Mahabharata

Shanti Parva, Adhyaya 35

Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 35, Verse 1

कानि कृत्वेह कर्माणि प्रायश्चित्तीयते नरः

किं कृत्वा चैव मुच्येत तन्मे ब्रूहि पितामह

Mahabharata

Shanti Parva, Adhyaya 35, Verse 2

अकुर्वन्विहितं कर्म प्रतिषिद्धानि चाचरन्

प्रायश्चित्तीयते ह्येवं नरो मिथ्या च वर्तयन्

Mahabharata

Shanti Parva, Adhyaya 35, Verse 3

सूर्येणाभ्युदितो यश्च ब्रह्मचारी भवत्युत

तथा सूर्याभिनिर्मुक्तः कुनखी श्यावदन्नपि

Mahabharata

Shanti Parva, Adhyaya 35, Verse 4

परिवित्तिः परिवेत्ता ब्रह्मोज्झो यश्च कुत्सकः

दिधिषूपतिस्तथा यः स्यादग्रेदिधिषुरेव च

Mahabharata

Shanti Parva, Adhyaya 35, Verse 5

अवकीर्णी भवेद्यश्च द्विजातिवधकस्तथा

अतीर्थे ब्रह्मणस्त्यागी तीर्थे चाप्रतिपादकः

Mahabharata

Shanti Parva, Adhyaya 35, Verse 6

ग्रामयाजी च कौन्तेय राज्ञश्च परिविक्रयी

शूद्रस्त्रीवधको यश्च पूर्वः पूर्वस्तु गर्हितः

Mahabharata

Shanti Parva, Adhyaya 35, Verse 7

वृथापशुसमालम्भी वनदाहस्य कारकः

अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस्तथा

Mahabharata

Shanti Parva, Adhyaya 35, Verse 8

यश्चाग्नीनपविध्येत तथैव ब्रह्मविक्रयी

एतान्येनांसि सर्वाणि व्युत्क्रान्तसमयश्च यः

Mahabharata

Shanti Parva, Adhyaya 35, Verse 9

अकार्याण्यपि वक्ष्यामि यानि तानि निबोध मे

लोकवेदविरुद्धानि तान्येकाग्रमनाः शृणु

Mahabharata

Shanti Parva, Adhyaya 35, Verse 10

स्वधर्मस्य परित्यागः परधर्मस्य च क्रिया

अयाज्ययाजनं चैव तथाभक्ष्यस्य भक्षणम्

Mahabharata

Shanti Parva, Adhyaya 35, Verse 11

शरणागतसंत्यागो भृत्यस्याभरणं तथा

रसानां विक्रयश्चापि तिर्यग्योनिवधस्तथा

Mahabharata

Shanti Parva, Adhyaya 35, Verse 12

आधानादीनि कर्माणि शक्तिमान्न करोति यः

अप्रयच्छंश्च सर्वाणि नित्यं देयानि भारत

Mahabharata

Shanti Parva, Adhyaya 35, Verse 13

दक्षिणानामदानं च ब्राह्मणस्वाभिमर्शनम्

सर्वाण्येतान्यकार्याणि प्राहुर्धर्मविदो जनाः

Mahabharata

Shanti Parva, Adhyaya 35, Verse 14

पित्रा विभजते पुत्रो यश्च स्याद्गुरुतल्पगः

अप्रजायन्नधर्मेण भवत्याधर्मिको जनः

Mahabharata

Shanti Parva, Adhyaya 35, Verse 15

उक्तान्येतानि कर्माणि विस्तरेणेतरेण च

यानि कुर्वन्नकुर्वंश्च प्रायश्चित्तीयते जनः

Mahabharata

Shanti Parva, Adhyaya 35, Verse 16

एतान्येव तु कर्माणि क्रियमाणानि मानवान्

येषु येषु निमित्तेषु न लिम्पन्त्यथ तच्छृणु

Mahabharata

Shanti Parva, Adhyaya 35, Verse 17

प्रगृह्य शस्त्रमायान्तमपि वेदान्तगं रणे

जिघांसन्तं निहत्याजौ न तेन ब्रह्महा भवेत्

Mahabharata

Shanti Parva, Adhyaya 35, Verse 18

अपि चाप्यत्र कौन्तेय मन्त्रो वेदेषु पठ्यते

वेदप्रमाणविहितं तं धर्मं प्रब्रवीमि ते

Mahabharata

Shanti Parva, Adhyaya 35, Verse 19

अपेतं ब्राह्मणं वृत्ताद्यो हन्यादाततायिनम्

न तेन ब्रह्महा स स्यान्मन्युस्तं मन्युमृच्छति

Mahabharata

Shanti Parva, Adhyaya 35, Verse 20

प्राणात्यये तथाज्ञानादाचरन्मदिरामपि

अचोदितो धर्मपरः पुनः संस्कारमर्हति

Mahabharata

Shanti Parva, Adhyaya 35, Verse 21

एतत्ते सर्वमाख्यातं कौन्तेयाभक्ष्यभक्षणम्

प्रायश्चित्तविधानेन सर्वमेतेन शुध्यति

Mahabharata

Shanti Parva, Adhyaya 35, Verse 22

गुरुतल्पं हि गुर्वर्थे न दूषयति मानवम्

उद्दालकः श्वेतकेतुं जनयामास शिष्यतः

Mahabharata

Shanti Parva, Adhyaya 35, Verse 23

स्तेयं कुर्वंस्तु गुर्वर्थमापत्सु न निबध्यते

बहुशः कामकारेण न चेद्यः संप्रवर्तते

Mahabharata

Shanti Parva, Adhyaya 35, Verse 24

अन्यत्र ब्राह्मणस्वेभ्य आददानो न दुष्यति

स्वयमप्राशिता यश्च न स पापेन लिप्यते

Mahabharata

Shanti Parva, Adhyaya 35, Verse 25

प्राणत्राणेऽनृतं वाच्यमात्मनो वा परस्य वा

गुर्वर्थे स्त्रीषु चैव स्याद्विवाहकरणेषु च

Mahabharata

Shanti Parva, Adhyaya 35, Verse 26

नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथंचन

आज्यहोमः समिद्धेऽग्नौ प्रायश्चित्तं विधीयते

Mahabharata

Shanti Parva, Adhyaya 35, Verse 27

पारिवित्त्यं च पतिते नास्ति प्रव्रजिते तथा

भिक्षिते पारदार्यं च न तद्धर्मस्य दूषकम्

Mahabharata

Shanti Parva, Adhyaya 35, Verse 28

वृथापशुसमालम्भं नैव कुर्यान्न कारयेत्

अनुग्रहः पशूणां हि संस्कारो विधिचोदितः

Mahabharata

Shanti Parva, Adhyaya 35, Verse 29

अनर्हे ब्राह्मणे दत्तमज्ञानात्तन्न दूषकम्

सकारणं तथा तीर्थेऽतीर्थे वा प्रतिपादनम्

Mahabharata

Shanti Parva, Adhyaya 35, Verse 30

स्त्रियस्तथापचारिण्यो निष्कृतिः स्याददूषिका

अपि सा पूयते तेन न तु भर्ता प्रदुष्यते