतव्रतात्

Mahabharata

Shanti Parva, Adhyaya 38, Verse 12

पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम्

अध्यात्मगतितत्त्वज्ञमुपाशिक्षत यः पुरा

Mahabharata

Shanti Parva, Adhyaya 38, Verse 13

मार्कण्डेयमुखात्कृत्स्नं यतिधर्ममवाप्तवान्

रामादस्त्राणि शक्राच्च प्राप्तवान्भरतर्षभ

Mahabharata

Shanti Parva, Adhyaya 38, Verse 14

मृत्युरात्मेच्छया यस्य जातस्य मनुजेष्वपि

तथानपत्यस्य सतः पुण्यलोका दिवि श्रुताः

Mahabharata

Shanti Parva, Adhyaya 38, Verse 15

यस्य ब्रह्मर्षयः पुण्या नित्यमासन्सभासदः

यस्य नाविदितं किंचिज्ज्ञानज्ञेयेषु विद्यते

Mahabharata

Shanti Parva, Adhyaya 38, Verse 16

स ते वक्ष्यति धर्मज्ञः सूक्ष्मधर्मार्थतत्त्ववित्

तमभ्येहि पुरा प्राणान्स विमुञ्चति धर्मवित्

Mahabharata

Shanti Parva, Adhyaya 38, Verse 17

एवमुक्तस्तु कौन्तेयो दीर्घप्रज्ञो महाद्युतिः

उवाच वदतां श्रेष्ठं व्यासं सत्यवतीसुतम्

Mahabharata

Shanti Parva, Adhyaya 38, Verse 18

वैशसं सुमहत्कृत्वा ज्ञातीनां लोमहर्षणम्

आगस्कृत्सर्वलोकस्य पृथिवीनाशकारकः

Mahabharata

Shanti Parva, Adhyaya 38, Verse 19

घातयित्वा तमेवाजौ छलेनाजिह्मयोधिनम्

उपसंप्रष्टुमर्हामि तमहं केन हेतुना

Mahabharata

Shanti Parva, Adhyaya 38, Verse 20

ततस्तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सया

पुनराह महाबाहुर्यदुश्रेष्ठो महाद्युतिः

Mahabharata

Shanti Parva, Adhyaya 38, Verse 21

नेदानीमतिनिर्बन्धं शोके कर्तुमिहार्हसि

यदाह भगवान्व्यासस्तत्कुरुष्व नृपोत्तम

Mahabharata

Shanti Parva, Adhyaya 38, Verse 22

ब्राह्मणास्त्वां महाबाहो भ्रातरश्च महौजसः

पर्जन्यमिव घर्मार्ता आशंसाना उपासते

Mahabharata

Shanti Parva, Adhyaya 38, Verse 23

हतशिष्टाश्च राजानः कृत्स्नं चैव समागतम्

चातुर्वर्ण्यं महाराज राष्ट्रं ते कुरुजाङ्गलम्

Mahabharata

Shanti Parva, Adhyaya 38, Verse 24

प्रियार्थमपि चैतेषां ब्राह्मणानां महात्मनाम्

नियोगादस्य च गुरोर्व्यासस्यामिततेजसः

Mahabharata

Shanti Parva, Adhyaya 38, Verse 25

सुहृदां चास्मदादीनां द्रौपद्याश्च परंतप

कुरु प्रियममित्रघ्न लोकस्य च हितं कुरु

Mahabharata

Shanti Parva, Adhyaya 38, Verse 26

एवमुक्तस्तु कृष्णेन राजा राजीवलोचनः

हितार्थं सर्वलोकस्य समुत्तस्थौ महातपाः

Mahabharata

Shanti Parva, Adhyaya 38, Verse 27

सोऽनुनीतो नरव्याघ्रो विष्टरश्रवसा स्वयम्

द्वैपायनेन च तथा देवस्थानेन जिष्णुना

Mahabharata

Shanti Parva, Adhyaya 38, Verse 28

एतैश्चान्यैश्च बहुभिरनुनीतो युधिष्ठिरः

व्यजहान्मानसं दुःखं संतापं च महामनाः

Mahabharata

Shanti Parva, Adhyaya 38, Verse 29

श्रुतवाक्यः श्रुतनिधिः श्रुतश्रव्यविशारदः

व्यवस्य मनसः शान्तिमगच्छत्पाण्डुनन्दनः

Mahabharata

Shanti Parva, Adhyaya 38, Verse 30

स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः

धृतराष्ट्रं पुरस्कृत्य स्वपुरं प्रविवेश ह