Shanti Parva, Adhyaya 37, Verse 1
एवमुक्तो भगवता धर्मराजो युधिष्ठिरः
चिन्तयित्वा मुहूर्तं तु प्रत्युवाच तपोधनम्
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्तो भगवता धर्मराजो युधिष्ठिरः
चिन्तयित्वा मुहूर्तं तु प्रत्युवाच तपोधनम्
किं भक्ष्यं किमभक्ष्यं च किं च देयं प्रशस्यते
किं च पात्रमपात्रं वा तन्मे ब्रूहि पितामह
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
सिद्धानां चैव संवादं मनोश्चैव प्रजापतेः
सिद्धास्तपोव्रतपराः समागम्य पुरा विभुम्
धर्मं पप्रच्छुरासीनमादिकाले प्रजापतिम्
कथमन्नं कथं दानं कथमध्ययनं तपः
कार्याकार्यं च नः सर्वं शंस वै त्वं प्रजापते
तैरेवमुक्तो भगवान्मनुः स्वायंभुवोऽब्रवीत्
शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः
अदत्तस्यानुपादानं दानमध्ययनं तपः
अहिंसा सत्यमक्रोधः क्षमेज्या धर्मलक्षणम्
य एव धर्मः सोऽधर्मोऽदेशेऽकाले प्रतिष्ठितः
आदानमनृतं हिंसा धर्मो व्यावस्थिकः स्मृतः
द्विविधौ चाप्युभावेतौ धर्माधर्मौ विजानताम्
अप्रवृत्तिः प्रवृत्तिश्च द्वैविध्यं लोकवेदयोः
अप्रवृत्तेरमर्त्यत्वं मर्त्यत्वं कर्मणः फलम्
अशुभस्याशुभं विद्याच्छुभस्य शुभमेव च
एतयोश्चोभयोः स्यातां शुभाशुभतया तथा
दैवं च दैवयुक्तं च प्राणश्च प्रलयश्च ह
अप्रेक्षापूर्वकरणादशुभानां शुभं फलम्
ऊर्ध्वं भवति संदेहादिह दृष्टार्थमेव वा
अप्रेक्षापूर्वकरणात्प्रायश्चित्तं विधीयते
क्रोधमोहकृते चैव दृष्टान्तागमहेतुभिः
शरीराणामुपक्लेशो मनसश्च प्रियाप्रिये
तदौषधैश्च मन्त्रैश्च प्रायश्चित्तैश्च शाम्यति
जातिश्रेण्यधिवासानां कुलधर्मांश्च सर्वतः
वर्जयेन्न हि तं धर्मं येषां धर्मो न विद्यते
दश वा वेदशास्त्रज्ञास्त्रयो वा धर्मपाठकाः
यद्ब्रूयुः कार्य उत्पन्ने स धर्मो धर्मसंशये
अरुणा मृत्तिका चैव तथा चैव पिपीलकाः
श्लेष्मातकस्तथा विप्रैरभक्ष्यं विषमेव च
अभक्ष्या ब्राह्मणैर्मत्स्याः शकलैर्ये विवर्जिताः
चतुष्पात्कच्छपादन्यो मण्डूका जलजाश्च ये
भासा हंसाः सुपर्णाश्च चक्रवाका बकाः प्लवाः
कङ्को मद्गुश्च गृध्राश्च काकोलूकं तथैव च
क्रव्यादाः पक्षिणः सर्वे चतुष्पादाश्च दंष्ट्रिणः
येषां चोभयतो दन्ताश्चतुर्दंष्ट्राश्च सर्वशः
एडकाश्वखरोष्ट्रीणां सूतिकानां गवामपि
मानुषीणां मृगीणां च न पिबेद्ब्राह्मणः पयः
प्रेतान्नं सूतिकान्नं च यच्च किंचिदनिर्दशम्
अभोज्यं चाप्यपेयं च धेन्वा दुग्धमनिर्दशम्
तक्ष्णश्चर्मावकर्तुश्च पुंश्चल्या रजकस्य च
चिकित्सकस्य यच्चान्नमभोज्यं रक्षिणस्तथा
गणग्रामाभिशस्तानां रङ्गस्त्रीजीविनश्च ये
परिवित्तिनपुंषां च बन्दिद्यूतविदां तथा
वार्यमाणाहृतं चान्नं शुक्तं पर्युषितं च यत्
सुरानुगतमुच्छिष्टमभोज्यं शेषितं च यत्
पिष्टमांसेक्षुशाकानां विकाराः पयसस्तथा
सक्तुधानाकरम्भाश्च नोपभोज्याश्चिरस्थिताः
पायसं कृसरं मांसमपूपाश्च वृथा कृताः
अभोज्याश्चाप्यभक्ष्याश्च ब्राह्मणैर्गृहमेधिभिः
देवान्पितॄन्मनुष्यांश्च मुनीन्गृह्याश्च देवताः
पूजयित्वा ततः पश्चाद्गृहस्थो भोक्तुमर्हति
यथा प्रव्रजितो भिक्षुर्गृहस्थः स्वगृहे वसेत्
एवंवृत्तः प्रियैर्दारैः संवसन्धर्ममाप्नुयात्
न दद्याद्यशसे दानं न भयान्नोपकारिणे
न नृत्तगीतशीलेषु हासकेषु च धार्मिकः
न मत्ते नैव चोन्मत्ते न स्तेने न चिकित्सके
न वाग्घीने विवर्णे वा नाङ्गहीने न वामने