Shanti Parva, Adhyaya 34, Verse 1
युधिष्ठिरस्य तद्वाक्यं श्रुत्वा द्वैपायनस्तदा
समीक्ष्य निपुणं बुद्ध्या ऋषिः प्रोवाच पाण्डवम्
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
युधिष्ठिरस्य तद्वाक्यं श्रुत्वा द्वैपायनस्तदा
समीक्ष्य निपुणं बुद्ध्या ऋषिः प्रोवाच पाण्डवम्
मा विषादं कृथा राजन्क्षत्रधर्ममनुस्मर
स्वधर्मेण हता ह्येते क्षत्रियाः क्षत्रियर्षभ
काङ्क्षमाणाः श्रियं कृत्स्नां पृथिव्यां च महद्यशः
कृतान्तविधिसंयुक्ताः कालेन निधनं गताः
न त्वं हन्ता न भीमोऽपि नार्जुनो न यमावपि
कालः पर्यायधर्मेण प्राणानादत्त देहिनाम्
न यस्य मातापितरौ नानुग्राह्योऽस्ति कश्चन
कर्मसाक्षी प्रजानां यस्तेन कालेन संहृताः
हेतुमात्रमिदं तस्य कालस्य पुरुषर्षभ
यद्धन्ति भूतैर्भूतानि तदस्मै रूपमैश्वरम्
कर्ममूर्त्यात्मकं विद्धि साक्षिणं शुभपापयोः
सुखदुःखगुणोदर्कं कालं कालफलप्रदम्
तेषामपि महाबाहो कर्माणि परिचिन्तय
विनाशहेतुकारित्वे यैस्ते कालवशं गताः
आत्मनश्च विजानीहि नियमव्रतशीलताम्
यदा त्वमीदृशं कर्म विधिनाक्रम्य कारितः
त्वष्ट्रेव विहितं यन्त्रं यथा स्थापयितुर्वशे
कर्मणा कालयुक्तेन तथेदं भ्राम्यते जगत्
पुरुषस्य हि दृष्ट्वेमामुत्पत्तिमनिमित्ततः
यदृच्छया विनाशं च शोकहर्षावनर्थकौ
व्यलीकं चापि यत्त्वत्र चित्तवैतंसिकं तव
तदर्थमिष्यते राजन्प्रायश्चित्तं तदाचर
इदं च श्रूयते पार्थ युद्धे देवासुरे पुरा
असुरा भ्रातरो ज्येष्ठा देवाश्चापि यवीयसः
तेषामपि श्रीनिमित्तं महानासीत्समुच्छ्रयः
युद्धं वर्षसहस्राणि द्वात्रिंशदभवत्किल
एकार्णवां महीं कृत्वा रुधिरेण परिप्लुताम्
जघ्नुर्दैत्यांस्तदा देवास्त्रिदिवं चैव लेभिरे
तथैव पृथिवीं लब्ध्वा ब्राह्मणा वेदपारगाः
संश्रिता दानवानां वै साह्यार्थे दर्पमोहिताः
शालावृका इति ख्यातास्त्रिषु लोकेषु भारत
अष्टाशीतिसहस्राणि ते चापि विबुधैर्हताः
धर्मव्युच्छित्तिमिच्छन्तो येऽधर्मस्य प्रवर्तकाः
हन्तव्यास्ते दुरात्मानो देवैर्दैत्या इवोल्बणाः
एकं हत्वा यदि कुले शिष्टानां स्यादनामयम्
कुलं हत्वाथ राष्ट्रं वा न तद्वृत्तोपघातकम्
अधर्मरूपो धर्मो हि कश्चिदस्ति नराधिप
धर्मश्चाधर्मरूपोऽस्ति तच्च ज्ञेयं विपश्चिता
तस्मात्संस्तम्भयात्मानं श्रुतवानसि पाण्डव
देवैः पूर्वगतं मार्गमनुयातोऽसि भारत
न हीदृशा गमिष्यन्ति नरकं पाण्डवर्षभ
भ्रातॄनाश्वासयैतांस्त्वं सुहृदश्च परंतप
यो हि पापसमारम्भे कार्ये तद्भावभावितः
कुर्वन्नपि तथैव स्यात्कृत्वा च निरपत्रपः
तस्मिंस्तत्कलुषं सर्वं समाप्तमिति शब्दितम्
प्रायश्चित्तं न तस्यास्ति ह्रासो वा पापकर्मणः
त्वं तु शुक्लाभिजातीयः परदोषेण कारितः
अनिच्छमानः कर्मेदं कृत्वा च परितप्यसे
अश्वमेधो महायज्ञः प्रायश्चित्तमुदाहृतम्
तमाहर महाराज विपाप्मैवं भविष्यसि
मरुद्भिः सह जित्वारीन्मघवान्पाकशासनः
एकैकं क्रतुमाहृत्य शतकृत्वः शतक्रतुः
पूतपाप्मा जितस्वर्गो लोकान्प्राप्य सुखोदयान्
मरुद्गणवृतः शक्रः शुशुभे भासयन्दिशः
स्वर्गलोके महीयन्तमप्सरोभिः शचीपतिम्
ऋषयः पर्युपासन्ते देवाश्च विबुधेश्वरम्
सोऽयं त्वमिह संक्रान्तो विक्रमेण वसुंधराम्
निर्जिताश्च महीपाला विक्रमेण त्वयानघ