Shanti Parva, Adhyaya 33, Verse 1
हताः पुत्राश्च पौत्राश्च भ्रातरः पितरस्तथा
श्वशुरा गुरवश्चैव मातुलाः सपितामहाः
Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.
हताः पुत्राश्च पौत्राश्च भ्रातरः पितरस्तथा
श्वशुरा गुरवश्चैव मातुलाः सपितामहाः
क्षत्रियाश्च महात्मानः संबन्धिसुहृदस्तथा
वयस्या ज्ञातयश्चैव भ्रातरश्च पितामह
बहवश्च मनुष्येन्द्रा नानादेशसमागताः
घातिता राज्यलुब्धेन मयैकेन पितामह
तांस्तादृशानहं हत्वा धर्मनित्यान्महीक्षितः
असकृत्सोमपान्वीरान्किं प्राप्स्यामि तपोधन
दह्याम्यनिशमद्याहं चिन्तयानः पुनः पुनः
हीनां पार्थिवसिंहैस्तैः श्रीमद्भिः पृथिवीमिमाम्
दृष्ट्वा ज्ञातिवधं घोरं हतांश्च शतशः परान्
कोटिशश्च नरानन्यान्परितप्ये पितामह
का नु तासां वरस्त्रीणामवस्थाद्य भविष्यति
विहीनानां स्वतनयैः पतिभिर्भ्रातृभिस्तथा
अस्मानन्तकरान्घोरान्पाण्डवान्वृष्णिसंहितान्
आक्रोशन्त्यः कृशा दीना निपतन्त्यश्च भूतले
अपश्यन्त्यः पितॄन्भ्रातॄन्पतीन्पुत्रांश्च योषितः
त्यक्त्वा प्राणान्प्रियान्सर्वा गमिष्यन्ति यमक्षयम्
वत्सलत्वाद्द्विजश्रेष्ठ तत्र मे नास्ति संशयः
व्यक्तं सौक्ष्म्याच्च धर्मस्य प्राप्स्यामः स्त्रीवधं वयम्
ते वयं सुहृदो हत्वा कृत्वा पापमनन्तकम्
नरके निपतिष्यामो ह्यधःशिरस एव च
शरीराणि विमोक्ष्यामस्तपसोग्रेण सत्तम
आश्रमांश्च विशेषांस्त्वं ममाचक्ष्व पितामह