Mahabharata

Shanti Parva, Adhyaya 36

Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 36, Verse 1

तपसा कर्मभिश्चैव प्रदानेन च भारत

पुनाति पापं पुरुषः पूतश्चेन्न प्रवर्तते

Mahabharata

Shanti Parva, Adhyaya 36, Verse 2

एककालं तु भुञ्जानश्चरन्भैक्षं स्वकर्मकृत्

कपालपाणिः खट्वाङ्गी ब्रह्मचारी सदोत्थितः

Mahabharata

Shanti Parva, Adhyaya 36, Verse 3

अनसूयुरधःशायी कर्म लोके प्रकाशयन्

पूर्णैर्द्वादशभिर्वर्षैर्ब्रह्महा विप्रमुच्यते

Mahabharata

Shanti Parva, Adhyaya 36, Verse 4

षड्भिर्वर्षैः कृच्छ्रभोजी ब्रह्महा पूयते नरः

मासे मासे समश्नंस्तु त्रिभिर्वर्षैः प्रमुच्यते

Mahabharata

Shanti Parva, Adhyaya 36, Verse 5

संवत्सरेण मासाशी पूयते नात्र संशयः

तथैवोपरमन्राजन्स्वल्पेनापि प्रमुच्यते

Mahabharata

Shanti Parva, Adhyaya 36, Verse 6

क्रतुना चाश्वमेधेन पूयते नात्र संशयः

ये चास्यावभृथे स्नान्ति केचिदेवंविधा नराः

Mahabharata

Shanti Parva, Adhyaya 36, Verse 7

ते सर्वे पूतपाप्मानो भवन्तीति परा श्रुतिः

ब्राह्मणार्थे हतो युद्धे मुच्यते ब्रह्महत्यया

Mahabharata

Shanti Parva, Adhyaya 36, Verse 8

गवां शतसहस्रं तु पात्रेभ्यः प्रतिपादयन्

ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च

Mahabharata

Shanti Parva, Adhyaya 36, Verse 9

कपिलानां सहस्राणि यो दद्यात्पञ्चविंशतिम्

दोग्ध्रीणां स च पापेभ्यः सर्वेभ्यो विप्रमुच्यते

Mahabharata

Shanti Parva, Adhyaya 36, Verse 10

गोसहस्रं सवत्सानां दोग्ध्रीणां प्राणसंशये

साधुभ्यो वै दरिद्रेभ्यो दत्त्वा मुच्येत किल्बिषात्

Mahabharata

Shanti Parva, Adhyaya 36, Verse 11

शतं वै यस्तु काम्बोजान्ब्राह्मणेभ्यः प्रयच्छति

नियतेभ्यो महीपाल स च पापात्प्रमुच्यते

Mahabharata

Shanti Parva, Adhyaya 36, Verse 12

मनोरथं तु यो दद्यादेकस्मा अपि भारत

न कीर्तयेत दत्त्वा यः स च पापात्प्रमुच्यते

Mahabharata

Shanti Parva, Adhyaya 36, Verse 13

सुरापानं सकृत्पीत्वा योऽग्निवर्णां पिबेद्द्विजः

स पावयत्यथात्मानमिह लोके परत्र च

Mahabharata

Shanti Parva, Adhyaya 36, Verse 14

मेरुप्रपातं प्रपतञ्ज्वलनं वा समाविशन्

महाप्रस्थानमातिष्ठन्मुच्यते सर्वकिल्बिषैः

Mahabharata

Shanti Parva, Adhyaya 36, Verse 15

बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पुनः

समितिं ब्राह्मणैर्गच्छेदिति वै ब्राह्मणी श्रुतिः

Mahabharata

Shanti Parva, Adhyaya 36, Verse 16

भूमिप्रदानं कुर्याद्यः सुरां पीत्वा विमत्सरः

पुनर्न च पिबेद्राजन्संस्कृतः शुध्यते नरः

Mahabharata

Shanti Parva, Adhyaya 36, Verse 17

गुरुतल्पी शिलां तप्तामायसीमधिसंविशेत्

पाणावाधाय वा शेफं प्रव्रजेदूर्ध्वदर्शनः

Mahabharata

Shanti Parva, Adhyaya 36, Verse 18

शरीरस्य विमोक्षेण मुच्यते कर्मणोऽशुभात्

कर्मभ्यो विप्रमुच्यन्ते यत्ताः संवत्सरं स्त्रियः

Mahabharata

Shanti Parva, Adhyaya 36, Verse 19

महाव्रतं चरेद्यस्तु दद्यात्सर्वस्वमेव तु

गुर्वर्थे वा हतो युद्धे स मुच्येत्कर्मणोऽशुभात्

Mahabharata

Shanti Parva, Adhyaya 36, Verse 20

अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस्तथा

उपहृत्य प्रियं तस्मै तस्मात्पापात्प्रमुच्यते

Mahabharata

Shanti Parva, Adhyaya 36, Verse 21

अवकीर्णिनिमित्तं तु ब्रह्महत्याव्रतं चरेत्

खरचर्मवासाः षण्मासं तथा मुच्येत किल्बिषात्

Mahabharata

Shanti Parva, Adhyaya 36, Verse 22

परदारापहारी च परस्यापहरन्वसु

संवत्सरं व्रती भूत्वा तथा मुच्येत किल्बिषात्

Mahabharata

Shanti Parva, Adhyaya 36, Verse 23

स्तेयं तु यस्यापहरेत्तस्मै दद्यात्समं वसु

विविधेनाभ्युपायेन तेन मुच्येत किल्बिषात्

Mahabharata

Shanti Parva, Adhyaya 36, Verse 24

कृच्छ्राद्द्वादशरात्रेण स्वभ्यस्तेन दशावरम्

परिवेत्ता भवेत्पूतः परिवित्तिश्च भारत

Mahabharata

Shanti Parva, Adhyaya 36, Verse 25

निवेश्यं तु भवेत्तेन सदा तारयिता पितॄन्

न तु स्त्रिया भवेद्दोषो न तु सा तेन लिप्यते

Mahabharata

Shanti Parva, Adhyaya 36, Verse 26

भजने ह्यृतुना शुद्धं चातुर्मास्यं विधीयते

स्त्रियस्तेन विशुध्यन्ति इति धर्मविदो विदुः

Mahabharata

Shanti Parva, Adhyaya 36, Verse 27

स्त्रियस्त्वाशङ्किताः पापैर्नोपगम्या हि जानता

रजसा ता विशुध्यन्ते भस्मना भाजनं यथा

Mahabharata

Shanti Parva, Adhyaya 36, Verse 28

चतुष्पात्सकलो धर्मो ब्राह्मणानां विधीयते

पादावकृष्टो राजन्ये तथा धर्मो विधीयते

Mahabharata

Shanti Parva, Adhyaya 36, Verse 29

तथा वैश्ये च शूद्रे च पादः पादो विधीयते

विद्यादेवंविधेनैषां गुरुलाघवनिश्चयम्

Mahabharata

Shanti Parva, Adhyaya 36, Verse 30

तिर्यग्योनिवधं कृत्वा द्रुमांश्छित्त्वेतरान्बहून्

त्रिरात्रं वायुभक्षः स्यात्कर्म च प्रथयेन्नरः